Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमयैर्गुणिते यावान समयराशिस्तावत्प्रमाणत्वात् तेषाम् १ । तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्य गुलसङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् २ । तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्यगुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् ३। ततः प्रत्येकबादरवनस्पतिकायिकाः ४ बादरनिगोदाः ५ बादरपृथिवीकायिकाः ६ बादराप्कायिकाः ७ बादरवायुकायिकाः ८ पर्याप्ता यथोत्तरमसङ्खयेयगुणाः। यद्यप्येते प्रत्येक प्रतरे यावन्त्यगुलासङ्ख्थेयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ् गुलासङ्खयेयभागस्यासङ्खयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्यगुणत्वमभिधीयमानं न विरुध्यते ८ । तेभ्यो बादरतेजस्कायिका अपर्याप्ता असङ्खयेय गुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाण त्वात् ह । ततः प्रत्येकशरीरबादरवनस्पतिकायिकाः १० बादरनिगोदाः ११ बादरपृथिवीकायिकाः १२ बादराप्कायिकाः १३ बादरवायुकायिकाः १४ अपर्याप्ता यथोतरमसङ्खयेय गुणाः। ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः १५ । ततः सूक्ष्मपृथिवीकायिकाः १६ सूक्ष्मा कायिकाः १७ सूक्ष्मवायुकायिकाः १८ अपर्याप्ता यथोत्तरं विशेषाधिकाः। ततः

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76