________________
सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् । इदं चात्र संग्रहिण्यामसंगृहीतमपि सूत्रोक्तत्वाइम्यम् २६ । तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसवयेयगुणत्वात् ३० । ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यर्याप्तकानां तत्र प्रक्षेपात् ३१ । तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खधेयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खथेयगुणाः सूक्ष्मेष्वोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्खथेयगुणत्वात् । तेन सूक्ष्मापर्याप्तेभ्योऽपि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः विशेषाधिकत्वस्य सङ्ख्य यगु णत्वबाधनायोगात् ३२ । तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ३३ । ततः सामान्यतः सूक्ष्माः पर्याप्तापर्याप्तविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । एतेऽप्यत्रासंगृहीता सूत्रोक्तत्वाल्लिखिताः ३४॥४८-५३॥ द्वारम् ॥४॥ मणजोगीण असंखा
वयजोगि अजोगिणो अणंतगुणा। तणुजोगिणो अणंता
विसेसअहिया सजोगि त्ति ॥५५ ।। .