Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
३६
कालवस्तुव्यतिरेके परिणामिपुद्गलास्तिकायादिव्यतिरे के चोपपद्यते । ततः सर्वमिदं तात्त्विकमव सेयम् । यथा सर्वेषां परमाणूनां सर्वेषां च द्वयणुकादीनां स्कन्धानां प्रत्येकं द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयास्तथाऽतीता अपीति सिद्धः पुद्गलास्तिकायादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । इह कालमाश्रित्य प्रदेशार्थतयाऽल्पबहुत्वविचारणा न कृता, कालप्रदेशानामभावात् । आह - कोऽयमद्धासमयानां द्रव्यार्थतानियमः ? यावता प्रदेशार्थतापि तेषां विद्यत एव । तथाहि - यथाऽनन्तानां परमाणूनां समुदायः स्कन्धो भण्यते । स च द्रव्यं तदवयवाश्च प्रदेशाः । तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति । तदयुक्तम्, दृष्टान्तदान्तिकवैषम्यात् । परमाणूनां समुदाय - स्तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते । परस्परनिरपेक्षाणां केवल परमाणूनामिव स्कन्धत्वायोगात् । - अद्धासमयास्तु परस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्वा - परसमययोरभावात् । ततो न स्कन्धत्व परिणामः, तदभावाच्च नाद्वासमयाः प्रदेशाः, किन्तु पृथग् द्रव्याण्येवेति १० । तस्मादप्यद्धासमयादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगणः, सर्वास्वपि दिक्षु विदिक्षु च तस्यान्ताभावात्, अद्धासमयस्य च मनुष्यक्षेत्रमात्र भावात् ।। ११ ।। ८५-८६ ।। द्वारम् २१ ।।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76