Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 41
________________ ३८ दव्वाईभावाणं संबंधविसेसओ अणंताओ। हुंति हु अडासमया एगम्मि वि सुद्धअणुयंमि ॥९१।। जमणंता वि हु समया दव्वाइं तेसि मज्झयारंमि। जीवाइपञ्च दव्वा छूढा तो बहुतरा दव्वा ॥ ९२ ॥ आगासाणंतत्ता दव्वपएसा भवंत गंतगुणा। पज्जवया वि अणंता पहप्पएसं जओ णंता ।। ९३ ॥ ॥दारं २३ ।। सर्वस्तोका जीवाः १ । तेभ्यः पुद्गला अनन्तगुणाः २ । तेभ्योऽद्धासमया अनन्तगुणाः ३ । अत्र भावना प्रागेवोक्ता। तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि । कथम् ?, इति चेदुच्यते-इह येऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तग णा उक्तास्ते प्रत्येकं द्रव्याणि, ततो द्रव्यचिन्तायां तेऽपि परिगृह्यन्ते । तेषु च मध्ये सर्वजीवद्रव्याणि सर्वपुद्गलद्रव्याणि धर्माधर्माकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते, तानि च समुदितान्यद्धासमयानामनन्तभागकल्पानीति तेषु प्रक्षिप्तेयपि मनागधिकत्वं जातमित्यद्धासमयेभ्यः सर्वद्रव्याणि विशेपाधिकानि ४ । तेभ्यः सर्वप्रदेशा अन्तगुणाः, आकाशानन्तत्वात् ५। तेभ्यः सर्वपयवा अनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् ॥८६-६३ ॥ द्वारम् २३॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76