Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 45
________________ ४२ लोके उर्ध्वलोके वा केचित्तस्मिन्नेव वा तिर्यग्लोके समुत्पद्यन्ते ततो न ते लोकत्रयसंस्पर्शिनः । तत्रोद्ध्वलोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्तमानानां मध्ये केचिस्वस्थान एवो लोकेऽधोलोके वा समुत्पद्यन्ते, केचित्तिर्यग्लोकेऽधोलोके वा । तेभ्योऽसङ्खयेयगुणा अधोलोकगता ऊर्ध्व लोके ऊवलोकगता अधोलोके वा समुत्पद्यन्ते, ते च तथोत्पद्यमाना स्त्रीनपि लोकान् स्पृशन्तीत्यसङ्खयेयगुणा । कथं पुनरेतदेवमवसीयते ? यदुत एवंप्रमाणा बहवो जीवाः सदा विग्रहगत्यापन्ना लम्यन्ते, इति चेदुच्यते युक्तिवशात्, तथाहि-प्रागुक्तं प्रज्ञापनायामेव पर्याप्तद्वारे-"सव्वत्थोवा जीवा नोपजत्ता नोअपज्जत्ता सिद्धा, अपज्जत्ता अणंतगुणा, पज्जत्ता संखिज्जगुणा” इति । तत एवं नामाऽपर्याप्ता बहवो येनैतेभ्यः पर्याप्ताः सङ्खयेयगुणा एव नासङ्ख्येयगुणा नाप्यनन्तगुणाः। ते चापर्याप्ता बहवोऽन्तरगतौ वर्तमाना लभ्यन्ते ४ इति । तेभ्य ऊर्ध्वलोके ऊर्ध्वलोकावस्थिता असङ्खयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वादस थेयानां च भागानामुद्वर्तनायाः सम्भवात् ५। तेभ्योऽधोलोकेऽधोलोकस्था विशेषाधिकाः, ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्वात् ६ ॥१७॥ तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तं, अथ चतुगतिदण्डक्रमेण तदाह

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76