________________
पश्चिमायाँ गौतमद्वीपोऽभ्यधिकः समस्ति तथा तस्यामधोलौकिकग्रामा अपि योजनसहस्त्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाः प्राप्नुवन्ति न विशेषाधिकाः । नैवम् , यथाऽधोलौकिकामावगाहो योजनसहस्रम्, गौतमद्वीपस्य पुनः षट्सप्सत्यधिकं योजनसहस्रमुच्चैस्त्वम् । विष्कम्भस्तस्य द्वादशयोजनसहस्राणि, ततो यद्यघोलौकिकग्रामच्छिद्रेषु बुद्धया गौतमद्वीपः प्रक्षिप्यते तथापि समधिक एव प्राप्यते न तुल्य इति ॥१२॥ तेऊ १ मणया २ सिद्धा ३,
उत्तर १ जम्मासु २ हुँति थोष त्ति । पुव्वाए संखगुणा
अवरेण पुण विसेसहिया ॥१३ ।। पायारंभा मणुया ते पुण थोवा दिसादुगे हुंति । भरहाइसु खित्तस्सप्पभावओ ते उ ता थोवं ॥ १४॥ ___'तेऊ सुगमा ॥१३॥ दक्षिणस्यां पञ्चसु भरतेषु उत्तरस्यां पश्चस्वैरवतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजस्कायिका अपि स्तोका अल्पपाकारम्भसंभवात् । ततः स्तोका दक्षिणोत्तरयोर्दिशोस्तेजस्कायिकाः । स्वस्थाने तु प्रायः समानाः ॥ १४ ॥