Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्येते । तत्रोपरितन्यां पङ्क्तौ आयुष्कर्मबन्धका अपर्याप्ताः सुप्ताः समवहताः सातवेदका इन्द्रियोपयुक्ता अनाकारोपयुक्ताः क्रमेण स्थाप्यन्ते । तस्या अधस्तन्यां पङ्क्तौ तेषामेव पदानामधस्ताद्यथासङ्ख्यमायुरबन्धकाः पर्याप्ता जागरा असमवहता असातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताश्च । स्थापना चेयम ॥
आयुर्बन्धकाः १ | अपर्याप्ता: २ - सुप्ता: ४
समवहताः ८
आयुरबन्धकाः २५५ पर्याप्ता: २५४ | जागरा: २५२ असमवहता:२४८
सातवेदकाः १६ । इन्द्रियोपयुक्ताः ३२ । अनाकारोपयुक्ताः ६४ असातवेदकाः २४० नोइन्द्रियोपयुक्ताः२२४/ साकारोपयुक्ताः १९२
अत्रोपरितन्यां पङक्तौ सर्वाण्यपि पदानि सङ्खयेयगुणानि । आयुष्पदं च सर्वेषामाद्यमिति तत्परिमाणसङ्ख्यायामेकः स्थाप्यते । ततः शेषपदानि किल जघन्येन सङ्कथेयेन सङ्ख्येयगुणानीतिद्विगुणद्विगुणोऽङ्कस्तेषु स्थाप्यते । तद्यथाद्वौ चत्वारोऽष्टौ षोडश द्वात्रिंशचतुःषष्टिः । सर्वोऽपि जीवराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया षट्पश्चाशदधिकशतद्वयपरिमाणः परिकल्प्यते। ततोऽस्माद्राशेरायुबन्धकादिगताः सङ्ख्याः शोधयित्वा यच्छेषमवतिष्ठति तदायुरबन्धकादीनां

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76