Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
५३
परिमाणे स्थापयितव्यम् । तद्यथा - आयुरबन्धकपदे द्वे शते पञ्चपञ्चाशदधिके शेषेषु क्रमेण द्वे शते चतुःपञ्चाशदधिके द्वे शते द्विपञ्चाशदधिके द्वे शतेऽष्टौ चत्वारिंशदधिके द्वे शते चत्वारिंशदधिके द्वे शते चतुर्विंशत्यधिके द्विनवत्यधिकं शतम् । एवं च सत्युपरितनपङ्क्ति गतान्य नाकारोपयुक्तपर्यन्तानि पदानि सङ्ख्येयगुणानि द्विगुण द्विगुणाधिकत्वात् । ततः परं साकारोपयुक्तपदमपि सङ्घयेयगुणं त्रिगुणत्वात् । शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि द्विगुणत्वस्यापि क्वचिदभावात् ।
वउथे १ पदम २ दु ३ तइए ४,
पंचम ५ छट्ठेसु पुग्गला कमसो । धोवा १ ऽणंता २ अहिया दोसु,
असंखा ५ विसेसहिय ६ ॥ १०६ ॥
इह पुद्गलाः पुद्गलद्रव्यस्कन्धा ग्राह्यास्ते च चतुर्थे त्रैलोक्यस्पर्शिनः स्तोकाः, यस्मान्महास्कन्धा एव त्रैलोक्यव्यापि - नस्ते चाल्पा इति १ । तेभ्यः प्रथम ऊर्ध्वलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्तेऽनन्ताः सङ्ख्येयप्रदेशका अनन्ता असङ्ख्येयप्रदेशका अनन्ता अनन्तप्रदेशकाः स्कन्धाः स्पृशन्तीति द्रव्यार्थतयानन्तागुणा इति २ । तेभ्यो द्वितीयेऽधोलोके विशेपाधिका, क्षेत्रस्यायामविष्कम्भाभ्यां मनाविशेषाधिकत्वात्

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76