________________
अवराइ विसेसहिओ अहलोयगामसंभवा वाऊ । तत्तो वि उत्तराए भवणच्छिड्डाण बहुयत्ता ॥ १९ ॥ तत्तो वि दाहिणेणं बहुतरओ भवणछिदुबहुयत्ता | दाहिणभवणाणि जओ बहुयाई उत्तरेहिंतो ॥ २० ॥
उत्तरदिगपेक्षया दक्षिणस्यां निकाये निकाये चतुश्चतुर्लक्षभवनानां नरकावासानां चाधिकत्वात् बहूनां कृष्णपाक्षिकाणां जीवानां तत्रोत्पद्यमानत्वात् । तथा यत्र शुषिरं तत्र व्यन्तराः प्रचरन्ति यत्र घनं तत्र न इति तेऽपि यथोक्ता ज्ञातव्याः ।। १७-२० ॥
नेरइया अइथोवा दिसातिए हुति दाहिणेण पुणो । अस्संखगुणा तत्तो एवं चिय बंभलोयसुरा ॥ २१ ॥
सर्वस्तोकाः पूर्वोत्तरपश्चिमदिकाये नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् बहूनां प्रायः सङ्ख्येययोजनविस्तृतत्वाच्च । तेभ्यो दक्षिणदिग्भाविनोऽसङ्घयेयगुणाः, पुष्पावकीर्ण नरकावासानां तत्र बाहुल्यात् तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात् कृष्णपाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच्च । तथाहि - द्विविधा जन्तवः कृष्णपाक्षिकाः शुक्लपाक्षिकाश्च । उक्तं च - "जेसिमवड्डो पुग्गलपरियहो सेसओ य संसारो । ते सुक्कपक्खिया खलु अहिए पुण