Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 48
________________ ४५ देशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तं प्रतरद्वयं स्पृशन्ति । तियग्योनिकस्त्रियश्च तास्ततोऽसङ्खयेयगुणाः २ । _____ ताभ्यस्त्रिलोके सङ्खयेयगुणाः। यस्मादधोलोकाद्भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्ध्व लोकेऽपि तिर्यकपञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते, ऊर्ध्वलोकाद्देवादयोऽप्यधोलोके च समवहता निजनिजात्मप्रदेशदण्डस्त्रीनपि लोकान् स्पृशन्ति प्रभूताश्च ते । तथा तिर्यग्योनिकस्न्यायुःसंवेदनात्तिर्यग्योनिकस्त्रियश्च ततः सङ्खयेयगुणाः ३ । ताभ्योऽधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः, बहवो हि नारकाः समुद्धातं विनापि तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते, तियेग्लोकवर्तिनश्च जीवास्तिर्यकत्रीत्वेनाधोलौकिकग्रामेष्वपि च । तथा च ते उत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तियेग्योनिकस्न्यायु:प्रतिसंवेदनाच तिर्यग्योनिकस्त्रियोऽपि । तथाऽधोलौकिकग्रामा योजनसहस्रावगाहाः पयन्तेर्वाक क्वचित्प्रदेशे नवयोजनशतावगाहा अपि । तत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवस्थानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते, ततो भवन्ति पूर्वोक्ताभ्यः सङ्खयेयगुणाः ४ । ताभ्योऽधोलोके सङ्खयेयगुणाः, यतोऽधोलोकिकग्रामाः सर्वेऽपि च समुद्रा योजनसहस्रावगाहास्ततो नवयोजनशतानामधस्ताद्या वतन्ते मत्सीप्रभृतिकास्तियेग्योनिकस्त्रियस्ताः स्वस्थानत्वात् प्रभूता इति सङ्ख्येयगुणाः ५।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76