________________
ताभ्यस्तिर्यग्लोके सङ्खयेयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् ६, ॥६६॥ चउथे १ पढमे २ बीए ३,
पंचम ४ छठे ५ तइज्जए ६ मणुया। थोवा १ ऽसंखा २ सेसा,
संखिजगुणा ६ कमेणेव ॥१०० ॥ मनुष्यास्त्रिलोकस्पर्शिनः स्तोकाः, यतो ये ऊर्ध्वदोकादधोलौकिकयामेषत्पित्सवो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते च केचित्समुद्धातवशाबहिनिर्गतैरात्मप्रदेशस्त्रीनपि लोकान् स्पृशन्ति । येऽपि च वैक्रियसमुद्घातमाहारकसमुद्घातं वा गतास्तथाविधप्रयत्नविशेषाद्दरतरमृर्वाधोविक्षिप्तात्मप्रदेशा ये च केलिसमुद्घातं गतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति, एते सर्वेऽपि मीलिताः स्तोका एवेति १। तेभ्यः प्रथमे उर्ध्वलोकतिर्यग्लोकप्रतरद्वयरूपेऽसङ्ख्यगुणाः, यतो वैमानिकाः शेषकायाश्च यथासम्भवमू लोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयस्पशिनो भवन्ति । विद्याधराणामपि च मन्दरादिषु गमनं, तेषां च शुक्ररुधिरादिपुद्गलेषु सम्मूर्छिममनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूर्छिममनुष्या अपि यथोक्तप्रतरद्वयं स्पृशन्ति, ते चातिबहव इत्यसङ्खयेयगुणाः २ ।