Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तृतीयस्यां वालुकायां २० माहेन्द्रे २१ सनत्कुमारे २२ द्वितीयस्यां शर्करायां २३ यथोत्तरमसङ्खये यासङ्खये यगुणाः। एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकान्ताः प्रत्येक स्वस्थाने सर्वेऽपि घनीकृतलोकश्रेण्यसङ्खये यभागवत्तिनभःप्रदेशराशिप्रमाणा द्रष्टव्याः । परं श्रेण्यसङ्खये यभागोऽसङ्खये यभेदभिन्नस्तत इत्थमसङ्खये यग णा वाच्याः। संमूछिममनुष्या असङ्खये यगुणाः, ते ह्यङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीयवर्गमूलेन गुणिते प्रथमवर्गमूले यावान् प्रदेशराशिस्तावत्प्रमाणानि खण्डानि यावन्त्येकस्यामेकप्रादेशिक्या श्रेणौ भवन्ति तावत्प्रमाणाः २४ ॥११८-११६ ॥ ईशाने देवा असङ्खये यगुणाः, यतोऽङ्गु लमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवगमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाण ईशाने देवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पा ईशानदेवाः २५ । ईशानदेव्यः सङ्खये यगुणाः, द्वात्रिंशद्गु णत्वात् २६ । सौधर्मदेवाः सङ्ख्य यगुणाः, यथा माहेन्द्रापेक्षया सनत्कुमारे देवा असङ्खये यगुणा उक्ताः । इहापि दक्षिणस्यां कृष्णपाक्षिकोत्पत्त्यादिपूर्वोक्तयुक्तेर्विमानबाहुल्याच समानत्वेऽप्यत्र सङ्थे यगु णत्वं ज्ञेयं वचनप्रामा

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76