Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
४३
भणियाण लोगभेयाण नारया चउत्थवीयछठेसु । थोवा दोसु असंखा तिरिया जह ओहिया जीवा ॥९८
पूर्वोक्तानां षण्णां लोकभेदानां मध्ये चतुर्थद्वितीयषष्टेषु लोकेषु जीवा यथासङ्ख्यं स्तोका असङ्ख्यातगुणाश्च । तत्र कथं लोकत्रयस्पर्शिनो नैरयिकाः १ कथं वा ते सर्वस्तोकाः ? इत्याह-इह ये मेरुशिखरेऽञ्जनदधिमुखपर्वतशिखरादिषु वा वापीषु वर्तमाना मत्स्यादयो नारकेपुत्पित्सव इलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति, नारकव्यपदेशं च लभन्ते, तत्कालमेव नरकेधूत्पत्तेर्नारकायुष्कप्रतिसंवेदनात् । ते चेत्थम्भूताः सर्वस्तोकाः । अन्ये तु व्याचक्षते नारका एव यथोक्तवापीषु तिर्यकपञ्चेन्दियतयोत्पद्यमानाः समुद्घातवशतो विक्षिप्तनिजात्मप्रदेशदण्डा अघापि कालमकुव्वन्तो जातमरणाः परिगृह्यन्ते । ते हि किल तदा नारका एव निर्विवादं तदायुष्कसंवेदनात् त्रैलोक्यस्पर्शिनश्च यथोक्तवापीर्यावदात्मप्रदेशदण्डस्य विक्षिप्तत्वादिति १ । तेभ्यः प्रतरद्वयरूपाधोलोकतिर्यग्लोकेऽसङ्खयेयगुणाः । यतो मन्दरादिक्षेत्रादसङ्खयेयगुणादसङ्खयेयद्वीपसमुद्रात्मकक्षेत्रात्तिर्यपञ्चेन्द्रिया नरकेषत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति । अन्ये वाहुः-नारका एवासङ्खयेयेषु द्वीपसमुद्रेषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेश

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76