Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 26
________________ २३ अकषायिणोऽतिस्तोकाः, सिद्धानां कतिपयानां च मनुध्याणामकषायित्वात् । तेभ्यो मानकषायिणो मानकषायपरिणानवन्तोऽनन्तगणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात् । तेभ्यः क्रोधकषायिणो विशेषाधिकाः तेभ्यो मायाकषायिणो विशेषाधिकाः। तेभ्योऽपि लोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेषाधिकत्वात् । लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकषायाणामपि तत्र प्रक्षेपात् । सकषायिण इत्यत्रैवं व्युत्पत्तिः-सह कषायेण कषायोदयेन वर्तन्ते ते सकषायोदया:, विपाकावस्था प्राप्ताः कषायकर्मपरमाणवः। तेषु सत्सु जीवस्यावश्यं कषायोदयसंभवात् । सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इत्यर्थः ॥ ६०-६३ ॥ द्वारम् ७॥ सुका १ पम्हा २ तेज ३, अल्लेसा ४ काउ ५ नील ६ किण्हा ७ य । थोवा १ दो संखगणा ३, दोऽणंता ५ दो विसेसहिया ७ ॥ ६४ ॥ इह लंतगाइदेघा कम्मगनरतिरिंगसंखवासाक। केर वि सुक्किललेसा थोवा तो सुक्कलेस त्ति ॥६५॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76