Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 55
________________ सर्वशत्रुक्षये सति तथा सर्वव्याधिविगमे, एवं सर्वार्थसंयोगेन सता तथा सर्वेच्छासंप्राप्त्या यादृशमेतत्सुखं भवति, अतोऽनन्तगुणमेव सिद्धसुखम् । कुतः इत्याह- भावशत्रुक्षयादितः । आदिशब्दाद्भावव्याधिविगमादयो गृह्यन्ते । तथा चाह - रागादयो भावशत्रवः, रागद्वेषमोहाः, जीवापकारित्वात् । कर्मोदया व्याधयः, तथाजीवपीडनात् । परमलब्धयस्त्वर्थाः परार्थहेतुत्वेन । अनिच्छेच्छा इच्छा सर्वथा तनिवृत्त्या । एवं सूक्ष्ममेतत्सुखं न तत्त्वतः परमार्थेन इतरेण गम्यते । असिद्धेन निदर्शनमाह-यतिसुखमिवायतिना विशिष्टक्षायोपशमिकभाववेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेति । उक्तञ्च - " रागाईणमभावे, जं होइ सुहं तयं जिणो मुणइ | ण हि सष्णिवायमहिओ, जाणइ तदभावजं सोक्खं ॥१॥ इति विभाषा कर्त्तव्या । सर्वथाऽचिन्त्यमेतत्स्वरूपेण सिद्धसुखं तत्त्वतो मतेरविषयत्वात् । साद्यपर्यवसितं प्रमाणतः एकसिध्धापेक्षया न तु तत्प्रवाहमधिकृत्य, प्रवाहतस्त्वनादि तदोघमाश्रित्य । तथा चाह - तेऽपि भगवन्तः सिद्धा एव एक सिद्धापेक्षया साद्यपर्यवसिताः, प्रवाहापेक्षया अनाद्यपर्यवसिता इति । समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह- तथाभव्यत्वादिभावात् तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रमेतत्तथाभव्यत्वादि । कुतः १ इत्याह- तथाफलभेदेन कालादिभेदभाविफलभेदेनेत्यर्थः । समाने भव्यत्वे सहकारिभेदात्फलभेद इत्याशङ्काऽपोहायाह —–नाविचित्रे तथाभव्यत्वादौ सहकारिमेदः । किमिति १ इत्याह- तदपेक्षस्तक इति तदतत्स्वभावत्वे तदुपनिपाताभावादिति । अनेकान्तवादस्तववादः सर्वकारणसामर्थ्यापादनात् स खल्वनेकान्तवाद एवं । तथाभव्यत्वादिभावे इतरथैकान्तः सर्वथा भव्यत्वादेस्तुल्यताम् । ततः किम् ? इत्याह-- मिथ्यात्वमेष एकान्तः । कुतः १ इत्याह- नातो व्यवस्था एकान्तात् भव्यत्वाऽभेदे सहकारिभेदस्यायोगात् ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64