Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 74
________________ ७१ इय अहाणउइपयं सव्वजियप्पबहुमिइ पयं तइयं । पण्णवणाए सिरिअभयदेवसूरीहिं संगहियं ॥१३३॥ सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् १० । सामान्यततर्यञ्चो विशेषाधिकाः, पर्याप्तापर्याप्तद्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ६१ । चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्ट्यादिसंज्ञिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टिचिन्तायां चासङ्खयेयनारकादयस्तत्र प्रक्षिप्यन्ते ततस्तिर्यग्जीवापेक्षया चतुर्गतिका मिथ्यादृष्टयश्चिन्त्यमाना विशेषाधिकाः १२ । अविरता विशेषाधिकाः, अविरतसम्य-: ग्दृष्टीनामपि तत्र प्रक्षेपात ६३ । सकषायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र प्रक्षेपात् ६४। छद्मस्था विशेषा- : धिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् ६५ । सयोगिनो विशेषाधिकाः, सयोगिकेवलिनामपि तत्र प्रक्षेपात् ६६ । संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ६७ । सर्वजीवा विशेषाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् ६८ ॥ १३२ ॥ इत्युक्तप्रकारेण प्रकमादस्मिन्महादण्डके भावप्रधानत्वानिर्देशस्य सर्वजीवान्पंबहुस्वमुक्तम् । अष्टानवतिसङ्ख्यानि

Loading...

Page Navigation
1 ... 72 73 74 75 76