Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 22
________________ सूक्ष्माः पर्याप्तास्तेजस्कायिकाः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघत एव सङ्खयेयणगुणत्वात् १६ ततः सूक्ष्मपृथिवीकायिकाः २० सूक्ष्माप्कायिकाः २१ सूक्ष्मवायुकायिकाः २२ पर्याप्ता यथोत्तरं विशेषाधिकाः । तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता असङ्खयेयगुणाः, तेषामपि प्राभूत्येन लोके सर्वस्मिन भावात् २३ । तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघत एव सदा सङ्खयेयगुणत्वात् । एते च बादरापर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते, तथाप्यसङ्खयेयत्वस्यासङ्ख्येयमेदभिन्नत्वादित्थमसङ्खयेयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वं विशेषाधिकत्वमसङ्खयेयगणत्वं सङ्खये गुणत्वं प्रतिपाद्यमानं न विरोधभागिति २४ । तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरखनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैककनिगोदमनन्तजीवानां भावात् २५ । तेभ्यः सामान्यतो बादरपर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि तत्र प्रक्षेपात्' २६ । तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्खयेयगुणाः, एकैकपर्याप्तबादरनिगोदनिश्रयाऽसङ्ख्येयानां बादरनिगोदापर्याप्तानामुत्पादात् २७। तेभ्यः सामान्यतो बादरापर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् २८। तेभ्यः

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76