Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 44
________________ चतुर्थसत्रे श्रीपंचसूत्रस्य ॥२०॥ गुरुबहुमानादेव क्रियाफलम् ॥ प्रपन्नः सन्, सुक्रियां प्रव्रज्यां, निरुद्धप्रमादाचारो यदृच्छया, असारशुद्धभोजी संयमानुगुण्येन, अनेन विधिना मुच्यमानः कर्मव्याधिना, निवर्तमानेष्टवियोगादिवेदनस्तथा मोहनिवृत्या । किम् ? इत्याह-समुपलभ्य चरणारोग्यं सदुपलम्भेन, प्रवर्द्धमानशुभभावः प्रवर्द्धमानचरणारोग्यभावः । बहुतरकर्मव्याधिविकारनिवृत्त्या तल्लाभनिवृत्या, तत्प्रतिवन्धविशेषात् चरणारोग्यप्रतिबन्धविशेषात्, स्वाभाषिकात कारणात् परीषहोपसर्गभावेऽपि क्षुद्दिव्यादिव्यसनभावेऽपि तत्वसंवेदनात्सम्यग्ज्ञानाद्धेतोः। तथा कुशलाशयवृद्धया क्षायोपशमिकभाववृद्ध्या, स्थिराशयत्वेन चित्तस्थैर्येण हेतुना । तथा धर्मोपयोगादिति कर्तव्यताबोधात कारणात्, सदा स्तिमितः भावद्वन्द्वविरहात प्रशान्तः । किम् ? इत्याह-तेजोलेश्यया शुभप्रभावरूपया वर्द्धते वृद्धिमनुभवति, गुरुं च बहु मन्यते भाववैद्यकल्पम् । कथं ? इत्याह-यथोचितमौचित्येन, असङ्गप्रतिपच्या स्नेहरहिततद्भावप्रतिपत्त्या । किमस्या उपन्यासः ? इत्याह-निसर्गप्रवृत्तिभावेन सांसिद्विकप्रवृत्तित्वेन हेतुना, एषाऽसङ्गप्रतिपत्ति वर्वी व्याख्याता भगवद्भिः । किमिति ? अन आह-भावसारा तथौदयिकभावविरहेण विशेषतः असङ्गप्रतिपत्तेः । इहैव युक्त्यन्तरमाह-भगवद्बहुमानेन अचिन्त्यचिन्तामणिकल्पतीर्थकरप्रतिबन्धेन । कथमयं ? इत्याह'यो मां प्रतिमन्यते भावतःस गुरु' मित्येवं तदात्रा भगवदाजा, इत्यं तचं व्यवस्थितम् । अन्यथा गुरुबहुमानव्यतिरेकेग क्रियाऽप्यक्रिया प्रत्युपेक्षगादिरूपा, अक्रिया सक्रियातोऽन्या । किविशिष्टा? इत्याह-कुलटानारीक्रियासमा दुःशीलवनितोपवासक्रियातुल्या । ततः किम् ? इत्याह-गर्हिता तत्ववेदिनां विदुषाम् । कस्मात् ? इत्याह-अफलयोगतः । इष्टफलादन्यदफलं, मोक्षात्सांसारिकमित्यर्थः । तद्योगात् ए तदेव स्पष्टयन्नाह-विषानतृप्तिफलमत्र ज्ञातमल्पं विपाकदारुणं, विराधनासेवनात् । एतदेवाह-आवर्त एव ॥२०॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64