Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
४०
तानि गत्वा ज्योतिश्चक्रस्योपरितनं तिरंग्लोकसम्बन्धि एकप्रादेशिकाकाशप्रतरं तिर्यग्लोकप्रतरं, तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरमूवलोकप्रतरम् , एते च द्वे अप्यू
तिर्यग्लोक इति व्यवहि, ते । तत्र वर्तमाना जीवाः सर्वस्तोकाः । कथम् ?, इह ये ऊर्ध्वलोकात्तिर्यग्लोके तिर्यग्लोकाद्वो लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति, ये च तत्रस्था एव केचन तत्प्रतरद्वयाध्यासिनो वर्तन्ते ते किल विवक्षितप्रतरद्वये वर्तन्ते नान्ये । ये पुनरूद्धलोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न गण्यन्ते, तेषा' त्रैलोक्यस्पर्शित्वात् । ततः स्तोका एवाधिकृतप्रतरद्वयवर्तिनो जीवाः । ननू लोकगतानामपि सर्वजीवानामसङ्ख्ययो भागोऽनवरतं म्रियमाणोऽवाप्यते, ते च तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयस्पर्शिनः स्तोकाः १, तदयुक्तं, यद्यप्यू लोकगतानां सर्वजीवानामसङ्ख्ययो भागोऽनवरतं म्रियमाणोऽवाप्यते तथापि न ते सर्व एव तिर्यग्लोके समुत्पद्यन्ते, प्रभूततराणामूर्ध्वलोकेऽधोलोके च समुत्पादादिति १।।
तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यधोलोकस्योपरितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्या१. "तेषां सूत्रान्तरविषयत्वात् ।" इति प्रज्ञापनाटीकायाम् ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76