Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 29
________________ २६ , कानधिकृत्य देवा एव तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसङ्ख्ये यग ुणाः । यावता तिर्यक्सम्मिश्रया झलेश्याकेभ्यस्तिर्यक्सम्मिश्रा एव तेजोलेश्याकाश्विन्त्यन्ते ते तिर्यश्चश्च पद्मलेश्या अध्यति बहवस्ततः सङ्ख्यं यग ुणा एव लभ्यन्ते नासंङ्घये यग गा इति । तेभ्योऽलेश्याका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपि कापोतलेश्यायाः संभवात् वनस्पतिकायानां च सिद्ध ेभ्योऽप्यनन्तत्वात् । तेभ्योऽपि नीललेश्या विशेषाधिकाः, प्रभूततराणां नीललेश्यासंभवात् । तेभ्योऽपि कृष्ण लेश्याका विशेषाधिकाः प्रभूततमानां कृष्णलेश्याकत्वात् । तेभ्यः सामान्यतः सलेश्या विशेषाधिकाः, नीललेश्यादीनामपि तत्र प्रक्षेपात् ॥ ६४-७० ॥ द्वारम् ८ ॥ सम्मामिच्छदिडीहिंतो सम्मत्तिणो अनंतगुणा । तत्तो मिच्छद्दिडी अनंतगुणिया मुणेयव्वा ॥७१॥९॥ 6 सर्वस्तोकाः सम्यग्मिथ्यादृष्टयः, सम्यग्मिथ्यादृष्टिपरिणामकालस्यान्तर्मुहूर्त्त प्रमाणत्वादतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव तत्र लभ्यमानत्वात । तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिध्यादृष्टित्वात् ॥ ७१ ॥ द्वारम् ६ ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76