Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
११
सौधर्म इव तदुपरि त्रिके ईशानसनत्कुमारमाहेन्द्ररूपे भावना । ब्रह्मलोक इव लान्तक्शुक्रसहस्रारेषु भावना कार्या ॥ ३३ ॥ ततः परमानतादिषु पुनर्मनुष्या एवोत्पद्यन्ते तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं च चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः । क्रमन्तु पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियनरकसप्तमपृथिवीपञ्चेन्द्रियतिर्यग्मनुष्य भवनपतिव्यन्तरज्योतिष्कसौधर्मादिदेवसिद्धरूपः प्रज्ञापनातृतीयपदोक्तः ॥ ३४ ॥ द्वारम् १॥ नर १ नेरइया २ देवा ३,
सिद्धा ४ तिरिया ५ जहुत्तरं नेया। थोषा १ दुन्नि ३ असंखा
अणंतगुणिया ४ अणंतगुणा ५॥ ३५ ॥ सर्वस्तोका मनुष्याः, षण्णवतिच्छेदनकछेद्यराशिप्रमाणत्वात् १ । तेभ्यो नैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावत्प्रमाणासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् २ । तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणां ज्योतिष्काणां
च प्रत्येकं प्रतरासङ्ख्येयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्र.. माणत्वात् ३ । तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्त

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76