Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 38
________________ ३५ षामपि मनुष्य क्षेत्रान्तर्वर्त्तितया परिणामसम्भवात् । तथा क्षेत्रतोऽप्ययं परमाणुरमुष्मिनाकाशप्रदेशेऽमुष्मिन् कालेऽवगाहिष्यत इत्येवमनन्ता एकस्याणोर्भाविनः संयोगाः । यथैकस्याणोस्तथा सर्वेषां परमाणूनां तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्ताणुपर्यन्तानां प्रत्येकं तत्तदेकप्रदेशाद्यवगाहमेदतो भिन्नभिन्नकाला अनन्ता भाविनः संयोगाः । तथा काल तोstrयं परमाणुरमुष्मिन्नाकाशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिनाकाशप्रदेशेSसङ्घयेया भाविनः संयोगाः । एवं सर्वेष्वपि आकाशप्रदेशेषु प्रत्येकमसङ्ख्येया भाविनः संयोगाः । ततो भूयो भूयस्तेष्वाकाशप्रदेशेषु परावृत्तौ कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः । यथा चैकस्याणोस्तथा सर्वेषामप्यणूनां सर्वेषां प्रत्येकं द्वयणुकादीनां च भावतोऽप्ययं परमाणुरम्मुमिन् काले एकगुणकालको द्विगुणकालको भावीत्येवमेकस्याप्यणोर्भिन्नभिन्नकाला अनन्ताः संयोगाः । यथा चैकस्याणोस्तथा सर्वेषामरणूनां सर्वेषां च द्वयणुकादीनां पृथक् पृथगनन्ता भावतः पुरस्कृताः संयोगाः । तदेवमेकस्याप्यणोद्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽतीताश्च समया उपलब्धाः । यथैकस्याणोस्तथा सर्वेषामरणूनां सर्वेषां च प्रत्येकं द्वयणुकादीनां स्कन्धानाम् । न 'चैतत्परिणामि१. कालानन्तत्वमित्यर्थः ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76