Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
-
२५
गणा इति भवन्ति शुक्ललेश्याकेभ्यः पालेश्याकाः सङ्ख्य यगणाः । तेभ्यस्तेजोलेश्याकाः सङ्ख्य यगणाः, सर्वेषां सोधमेंशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तरगर्मजतियक्पञ्चेन्द्रियमनुष्याणां बादरापर्याप्तैकेन्द्रियाणां च तेजोलेश्याभावात् । नन्वसङ्घय यगुणाः कस्मान्न भवन्ति ?, कथं भवन्तीति चेदुच्यते, इह ज्योतिष्का भवनवासिभ्योऽप्यसङ्खये यगुणाः किं पुनः सनत्कुमारादिदेवेभ्यस्ते च ज्योतिकास्तेजोलेश्याकास्तथा सौधर्मेशानकल्पदेवाश्च ततः प्राप्नुवन्त्यसङ्ख्य यगुणाः, तदयुक्त, वस्तुतत्त्वापरिज्ञानात् लेश्यापदे हि गर्भजतियग्योनिकानां संमृच्छिमपञ्चेन्द्रियतियग्योनिकानां च कृष्णलेश्याद्यल्पबहुत्वे सूत्रं वक्ष्यति-"सव्वथोवा गम्भवक्कंतियतिरिक्खजोणिया सुक्कलेसातिरि
खजोणिणीओ संखिजगणाओ। पम्हलेसागम्भवक्कंतियतिरिक्खजोणिया संखेनगुणा तिरिक्खजोणिणीओ संखिजगुणाओ। तेउलेसागम्भवक्कंतियतिरिक्खजोणिया संखिजगुणा तेउलेसाओ तिरिक्खजोणिणीओ संखिज्जगुणाओ।” इति महादण्डके च तिर्यग्योनिकस्त्रीभ्यो व्यन्तरा ज्योतिष्काश्च सङ्ख्य यगुणा वश्यन्ते । ततो - यद्यपि भवनवासिभ्योऽप्यसवय यग णा ज्योतिष्कास्तथापि पद्मलेश्याकेभ्यस्तेजोलेश्याकाः संख्येयग णा एव । इदमत्र तात्पर्यम्-यदि केवलान् देवानेव पद्मलेश्या

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76