Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 57
________________ ३ । तेभ्यस्तृतीये तिर्यग्लोकेऽसङ्खयेयगुणाः, क्षेत्रस्यासङ्घयेयगुणत्वात् ४। तेभ्यः पञ्चमे ऊर्ध्वलोकेऽसङ्खयेयगुणाः, क्षेत्रस्यासङ्ख्येयगुणत्वात् ५ । तेभ्यः षष्ठेऽधोलोके विशेषाधिकाः, ऊर्वलोकादधोलोकस्य विशेषाधिकत्वात् । देशोनसप्तरज्जुप्रमाणो ह्य ध्वलोकः समधिकसप्तरज्जुप्रमाणस्त्वधोलोकः ६ ॥१०६॥ थोवुडढे अहियाहे तुल्ला ईसाण निरिहय असंखा । वायव्य ग्गिसु तुल्ला अहिआ पुवाइ अस्संखा ॥१०७॥ अवरेण दाहिणेणं उत्तरओ पुग्गला कमेणहिया । खित्ताइविसेसेणं बहुअत्तं वित्तिओ नेयं ॥ १०८ ॥ 'पुद्गलाः स्तोका ऊर्ध्वदिशि, इह रत्नप्रभासमभूतलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्मानिर्गता चतुःप्रादेशिकी ऊर्जा दिग्यावल्लोकान्तस्ततः सर्वस्तोकाः पुद्गलाः १ । तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुःप्रदेशा यावलोकान्तस्ततस्तस्या विशेषाधिकत्वात्तत्र पुद्गला विशेषाधिकाः २। तेभ्य ईशाननैऋतयोः प्रत्येकमसङ्खयेयगुणाः, परस्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकान्निगते मुक्तावलिसंस्थिते तिर्यगूर्वाधोलोकान्तपर्यवसिते, तेन क्षेत्रस्यासङ्ख्येयगुणत्वात्तत्रासङ्ख्ययगुणाः पुद्गलाः ३ । तेभ्यो वायव्याग्नेय्योर्विशेषाधिकाः, परस्परं तुल्याः। कथं विशेषा

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76