Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 59
________________ द्रव्यार्थतयाऽसङ्ख्यातगुणाः ६, त एव प्रदेशार्थतयाऽसङ्ख्यातगुणाः ७॥१०॥ एगपएसट्ठिय १ संख? २, पएसा ३ असंखठिय ४ अंसा ५। थोवा १ दो संखा ३, दो ४ अस्संखा ५ कालओ चेव ॥११॥ इह क्षेत्राधिकारतः क्षेत्रप्राधान्यात्परमाणुकाद्यनन्ताणुकस्कन्धा अपि विवक्षितैकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवाहियन्ते, ते इत्थंभूता एकप्रदेशावगाढाः पुद्गलाः सर्वस्तोकाः, लोकाकाशप्रदेशप्रमाणा इत्यर्थः । नहि स कश्चिदेवंभूतं आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहनपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन परिणतो न वर्तते इति । तेभ्यः सङ्खयेयप्रदेशावगाढाः पुद्गला द्रव्याथेतया सङ्खयेयगुणाः, कथम् ? इहापि क्षेत्रप्राधान्याद् द्वयणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते । इह सर्वलोकप्रदेशास्तत्त्वतोऽसङ्खये या अपि कल्पनया दश कल्प्यन्ते । ते च प्रत्येकचिन्तायां दशैवेति दश एकप्रदेशावगाढानि द्रव्याणि । तेष्वेव दशसु प्रदेशेवन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्त इत्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानि द्रव्याणि सङ्खयेयगुणानि । तेभ्यस्त्रिप्रदेशावगाढानि । एवमुत्तरोत्तरं यावदुत्कृ

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76