Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 37
________________ नन्तैः प्रत्येकं ज्ञानावरणीयादिकर्मपुद्गलस्कन्धेरावेष्टितत्वात , कि पुनः शेषाणि १। ततः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तग णानि । तेभ्यो विस्रसापरिणतान्यग णानि ८। तस्मादपि पुद्गलास्तिकायः स्व(सत्)द्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसङ्खयेयगुणः । ननु कथं नानन्तगुणोऽनन्तप्रदेशकानामपि स्कन्धानां बहूनां भावात , नैवं, स्वल्पा अनन्तप्रदेशकाः स्कन्धाः, परमाण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम्-"सव्वत्थोवा अणंतप्पएसिया खंधा दवट्ठयाए। परमाणपोग्गला दवट्ठयाए अणंतगुणा । संखिज्जपएसिया खंधा दवट्ठयाए संखिजगणा । असंखिज्जपएसिया खंधा दव्वयाए असंखिज्जगणा।” इति । ततश्चात्रानन्तप्रदेशकानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात्तेषां च पृथक् पृथग्द्रव्यत्वादसङ्खथेयप्रदेशकानां च स्कधानां परमाण्वपेक्षयाऽसङ्खयेयगु णत्वादस येयगुण एवोपपद्यते पुद्गलास्तिकायः प्रदेशार्थतया नानन्तगुणः । । तस्मादप्यद्धासमयो द्रव्यार्थतयाऽनन्तगुणः । कथम् ?, इति चेदुच्यते-इहैकस्यैव परमाणोरनागते काले, तत्तद्विप्रदेशक-त्र्यणुक-सङ्ख्याताऽसुक-असङ्ख्याताऽणुक-- अनन्ताऽणुकस्कन्धान्तपरिणामतयाऽनन्ता भाविनः संयोगाः पृथक् पृथक कालाः। यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्वयणुकादिस्कन्धानामनन्ताः संयोगाः पुरस्कृताः, सर्वे

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76