Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
२७
मणनाणीणं ओहिन्नाणि असंखा तओ मइ सुया उ । तुल्ला उ विसेसहिया विभंगनाणी असंखगुणा ॥७२॥ तेहिंतो केवलिणो अणंतगुणिया उ हुंति तेहिंतो । हुँति अणंता दो विहु महसुअन्नाणिणो तुल्ला ॥७॥१०॥ ___ सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानामेवामपोषध्यादिऋद्धिप्राप्तानां मनःपर्यवज्ञानसम्भवात् । तेभ्योऽसवयेयगुणा अवधिज्ञानिनः, नैरयिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेवावधि'ज्ञानविकलानामपि सम्भवात् । तेभ्यो मतिश्रुतज्ञानिनो विशेषाधिकाः, संज्ञितियक्पञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाश्चिन्मतिश्रुतज्ञानभावात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः। तेभ्योऽसङ्ख्येयगुणा विभङ्गज्ञानिनः, सुरनरकेषु सम्यग्दृष्टिभ्यो मिथ्यादृष्टयो विभङ्गज्ञानिनोऽसङ्खयेयगुणाः ॥ ७२ ॥ तेभ्यः केवलिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनश्चानन्तगुणाः, वनस्पतीनामपि मत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् । स्वस्थाने तु परस्परं तुल्याः ॥ ७३ ॥ द्वारम् १० ॥ थोवा उ ओहिदंसी चक्खुसी भवे असंखिजा।। केवलदंसि अणंता अचक्खुदंसी अणंतगुणा ।। ७४ ॥
॥दारं ११ । १. "मनुष्यदेवानामपि तत्सम्भवात्" इति प्रज्ञापनावृत्तिपाठः । २. वनस्पतीनामित्यर्थः ।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76