Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
५१
अप्पज्जत्ता सव्वे सुत्ता पज्जत्तयावि किल केवि । जेसिमईया समया संखिज्जा जागरा सेसा ॥१०॥
॥द्वारम् २५ ॥ __एतेषां सप्तानां प्रतिपक्षाः प्रतिलोमगत्या वाच्याः। तथाहि-अनाकारोपयोगयुक्तेभ्यः साकारोपयुक्ताः सङ्खयेयगुणाः, इन्द्रियनोइन्द्रियोपयोगेषु साकारोपयोगकालस्य बहुत्वात् ७ । नोइन्द्रियोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात् । इन्द्रियोपयोगो हि प्रत्युत्पन्नकालविषयः । यदा विन्द्रियदृष्टमेवार्थ विचारयत्योघसंज्ञयापि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते । ततो नोइन्द्रियोपयोगकालस्यातीतानागतकालविषयतया बहुकालत्वाद्विशेषाधिकत्वम् ६ । अंसातवेदका विशेषाधिकाः, इन्द्रियोपयुक्तेष्वप्यसातवेदकानां भावात् ५। असमवहता विशेषाधिकाः, सातवेदकेष्वपि तद्भावात् ४ । जागरा विशेषाधिकाः, समवहतानामपि केषाश्चिजागरत्वात् ३। पर्याप्ता विशेषाधिकाः, सुप्तानामपि केषाश्चित्पर्याप्तत्वात् । सुप्ता हि पर्याप्ता अपर्याप्ता अपि भवन्ति, जागरास्तु पर्याप्ता एवेति नियमः २। आयुकर्माबन्धका विशेषाधिकाः, अपर्याप्तानामप्यायुष्कर्माबन्धकत्वभावात् १ ॥ १०४ ॥ १०५ ॥ द्वारम् २५ ॥ . इदमेवाल्पबहुत्वं विनेयजनानुग्रहायासत्कल्पनया स्थापनाराशिभिरुपदश्यते । इह द्वे पङ्क्ती उपयधोभावेन स्था

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76