________________
जीवा दव्वा णंता ते चेव पएसओ असंखगुणा। पुग्गलदव्वा शंता पएसओ ते असंखगुणा ॥ ८६ ॥ अहासमया गंता
नहप्पएसा, तओ अणंतगुणा ॥ दारं २१॥ धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकाया एते त्रयोऽपि द्रव्यार्थतया, द्रव्यमेवाओं द्रव्यार्थस्तस्य भावो द्रव्यार्थता तया द्रव्यरूपतयेत्यर्थः, तुल्या समाः प्रत्येकमेकैकसङ्ख्याकत्वात् , अत एव सर्वस्तोकाः ३ । तेभ्यो धर्मास्तिकायाधर्मास्तिकायौ प्रदेशार्थतयाऽसङ्खयेयगुणो, परस्परं तुल्यौ, द्वयोरपि लोकाकाशप्रदेशप्रमाणप्रदेशत्वात् ५। ताभ्यां जीवास्तिकायो द्रव्यातयानन्तगणः, जीवानां प्रस्तेकं द्रव्यत्वात् तेषां चानन्तत्वात् ६ । ततः स एव प्रदेशार्थतयाऽसङ्खयेयगणः, प्रतिजीवं लोकाकाशप्रदेशप्रमाणप्रदेशभावात् ७। ततः पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगणः कथम् , इति चेदुच्यते-यत इह परमाणुद्विप्रदेशकादीनि पृथक्पृथग्द्रव्याणि, तानि च सामान्यतस्विधा, प्रयोगपरिणतानि मिश्रपरिणतानि विस्रसापरिणतानि च । तत्र प्रयोगपरिणताण्येव 'तावज्जीवप्रदेशेभ्योऽनन्तगणानि । एकैकस्य जीवप्रदेशस्या
१. “जीवेभ्योऽनन्तगुणानि । एकैकस्य जीवस्यानन्तैः” इति पाठः
प्रज्ञापनाटीकायाम् ।