Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 72
________________ शराशिप्रमाणा उक्तास्तथापि लोकासङ्खयेयत्वस्यासङ्खयेयमेदभिन्नत्वादित्थमल्पबहुवमभिधीयमानमुपपन्नं द्रष्टव्यम् ७३ ॥ १२८ ॥ अभवसिद्धिका अनन्तगुणाः, जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ । प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ । सिद्धा अनन्तगुणाः ७६ । पर्याप्सवादरवनस्पतिकायिका अनन्तगुणाः ७७ । सामान्यतो बादरपर्याप्सा विशेषाधिकाः, बादरपर्याप्तथिव्यादीनामपि तत्र प्रक्षेपात् ७८ ॥ १२६ ॥ बायरवण अपज्जत्ता असंख ७९ वायरसमत्त सविसेसा ८० । सविसेस पायरा ८१ मुहम वण अपज्जा ८२ असंखिज्जा ॥१३०॥ सुहुम असमत्त अहिया ८३ सुहुमवणस्सइ य संख पज्जत्ता ८४।। सुहुमसमत्ता ८५ सुहुमा ८६ भविया य ८७ निगोय ८८ वणजीवा ८९॥१३१।। बादरापर्याप्तवनस्पतयोऽसङ्खथेयगुणाः, एकैकवादरनिगोदपर्याप्तनिश्रयाऽसङ्खयेयगुणानां बादरापर्याप्तनिगोदानां संभवात् ७६ । सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८०। सामान्यतो बादरा विशेषाधिकाः, पर्याप्तापर्याप्तानामपि तत्र प्रक्षेपात् ८१ ।

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76