Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
४४
दण्डा द्रष्टव्याः। ते हि नारकायुर्वेदनान्नारका उद्वर्त्तमाना अप्यसकयेयगुणाः प्राप्यन्त इति २ । तेभ्योऽधोलोकेऽसधेयगुणाः, तस्य तेषां स्वस्थानत्वादधोलोकक्षेत्रस्यासङ्खयेयत्वाच्च ३ । तिरश्चां क्षेत्रतोऽल्पबहुत्वमौधिकजीववत् सूक्ष्मनिगोदानामुभयत्र भावात् ॥ ८॥ पंचम १ पढम २ चउत्थे ३,
बीए ४ छठे ५ तइज्ज ६ तिरियत्थी। थोवा ? संखा २,
सेसा संखिज्जगुणा कमेणेव ॥ ९९ ॥ पञ्चमे ऊर्ध्वलोके तिर्यग्योनिकस्त्रियः सर्वस्तोकाः । इह मन्दरादिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः १ । ताभ्य ऊद्
लोकतिर्यग्लोके प्रतरद्वयरूपे वर्तमाना असङ्खयेयगुणाः । कथम् ?, यावत्सहस्रारदेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रिययोनित्वेनोत्पद्यन्ते, किं पुनः शेषकायाः ? ते हि यथासङ्ख्यमुपरिवर्तिनोऽपि तत्रोत्पद्यन्ते । ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्ध्वलोकात्तियग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुःसंवेदयमाना उत्पद्यन्ते । यास्तिर्यग्लोकवत्तिन्यस्तिर्यकपञ्चेद्रियस्त्रिय ऊर्ध्वलोके देवत्वेन शेषकायत्वेन वोत्पद्यमाना मारणान्तिकसमुद्धातेनोत्पत्ति

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76