Book Title: Panch Sutram Author(s): Labdhisuri Jain Granthmala Publisher: Labdhisuri Jain Granthmala View full book textPage 7
________________ गाणामपि सकलशास्त्रविदामुपचारेण सर्वज्ञव्यवहार सिद्धेस्तद्वयवच्छेदार्थं वीतरागग्रहणमिति । एतद्विशेषणायैवाह - ' देवेन्द्र पूजितेभ्यः ' देवेन्द्राः शक्रादयस्तैः पूजिताः समभ्यर्चितास्तेभ्यो नमः । आह, ये वीतरागाः सर्वज्ञाच ते देवेन्द्रपूजिता एवेति । नार्थोऽनेन विशेषणेन, न, मुण्डकेवलिप्रभृतीनां केषाञ्चित्तत्पूजितत्वानुपपत्तेः । यद्येवं देवेन्द्रपूजितेभ्य इत्येतदेवास्तु, अलं वीतरागादिग्रहणेन; न, अवीतरागादीनामपि गणधरादीनां देवेन्द्रपूजितत्व सिद्धेस्तद्वयवच्छेदार्थ वीतरागादिग्रहणमिति । एतद्विशेषणायैवाह- 'यथास्थितवस्तुवादिभ्यः । यथास्थितमभिलाप्यानमिलाप्यत्वादिना प्रकारेण स्थितं वस्तु वदितुं शीलाः यथास्थितवस्तुवादिनस्तेभ्यो नमः । आह ये वीतरागाः सर्वज्ञाः, देवेन्द्रपूजिताच ते यथास्थितवस्तुवादिन एवेति न किञ्चिदनेन विशेषणेन, न, असदभ्युपगमव्यवच्छेदार्थत्वात् । तथा ह्यस्त्येवंविधोऽसदस्युपगमः । किल वीतरागादयोऽपि न यथास्थितवस्तुवादिनः, 'वस्तुवाचामगोचरः' इति वचनात् । यद्येव यथास्थितवस्तुवादिभ्य इत्येतावदेव चारू, नार्थो वीतरागादिग्रहणेन, न, साम्यतः पूर्वार्धरादेरपि यथास्थितवस्तुवादित्वात्तद्वयवच्छेदार्थ वीतरागादिग्रहणमिति व्यवच्छेद चेह सर्वत्र गुणप्रकर्षवान् स्ववाई इति, तस्य तत्संपादने तदन्तर्गतगुणानां तत्संपादनमेवेति न्यायख्यापनार्थमिति तु निराकरणार्थमेव । एभिश्चतुर्भिर्विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया उक्ता वेदितव्याः । तद्यथा - अपायापगमातिशय: १, ज्ञानातिशय: २, पूजातिशयः ३, वागतिशय ४ च यथोद्देशमेव च वेदितव्याः । अनेनैव क्रमेणैतेषां भावात् । तथाहि वीतरागी १ भूत्वा सर्वज्ञो न भवति, सर्वज्ञस्य च पूजातिशयसंभवः ३, तदनु धर्मदेशना ४, इति । अनेनैव क्रमेणैतेषां भाव इति । एतदविनाभाविना भाविनश्चान्येऽपि देहसौगन्ध्यादयः प्रभृता वेदितव्याः । ततथ 'चतुस्त्रिंशदतिशयसमन्वितेभ्यः परमात्मभ्यो नमः ' इत्युक्तः भवति । अत एव सकलविशेषणार्योपसंहारेणाह - ' त्रैलोक्यगुरुभ्यःPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64