Page #1
--------------------------------------------------------------------------
________________
un y
atirth.org
-5-5-5
श्रीलब्धिसूरीश्वर जैन ग्रन्थमालायाः पञ्चमो मणि: [५] श्रीचिकाय नमोनमः । आत्मकमललब्धिसूरीश्वरेभ्यो नमः | मौराध्यश्रीमश्चिरन्तनाचार्यैर्विरचितं श्रीमद्धरिभद्र सूरश्विरटीको प्रेसञ्च
श्रीपञ्चसूत्रम् ।
जैनरत्न व्या० वा० कविकुलकिरीटाचार्यवर्य श्रीमद्विजयलब्धिमूरीश्वरपट्टालङ्कार- श्रीमद्विजयगंभीरसूरीशोपदिष्टवेरावला रूपनगर निवासी शाह मूलचन्द तनुज सोमचन्द प्रदत्तार्थिकसाहाय्येन प्रकाशितम् । प्रकाशयित्री - श्री लब्धिसूरीश्वर जैन ग्रन्थमाला - छायापुरी |
प्रतयः ५००
वीर संवत् २४६५. विक्रम संवत् १९९५.
Le_ve_ve.
-----------O-COOOOOOL
आत्म संवत ४३.
क्राइस्ट सन् १९३९.
--
Page #2
--------------------------------------------------------------------------
________________
श्री लब्धिसूरीश्वर जैनग्रन्थमाला ।
मूल्यम् ०-८-.
, ०-१२-० है .-३-०
१. श्री जैनव्रतविधिसङ्ग्रहः२. श्री हीरप्रश्नोत्तराणि३. श्रीपालचरित्रम्४. श्री तत्त्वन्यायविभाकरः५. श्री पञ्चसूत्रम् हारिभद्रीय-टीकोपेतम्६. श्री हरिश्चन्द्रकथानकम्७. श्री वैराग्यरसमञ्जरी८. श्री आरम्भसिद्धिः
(द्वितीयावृत्तिः) (श्री कीर्ति विजयगणिवरसमुचितानि) (पण्डित सत्यराजगणिविरचितम् ) (श्रीमद्विजयलब्धिसूरीश्वरप्रणीतः) (महर्दिक श्रीमचिरन्तनाचार्यकृतम् ) (श्रीमद्भावदेवसूरिविरचितम् ) (श्रीमद्विजयलब्धिसूरीश्वरप्रणीतः) (श्री हेमहंसगणिकृतटीकोपेतः )
मुद्रणालये
Page #3
--------------------------------------------------------------------------
________________
निवेदनम् ।
AL
अथ प्रकाश्यतेऽनया संस्थया श्रीपञ्चसूत्राभिधो ग्रन्थः । अस्य ग्रन्थस्य प्रणेतारः सकलागमाचारकलापनिपुणा सर्वतन्त्रस्वतन्त्रप्रतिभा अविच्छिन्नशासन गगनभानवः सुगृहीतनामधेया भव्यजीवोपकृतिकारणतया समस्तं सारं पञ्चभिः सूत्रैविशदीकुर्व्वन्ति स्म । प्रत्येकञ्च सूत्रं ' अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखं, अस्तोभमनवद्यञ्च -सूत्र-सूत्रविदो विदुरिति सूत्र - लक्षणेन परिपूर्णमस्ति । एभिश्च पञ्चभिः सूत्रैरागमानुगतं स्वानुभूतं वस्तु भव्यजनतासमक्षं, लोकोपकारायैव प्रकटीकृतम् । अस्य ग्रन्थस्य प्रणेतृर्णा श्रीमतां चिरन्तनाचार्याणां समयनिर्णये संशयो वर्तते । यतस्तेषामभिधानं ' चिरन्तनाचार्य ' इति मूलतो वा टोकया वा नागस्यते । केवलं ग्रन्थाद्वहिरस्मिन्प्रन्थे, तथा श्रीकर्मप्रकृतिवृष्णिका ग्रन्ये च चिरन्तनाचार्यकृतमिति दृश्यते । तस्माश्चिरन्तनाचार्येति ग्रन्थकर्तुर्नाम वा प्राचीनाचार्यपर्यायो वेति न निर्णेतुं शक्यते । समयनिर्णयस्तु तदा दूरापास्त एव । परमेतत्प्रन्थदीका कर्तृश्रीहरिभद्रसूरिवरेभ्य एते श्रीचिरन्तनाचार्यपादाः प्राचीना इत्यत्र न विवादः ।
सोऽयं
सूरिशिरोमणिभिर्भवविरहाङ्कितश्रीमदाचार्यवरेण्यहरिभद्रसूरिभिः सरलटोकथा विस्तारितः । ग्रन्थायमपूर्वगुणरत्नावलिगुंफितः प्रणिधान प्रेमिजन वर्गाणामध्ये तृणामुपकारायान्यत्र प्रकाशितोऽपि ज्ञानसेवा प्रचाराद्यर्थं श्रीलब्धिसूरीश्वर जैन ग्रन्थमालायाः पञ्चममणितया प्रकटीक्रियते । पतस्माच्च यथायथं मार्गावतारप्रभविष्णवो भवन्तु भव्या इत्याशास्ते प्रत्यूषप्रार्थ्यकरुणाकरनिकरशेखराणां श्रीमल्लब्धिसूरीश्वराणां शिष्यप्रशिष्यःईडर तीर्थे - सं. १९९५ फाल्गुन शुक्ला पञ्चमी ।
पूज्यपादानामनुचरः - मुनिजितेन्द्रविजयः ॥
Page #4
--------------------------------------------------------------------------
________________
88881
१. आद्यं पापप्रतिघात - गुणबीजाधानभूत्रम् ।
३. तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ।
५. पञ्चमं प्रव्रज्या फलसूत्रम् ।
श्रीपञ्चसूत्रस्य विषयानुक्रमः ॥
पृष्ठम् १.
"
"
-
१२.
२४.
२. द्वितीयं साधुधर्मपरिभावन सूत्रम् ।
४. चतुर्थ प्रव्रज्यापरिपालनासूत्रम् ।
प्राप्तिस्थानम्
शा. चन्दुलाल जमनादास
---
= छायापुरी ( वडोदरा स्टेट)
मुद्रक : शेठ देवचंद दामजी, आनंद प्रेस-भावनगर
पृष्ठम् ८
19
१६
Page #5
--------------------------------------------------------------------------
________________
॥ ॐ ह्रीं श्री सिद्धचक्राय नमः ॥
श्री आत्म-कमल- लब्धिसूरीश्वरेभ्यो नमः ॥
श्रीचिरन्तनाचार्यविरचितं, सूरिपुरंदर श्रीहरिभद्रसूरीश्वरकृत व्याख्या समलङ्कृतम्
॥ श्रीपञ्चसूत्रम् ॥
प्रणम्य परमात्मानं, महावीरं जिनेश्वरम् । सत्पञ्चसूत्र कव्याख्या समासेन विधीयते ॥ १ ॥
आह किमिदं पञ्चसूत्रकं नाम ? उच्यते - पापप्रतिघातगुणचीजाधानसूत्रादीनि पञ्चमूत्राण्येव तद्यथा- पापप्रतिघातगुणत्रीजाधानसूत्रम् १, साधुधर्मपरिभावनासूत्रम् २, प्रव्रज्याग्रहणविधिसूत्रम् ३, प्रव्रज्या परिपालनासूत्रम् ४, प्रव्रज्याफलसूत्रम् ५ इति । आह किमर्थमेवमेतेषामुपन्यासः ? इत्यत्रोच्यते - एतदर्थस्यैवमेव तत्त्वतो भात्रः इति ख्यापनार्थ नहि प्रायः पापप्रतिघातेन गुणवीजाधानं विना ततस्तच्छ्रद्धाभावप्ररोहः, न चासत्यस्मिन् साधुधर्मपरिभावना, न चापरिभावितसाधुधर्मस्य प्रव्रज्याग्रहणविधावधिकारः, न चाप्रतिपन्नस्तां तत्पालनाय यतते, न चापालने एतत्फलमाप्नोतीति प्रवचनसार एष सज्ज्ञानक्रियायोगात् । अन्यथा अनादिमति संसारे यथाकथञ्चिदनेकशः एतत्प्रात्यादेः स्यादेतत् सर्वसत्वानामेव न चैतदेव, सर्वसत्त्वानां सिद्ध्यभावात् । सिद्धिश्व प्रधानं फर्क :
१
Page #6
--------------------------------------------------------------------------
________________
श्रीपच
सूत्रस्य
प्रव्रज्यापरिपालनस्य । आनुपङ्गिकं तु सुदेवत्वादि । यथाकथंचिदनेश एतत्प्राप्त्यादिषचनप्रामाण्यात, सर्पसचानामेव प्रायो
आयपत्र ग्रैवेयकेष्वनन्तश उपपातश्रुतेः, न च तेषु साधुक्रियामन्तरेणोपपातः, न च सम्यग्दृष्टेरपाईपुद्गलपरारभ्यिधिको भव इति भावनी-1 श्रीवीतराम यमेतत् । तस्मानिजिस्यैव क्रियामात्रस्य सा प्राप्तिरिति प्रतिपत्तव्यम् । सबीजायां तु तस्यां न दीर्घदौर्गत्यम्, अत एतदर्थस्थैवमेव
स्तवना ॥ तचतो भावः, इति स्थितम् । अयं चातिगम्भीरो न भवामिनन्दिभिः क्षौद्रयाद्यपघातात्प्रतिपत्तुमपि शक्यते । आस्तां पुनः कर्नुमिति, न सर्वेषामेवैतत्प्राप्त्यादि, अतो यथोक्तदोषाभावः, इत्यलं विस्तरेण । इह चेदमादिसूत्रम्णमो वीअरागाणं सव्वण्णूणं देविंदपूइआणं जहटिअवत्थुवाईणं तेलुक्कगुरूणं अरुहंताणं भगवंताणं ।
'नमो वीतरागेभ्यः । तत्र रज्यतेऽनेनेति रागः, रागवेदनीयं कर्म । आत्मनः क्वचिदभिष्वङ्गपरिणामापादनात् । रञ्जनं वा रागः, रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव । वीतोऽपेतो रागो येषां ते वीतरागाः, तेभ्यो नमः । एतच्च वीतद्वेषमोहोपलक्षणम् । वीतद्वेषेभ्यो वीतमोहेभ्यः । तत्र द्विष्यतेऽनेनेति द्वेषः, द्वेषवेदनीय कर्म, आत्मनः क्वचिदप्रीतिपरिणामापादनात् । द्वेषणं द्वेषः, द्वेषवेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव । एवं मुह्यतेऽनेनेसि मोहः, मोहवेदनीयं कर्म । आत्मनः क्वचिदज्ञानपरिणामापादनात् । मोहनं वा मोहः, मोहवेदनीयकर्मापादितोऽज्ञानपरिणाम एव । एतदुपलक्षणं वीतरागग्रहणम् । तथा चाह-'सर्वज्ञेभ्यः ' नववीतरागा एव अवीतद्वेषादयः सर्वज्ञा भवन्ति, सर्व जानन्तीति सर्वज्ञास्तेभ्यो नमः । आह ये वीतरागास्ते सर्वज्ञा एवेति गतार्थ विशेषणं, न, छद्मस्थवीतरागाणामसर्वज्ञत्वात् । यद्येवं सर्वज्ञेभ्य इत्येतावदेवास्तु, अलं वीतरागग्रहणेन, न, अवीतरा
**482228888888888888888
Page #7
--------------------------------------------------------------------------
________________
गाणामपि सकलशास्त्रविदामुपचारेण सर्वज्ञव्यवहार सिद्धेस्तद्वयवच्छेदार्थं वीतरागग्रहणमिति । एतद्विशेषणायैवाह - ' देवेन्द्र पूजितेभ्यः ' देवेन्द्राः शक्रादयस्तैः पूजिताः समभ्यर्चितास्तेभ्यो नमः । आह, ये वीतरागाः सर्वज्ञाच ते देवेन्द्रपूजिता एवेति । नार्थोऽनेन विशेषणेन, न, मुण्डकेवलिप्रभृतीनां केषाञ्चित्तत्पूजितत्वानुपपत्तेः । यद्येवं देवेन्द्रपूजितेभ्य इत्येतदेवास्तु, अलं वीतरागादिग्रहणेन; न, अवीतरागादीनामपि गणधरादीनां देवेन्द्रपूजितत्व सिद्धेस्तद्वयवच्छेदार्थ वीतरागादिग्रहणमिति । एतद्विशेषणायैवाह- 'यथास्थितवस्तुवादिभ्यः । यथास्थितमभिलाप्यानमिलाप्यत्वादिना प्रकारेण स्थितं वस्तु वदितुं शीलाः यथास्थितवस्तुवादिनस्तेभ्यो नमः । आह ये वीतरागाः सर्वज्ञाः, देवेन्द्रपूजिताच ते यथास्थितवस्तुवादिन एवेति न किञ्चिदनेन विशेषणेन, न, असदभ्युपगमव्यवच्छेदार्थत्वात् । तथा ह्यस्त्येवंविधोऽसदस्युपगमः । किल वीतरागादयोऽपि न यथास्थितवस्तुवादिनः, 'वस्तुवाचामगोचरः' इति वचनात् । यद्येव यथास्थितवस्तुवादिभ्य इत्येतावदेव चारू, नार्थो वीतरागादिग्रहणेन, न, साम्यतः पूर्वार्धरादेरपि यथास्थितवस्तुवादित्वात्तद्वयवच्छेदार्थ वीतरागादिग्रहणमिति व्यवच्छेद चेह सर्वत्र गुणप्रकर्षवान् स्ववाई इति, तस्य तत्संपादने तदन्तर्गतगुणानां तत्संपादनमेवेति न्यायख्यापनार्थमिति तु निराकरणार्थमेव । एभिश्चतुर्भिर्विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया उक्ता वेदितव्याः । तद्यथा - अपायापगमातिशय: १, ज्ञानातिशय: २, पूजातिशयः ३, वागतिशय ४ च यथोद्देशमेव च वेदितव्याः । अनेनैव क्रमेणैतेषां भावात् । तथाहि वीतरागी १ भूत्वा सर्वज्ञो न भवति, सर्वज्ञस्य च पूजातिशयसंभवः ३, तदनु धर्मदेशना ४, इति । अनेनैव क्रमेणैतेषां भाव इति । एतदविनाभाविना भाविनश्चान्येऽपि देहसौगन्ध्यादयः प्रभृता वेदितव्याः । ततथ 'चतुस्त्रिंशदतिशयसमन्वितेभ्यः परमात्मभ्यो नमः ' इत्युक्तः भवति । अत एव सकलविशेषणार्योपसंहारेणाह - ' त्रैलोक्यगुरुभ्यः
Page #8
--------------------------------------------------------------------------
________________
श्रीपंचपत्रस्य ॥२॥
BARBALASAHEBBOXBXXXXXXXX.
आद्यसूत्रे त्रैलोक्यवासिसत्त्वेभ्यो गृणन्ति शास्त्रार्थमिति त्रैलोक्यगुरवः, तद्गुणाधिकत्वात्तन्माननीयत्वाद्वा, तेभ्यो नमः । एतेनैव संनिवन्धनेना- जीयभवकर्मन्वर्थनाम्नाह-'अरुहेभ्यो भगवद्भयः' इति न रोहन्ति न भवाङ्कुरोदयमासादयन्ति, कर्मवीजाभावादिति अरुहाः तेभ्यः । किं
संयोगादीविशिष्टेभ्यः १ । भगः समग्रैश्वर्यादिलक्षणः, स विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भयो नम इति । एवंभूताश्च ते समधिकृतातिशय
नां अनादिभाजश्वरमदेहस्था अपि, ततो मुक्तिभावे जन्माङ्करोदयाभावात् । अत एवाह-एतदुक्तार्थमूत्रानुवादकृत्
त्ववर्णनम् ॥ जे एवमाइक्खंति-इह खलु १ अणाइजोवे, २ अणाइजीवस्स भवे, ३ अणा
इकम्मसंजोगनिव्वत्तिए, ४ दुक्खरूवे, ५ दुक्खफले, ६ दुक्खाणुबंधे । ___ एवं चानन्तरेण ग्रन्थेनेष्टदेवतानमस्कारः । अनुवादकरणस्यापि श्रेयोभूतत्वेन तदारम्भे विघ्नविनायकोपशान्तये मङ्गलार्थ उक्तो* वेदितव्यः । ये वीतरागादिविशेषणविशिष्टा भगवन्त ' एवं ' इति वक्ष्यमाणं ' आचक्षते । अत्यर्थव्यक्तमभिदधति, कथम् ? इत्याह-' इह खल्वनादिजीवः । इह लोके खलुशब्दोऽवधारणार्थः । लोके एवं नालो के, अनादिः सततं समवस्थितो जीव आत्मा सर्वथाऽ'सतः सत्तायोगात्' । अतिप्रसङ्गात् । विशिष्टशक्यसिद्धेः । तथा 'अनादिजीवस्य भवः' भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, संसारः । किंभूतोऽयम् ? इत्याह- अनादि कर्मसंयोगनिवर्तितः अनादिश्चासौ कर्मसंयोगश्च, तत्कृत इत्यर्थः । नान्यथा, कमसयोगमुक्तस्येव केवलस्य तदयोगात् । अहेतुकत्वापत्तेः कृतकत्वेऽपि प्रवाहतस्तथाविधकालात्, अनादित्वाविरोधात् । अयमेव विशिष्यते-'दुःखरूपो दुःखफलो दुःखानुबन्धः । तत्र दुःखरूपः, जन्मजरामरणरोगशोकरूपत्वात् एतेषां च दुःखत्वात् । तथा दुःखफलः, गत्यन्तरेऽपि जन्मादिभावात् । तथा दुःखानुबन्धः, अनेकभववेदनीयकर्मावहत्वात् । कस्तास्य प्रतीकारः ? इत्याह
Page #9
--------------------------------------------------------------------------
________________
एअस्स णं वुच्छित्ती सुद्धधम्माओ, सुद्धधम्मसंपत्ती पाव
कम्मविगमाओ, पावकम्मविगमो तहाभब्वत्ताइभावओ। 'एतस्य ' भवस्य, ‘णं' इति वाक्यालंकारे, 'व्यवच्छित्तिः । उच्छित्तिः 'शुद्धधर्मात् । ज्ञानदर्शनचारित्ररूपात, औचित्येन सातत्यसत्कारविधिसेवितात् । अयं च श्रावकादेरप्यभिग्रहपालनेन ज्ञेयः । अभिग्रहभावस्य सातत्येन भावादिति शुद्धधर्मसंप्राप्तिः । कुतः ? इत्याह-शुद्धधर्मो यथोदितः, तस्य सम्यक्प्राप्तिः संप्राप्तिः, भावप्राप्तिरित्यर्थः । पापकर्म मिथ्यात्वमोहनीयादि, तस्य विगमो विशिष्टो गमः, अपुनर्बन्धकत्वेन पृथग्भाव इति यावत, तस्मात्पापकर्मविगमात् । अयं पुनः कुतः ? इत्याह-'पापकर्मविगमः। यथोदितः, 'तथाभव्यत्वादिभावात् । भव्यत्वं नाम 'सिद्धिगमनयोग्यत्व 'ननादिपारिणामिको भावः । तथाभव्यत्वमिति विशिष्टमेतत् , कालादिभेदेनात्मनां बीजसिद्धिभावात् । आदिशब्दात्कालनियतिकर्मपुरुषकारपरिग्रहः, साध्यव्याधिकल्पत्वात् । तथाभव्यत्वस्य विपाकसाधनान्याह- ।
तस्स पुण विवागसाहणाणि, १ चउसरणगमणं, २ तुकडगरिहा, ३ सुकडाणसेवणं, अओ
कायब्वमिणं होउकामेणं सया सुप्पणिहाणं भुजो भुलो संकिलेसे तिकालमसंकिलेसे । 'वस्य पुनः । तथाभव्यत्वस्य 'विपाकसाधनानि' अनुभावकारणानि । कानि तानि ? इत्याह-१ चतुर्णामर्हस्सिद्धसाधकेलिप्रज्ञप्तधर्माणां शरणगमन, प्रधानशरणोपगम इत्यर्थः । 'महानयं प्रत्यपायपरिरक्षणोपायः । तथा २ दुष्कृतेपिह परभवगतेषु गर्दा अकर्तव्यबुद्धिसारा परसाक्षिकी। तथानिवेदनाप्रतिपत्तिर्दुष्कृतगरे । 'अप्रतिहतेयं कर्मानुबन्धापनयने,' इति कर्त्तव्या । तथा ३ सुकृतस्य
Page #10
--------------------------------------------------------------------------
________________
आवले अच्छक भारना॥
श्रीपंच
सति विवेके नियतभाविनोऽखण्डभावसिद्धेः परकृतानुमोदनरूपस्यासेवन, महदेतत्कुशलाशयनिबन्धनमिति परिभाश्नीयम् । 'कृतकारि
तानुमतिभेदभिन्ने हि पुण्यपापे । एभिस्तत्तथास्वाभाव्यात्साध्यव्याधिवत्तथाभव्यत्वं परिपाच्यते, इति । यत एवमतः यस्मादुक्तवदधिसूत्रस्य
कृततत्त्वसिद्धिः, ' अतः : अस्मात्कारणात्कर्त्तव्यं 'इदं वक्ष्यमाणं, 'भवितुकामेन ' मोक्षार्थिना भव्यसवेन, कथं कर्त्तव्यम् । 4॥३॥
| इत्याह-सदा सर्वकालं 'सुप्रणिधानं ' शोभनेन प्रणिधानेन, नात्र कालो नियम्यते किं तु सुप्रणिधानमिति । यदा यदा क्रियते, 16 तदा तदा सुप्रणिधानं कर्त्तव्यमित्यर्थः । सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् । उक्तं च-"प्रणिधानकृतं कर्म, मतं
तीव्रविपाकवत् । सानुबन्धननियमाच्छुभांशाच्चैतदेव तत् " इत्थं चैतदङ्गीकर्तव्यम् ? इत्याह-कर्त्तव्यमिदं, 'भूयो भूयः' पुनः पुनः INT संक्लेशे' सति तीव्ररागादिसंवेदनरूपेऽरतावुत्पन्नायामिति यावत् । तथा 'त्रिकालं त्रिसन्ध्यं कर्तव्यमिदम् । असंक्लेशे प्रकृत्या | कालगमने सति यत्कर्त्तव्यं तदाह
जावजीवं मे भगवंतो परमतिलोगनाहा, अणुत्तरपुन्नसंभारा, खीणराग
दोसमोहा, अचिंतचिंतामणी, भवजलहिपोआ, एगंतसरणा, अरहंता सरणं । 'जावजीवं मे भगवंतो अरहता सरणं' इति योगः। 'यावज्जीवं' यावज्जीवितं 'मेमम 'भगवन्तः' समग्रैश्वर्यादियुक्ताः अहन्तः । शरण' इति योगः । अत्र 'यावज्जीव ' इति कालपरिमाणं, परतो भङ्गभयात् । पुनरवधित्वेन परतोऽप्यधिकृतशरणस्येष्टत्वात् । एत एव विशेष्यन्ते-परमाश्च ते दुर्गतिभयसंरक्षणेन त्रिलोकनाथाश्च, अत्र त्रिलोकवासिनो देवादयः परिगृवन्ते । एत एव विशेष्यन्ते-अनुत्तरः सर्वोत्तमहेतूत्कर्षात्पुण्यसंभारः, तीर्थकरनामकर्मलक्षगो येषां ते, तथा । त एवं विशेष्यन्ते-क्षीणा रागद्वेषमोहा अभि
XXXIXXEXCELEASE
Page #11
--------------------------------------------------------------------------
________________
बङ्गाप्रीत्यज्ञानलक्षणा येषां ते, तथा । त एव विशेष्यन्ते-' अचिन्त्यचिन्तामणयः । चिन्तातिक्रान्तापवर्गविधायकत्वेन । त एवं विशेष्यन्ते-'भवजलधियोताः । तद्वदुत्तारकत्वेन । त एव विशेष्यन्ते-एकान्तशरण्याः ' सर्वाश्रितहितत्वेन । क एवंभृताः ? कि वा एते ? इत्याह-' अर्हन्तः शरणम् । तत्राशोकाद्यष्टमहाप्रातिहार्यलक्षणम्, पूजामर्हन्तीत्यर्हन्तः, ते मम शरणमाश्रय इति ।
तहा पहीणजरामरणा, अवेअकम्मकलंका, पणट्ठवावाहा, केवलनाणदंसणा,
सिद्धिपुर-निवासी, निरुवमसुहसंगया, सव्वहा कयकिच्चा, सिद्धा सरणं । 'तहा पहीणजरामरणा सिद्धा सरणं' इति योगः । तथा न केवलमहन्तः, किं तु सिद्धाः शरणमिति क्रिया। किं विशिष्टास्ते ? इत्याह-प्रक्षीणजरामरणा' प्रक्षीणे सदाऽपुन वित्वेन जरामरणे येषां ते तथा, जन्मादिबीजाभावात् । एत एव विशेष्यन्ते'अपेतकर्मकलङ्काः । अपेतः कर्मकलको येषां ते तथाविधाः, सर्वथा कर्मरहिता इत्यर्थः । एत एव विशेष्यन्ते-'प्रनष्टव्यावाधाः। प्रकर्षण नष्टा क्षीणा व्याबाधा येषां ते तथा, सर्वव्यावाधावर्जिता इति भावः । एत एव विशेष्यन्ते--- केवलज्ञानदर्शनाः केवले संपूर्ण ज्ञानदर्शने येषां ते तथाविधाः, सर्वज्ञाः सर्वदर्शिन इत्यर्थः । एत एव विशेष्यन्ते--'सिद्धिपुरनिवासिनः' सिद्धिपुरे लोकान्ते वस्तुं शील येषां ते तथा, मुक्तिनिवासिन इति गर्भः। एत एव विशेष्यन्ते–'निरुपमसुखसङ्गताः। निरुपमसुखेनाविद्यमानापेक्षेण संगताः, इति समासः । असांयोगिकानन्दयुक्ता इत्यर्थः । एत एव विशेष्यन्ते–'सर्वथा कृतकृत्याः । सर्वथा सर्वप्रकारैः कृतं कृत्यं यैस्ते तथा, निष्ठितार्था इति भावः । क एवंभूताः ? किं वा एते ? इत्याह-'सिद्धाः शरणं । सिद्ध्यन्ति स सिद्धाः, परमतत्वरूपास्ते मम शरणमाश्रय इति ।
SEEISEXXXSESIXXX
क
Page #12
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य
आधसूत्र साधु-धर्म
शरणद्वयम् ॥
BIEEEXXXXXXXXXXXXXXXXXXXX
तहा पसंतगंभीरासया, सावज्जजोगविरया, पंचविहायारजाणगा, परोवयार
निरया, पउमाइनिर्दसणा, झाणज्झयणसंगया, विसुज्झमाणभावा, साहू सरणं । 'तहा पसंतगभीरासया साहू सरणं' इति योगः। त्था न केवलं सिद्धा शरणं, किंतु साधवः शरणमिति क्रिया। किविशिष्टास्ते ? इत्याह-प्रशान्तः शान्तियोगात, गंभीरोऽगायतया, आशयश्चित्तपरिणामो येषां ते प्रशान्तगंभीराशयाः । एत एव विशेष्यन्ते-सहावद्येन सावद्यः, सपापो योगो व्यापारः कृतादिरूपः, तस्माद्विरताः 'सावद्ययोगविरताः । एत एव विशेष्यन्तेपञ्चविधमाचारं ज्ञानाचारादिभेदभिन्नं जानते, इति पञ्चविधाचारज्ञाः ' । एत एव विशेष्यन्ते-परोपकारे एकान्तिकात्यन्तिकरूपे निरताः, 'परोपकारनिरताः । एत एव विशेष्यन्ते-पद्मादीनि पङ्कोत्पत्तिजलस्थितिभावेऽपि तदस्पर्शनेन, कामभोगापेक्षयैवमेव भावः, इति निदर्शनानि येषां ते, 'पद्मादिनिदर्शनाः' । आदिशब्दाच्छरत्सलिलादिग्रहः । एत एव विशेष्यन्ते-ध्यानाध्ययनाभ्यां एकाग्रचित्तानिरोधस्वाध्यायलक्षणाभ्यां संगताः, ' ध्यानाध्ययनसंगताः । एत एवं विशेष्यन्ते-विशुध्यमानो विहितानुष्ठानेन भावो येषां ते 'विशुध्यमानभावाः ।। क एवं भूताः ? किं वा एते ? इत्याह-तत्र सम्यग्दर्शनादिभिः सिद्धि साधयन्तीति साधवः, मुनय इत्यर्थः । ते मम शरणमाश्रय इति ।
तहा सुरासुरमणुअपूइओ, मोहतिमिरंसुमाली, रागद्दोसविसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू, साहगो सिद्धभावस्स, केवलिपग्णत्तो धम्मो जावजीवं मे भगवं सरणं । सरणमुवगओ अ एएसिं, गरहामि दुक्कडं ।
XXXXXXXXXXXXXXXXXXXX
॥४॥
Page #13
--------------------------------------------------------------------------
________________
' तहा सुरासुरमनुअपइओ केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं ' इति योगः । तथा न केवलं साधवः शरणं, किंतु केवलिप्रज्ञप्तो धर्म इति संबन्धः । किंविशिष्टः १ इत्याह- सुरासुरमनुजैः पूजितः ' सुरासुरमनुजपूजितः ' । सुरा ज्योतिष्करैमा - निकाः । असुरा व्यन्तरभवनपतयः । मनुजाः पुरुषविद्याधराः । अयमेव विशेष्यते - मोहस्तिमिरमित्र मोहतिमिरं सद्दर्शनावारकत्वेन । तस्यांशुमालीवांशुमाली, तदपनयनादादित्यकल्पः । अयमेत्र विशेष्यते - रागद्वेषौ विपमित्र रागद्वेषविषं, तस्य परममन्त्रः तद्वातित्वेनेति भावः । अयमेव विशिष्यते-‘हेतुः' कारणं, प्रवर्त्तकत्वादिना, 'सकलकल्याणानां ' सुदेवत्वादीनाम् । अयमेव विशिष्यते - कर्मवनस्य ज्ञानावरणीयादिसमुदयरूपस्य विभावसुरिवाग्निरिव तद्दाहकत्वेन । अयमेव विशिष्यते—' साधकः ' निर्वर्त्तकः, ' सिद्धभावस्य सिद्धत्वस्य तथा, तत्संपादकत्वेन । कोऽयमेवं १ किं वा ? इत्याह-' केवलिप्रज्ञप्तः ' केवलिप्ररूपितः, ' धर्मः ' श्रुतादिरूपः । 'याब - ज्जीवं' इति पूर्ववत् 'मे' मम 'भगवान्' समग्रैश्वर्यादिगुणयुक्तः 'शरणं' आश्रयः । एतच्चतुःशरणगमनं, एकार्थसाधकत्वेन प्रभूतानामप्यविरुद्धमेव । अत एव परमार्थम् - " चत्तारिसरणं पवज्जामि, अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्मं सरणं पवज्जामि" इति । चतुःशरणगमनानन्तरं दुष्कृतगहोंक्ता । तामाह – शरणमुपगतश्च समेतेषा - मदादीन, दुष्कृतम् । किं विशिष्टं ? इत्याह
जणं अरहंतेसुवा, सिडेसु वा, आयरिएसुवा, उवज्झाएसुवा, साहस वा, साहुणीसु वा, अन्नेसु बा धम्मट्ठाणे माणणिजे पूअणिजेसु, तहा माईसु वा, पिईसुवा, बंधूसु वा, मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवे मग्गट्ठिएस अमग्गट्ठिएस, मग्गसाहणेसु अमग्गसाहणेसु, जंकिंचि वितहमा -
Page #14
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य
यरिअं अणायरिअव्वं अणिच्छिअव्वं पावं पावाणुवधि, सुहमं वा वायरं वा, मणेण वा वायाए वा काएण वा, कयं वा काराविरं वा अणुमोइअं वा, रागेण वा दोसेण वा मोहेण वा, इत्य वा जम्मे
आवस्त्रे जम्मंतरसुवा,गरहिअमेअं,दुक्कडमेअं, उज्झियव्वमेअं, विआणि मए कल्लाणमित्तगुरुभगवंतवयणाओ
अर्हत्सिद्धएवमेअंति रोइअं सहाए, अरहंतसिद्धसमक्खं गरहामि अहमिणं, दुक्कडमेअं, उज्झियध्वमेअं, इत्य मिच्छामि दुक्कडं, मिच्छामि दुक्कडं, मिच्छामि दुकडम् ।
J समक्षं दुष्पयत् । इति दुष्कृतनिर्देशः 'णं' इति वाक्यालङ्कारे। ' अर्हत्सु वा ' अर्हद्विवयं वा । एवं सिद्धेषु वा, आचार्येषु ना, तगरे ॥ उपाध्यायेषु वा, साधुषु वा, साध्वीषु वा, अन्येषु वा धर्मस्थानेषु, सामान्येन गुणाधिकेषु, माननीयेषु, पूजनीयेषु । तथा मातृपुर वा, पितृषु वा, अनेकजन्मापेक्षं बहुवचनम् । बन्धुषु वा, मित्रेषु वा, उपकारिषु वा, ओपेन वा जीवेषु 'मार्गस्थितेषु' सम्यग्दर्यनादियुक्तेषु, 'अमार्गस्थितेषु' एतद्विपरीतेषु, 'मार्गसाधनेषु । पुस्तकादिषु, ' अमार्गसाधनेषु । खड्गादिषु ' यत्किञ्चिद्वितथमाचरितं । अविधिपरिभोगादिना। अनाचरितव्यं, क्रियया । अनेष्टव्यं, मनसा । पापं, पापकारणत्वेन । पापानुबन्धि, तथाविपाकभावेन । सूक्ष्म, बादरं वा, स्वरूपतः । कथमेतदाचरितं ? इत्याह-मनसा वाचा कायेन वा । कृतं चात्मना १ । कारितं चान्यैः २।अनुमोदितं वा परकृतम् ३ । एतदपि रागेण वा, द्वेषण वा, मोहेन वा । अत्र वा जन्मनि, जन्मान्तरेषु वा अतीतेषु । 'गर्हितमेतत्' कुत्सास्पदम् । दुष्कृतमेतत्सद्धर्मबाह्यत्वेन । उज्ज्ञितव्यमेतत् हेयतया । विज्ञातं मया, कल्याणमित्रगुरुभगवद्वचनात् । भगवद्वचनप्राप्ती प्राय इयमानुपूर्वीत्येवमुपन्यासः । एवमेतदिति रोचितं श्रद्धया, तथाविधकर्मक्षयोपशमजया । ततः किं ? इत्याह-अर्हत्सिद्धसमक्षं
Page #15
--------------------------------------------------------------------------
________________
तानधिकृत्य गऽहमिदं कुत्सामीत्यर्थः । कथम् ? इत्याह- दुष्कृतमेतत् । उज्झितव्यमेतत् ' अत्र ' व्यतिकरे 'मिच्छामि दुकडं, वारत्रयं पाठः । व्याख्या अस्य अर्थविशेषत्वात्प्राकृताक्षरैरेव न्याय्या, नियुक्तिकारवचनप्रामाण्यात् । आह च नियुक्तिकार : - “मित्ति मिउमद्दवत्ते, 'च्छ' त्तिय दोसाण छायणे होइ । 'मि'त्ति य मेराए डिओ, 'दु'त्ति दुर्गच्छामि अप्पाणं । 'कत्ति कडं मे पावं, ''त्ति डेमि तं रामेणं । एसो मिच्छादुक्कडपय क्स्वरत्थो समासेणं " । अत्रैतत्सुन्दरत्वान्नासम्यगभिमन्यमान आह
होउ मे एसा सम्मं गरिहा । होउ में अकरणनिअम । बहुमयं ममेअंति, इच्छामि
अणुस
? अरहंताणं भगवंताणं, २ गुरूणं कल्लाणमित्ताणंति होउ मे एएहिं संजोगो । होउ मे एसा सुपत्यणा । होउ मे इत्य बहुमाणो । होउ मे इओ मुक्खति । भवतु मम ' एपा ' अनन्तरोदिता, 'सम्यग्ग' भावरूपा । भवतु मे 'अकरणनियमः' ग्रन्थिभेदवत्तदन्वरूपः, गहविषय इति सामर्थ्यम् । बहुमतं तद्द्वयं इत्यस्मादिच्छामि ' अनुशास्ति ' उदितप्रपञ्चवीजभूताम् । केपां ? इत्याह- अर्हतां भगवतां, तथा गुरूणां कल्याणमित्राणामिति । प्रतिपन्नतच्चानां गुणाधिकविपयैव प्रवृत्तिर्व्याय्या, इत्येवमुपन्यासः । प्रणिध्यन्तरमाह - भवतु मन 'एभिः ' अदादिभिः संयोगः ' उचितो योग इत्यर्थः । भवतु ममैषा 'सुप्रार्थना ' अर्हदादिसंयोगविषया । भक्तु समा बहुमान: प्रार्थनायाम् । भवतु मम ' इतः ' प्रार्थनातो ' मोक्षबीजं ' सुवर्णपट संस्थानीयं प्रवाहतः कुशलानुबन्धि कर्मेत्यर्थः । तथापतं एए अहं सेवारिहे सिआ, आणारिहे सिआ, पडिवत्तिजुत्ते सिआ, निरइआरपारगे सिभा । प्राप्तेषु' एतेषु ' अर्हदादिषु अहं सेवाईः स्याम् | अर्हदादीनामेवाज्ञाः स्याम् । एतेषामेव प्रतिपत्तियुक्तः स्याम् । एतेषामेव
Page #16
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य
आद्यसूत्रे . पंचपरमेष्ठिक्रियानुमोदनम् ॥
निरतिचारं पारगः स्यामेतदाज्ञायाः । एवं सानुषङ्गा दुष्कृतगर्हामभिधाय, सुकृतासेवनमाह
संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसि अरहताणं अणुट्ठाणं । सव्वेसि सिद्धाणं सिद्धभावं । सव्वेसिं आयरिआणं आयारं । सव्वेसिं उवज्झायाणं सुत्तप्पयाणं । सव्वेसिं साहूणं साहुकिरिअं। सव्वेसिं सावगाणं मुक्खसाहणजोगे। सव्वसिं देवाणं, सव्वेसिंजीवाणं, होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे।
संविग्नः सन् यथाशक्ति, किम् ? इत्याह-सेवे सुकृतम् । एतदेवाह-अनुमोदेऽहमिति प्रक्रमः । सर्वेषामर्हतां ' अनुष्ठानं ' धर्मकथादि । एवं सर्वेषां सिद्धानां - सिद्धभावं ' अव्याबाधादिरूपम् । एवं सर्वेषामाचार्याणां । आचारं । ज्ञानाचारादिलक्षणम् । एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवत । एवं सर्वेषां साधूनां ' साधुक्रियां' सत्स्वाध्यायादिरूपाम् । एवं सर्वेषां श्रावकाणां 'मोक्षसाधनयोगान् । वैयावृत्त्यादीन् । एवं सर्वेषां 'देवानां ' इन्द्रादीनाम्, सर्वेषां जीवानां, सामान्येनैव भवितुकामानामासन्नभव्यानां, 'कल्याणाशयानां' शुद्धाशयानां एतेषाम् । किं ? इत्याह-मार्गसाधनयोगान् । सामान्येन कुशलव्यापाराननुमोदे, इति क्रियानुवृत्तिः । भवन्ति चैतेषामपि मागसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमात् । अनभिग्रहे सति प्रणिधिशुद्धिमाहहोउ मे एसा अणुमोअणा । सम्मं विहिपुव्विआ, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्मनिरइआरा। परमगुणजुत्तअरहंताइसामत्थओ, अचिंतसत्तिजुत्ता हि ते भगवंतो, वीअरागा सव्वण्णू
Page #17
--------------------------------------------------------------------------
________________
परमकल्लाणा, परमकल्लाणहेऊ सत्ताणं, 'मूढे अम्हि पावे,' अणाइमोहवासिए अणभिन्ने भावओ, हिआहिआणं अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ, आराहगे सिआ, उचिअपडिवत्तीए सव्वसत्ताणं सहिअंति । इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं ||
भवतु ममैषाऽनुमोदना, अनन्तरोक्ता । सम्यग्विधिपूर्विका, सूत्रानुसारेण । सम्यकुशुद्धाशया, कर्मविगमेन । सम्यक्प्रतिपत्तिरूपा, क्रियारूपेण | सम्यग्निरतिचारा, सन्निर्वहणेन । कुतो भवतु १ इत्याह- परमगुणयुक्ताईदादिसामर्थ्यतः । आदिशब्दात्सिद्धादिपरिग्रहः । प्रार्थनायाः सविषयतामाह - अचिन्त्यशक्तियुक्ता हि ते भगवन्तोऽईदादयः, वीतरागाः, सर्वज्ञाः, प्राय आचार्यादीनामप्येतद्वीतरागादित्वमस्तीत्येवमभिधानं तद्विशेषापेक्षं स्वाह-परकल्याणा आचार्यादयोऽपि परमकल्याणहेतवः, सच्चानां तैस्तैरुपायैः सर्व एवैते ' मृढास्मि पाप' एतेषां विशिष्टानां प्रतिपत्तिं प्रति । अनादिमोहवासितः संसारानादित्वेन । अनभिज्ञो भावतः परमार्थतः । हिताहितयोरभिज्ञः स्यामहमेतत्सामर्थ्येन । तथाऽहितनिवृत्तः स्यां, तथा हितप्रवृत्तः स्याम् । एवमाराधकः स्यामुचितप्रतिपत्त्या, सर्वसत्वानां संबन्धिन्या । कि ? इत्याह – स्वहितमिति । इच्छामि सुकृतं ३, एवं वारत्रयं पाठः । उत्तममेतत्सुकृतासेवनं, विशेषतः पृथग्गतानां वनच्छेत्तृबलदेवमृगोदाहरणात् परिभावनीयम् । सूत्रपाठे फलमाह
सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स, सिढिलोभवंति परिहार्यंति विज्जति असुहकम्माणुबंधा । निरणुबंधे वाऽसुहकम्मे भग्ग सामत्थे सुहपरिणामेणं, कडगबजे विअ विसे, अप्पफले
एवमे
Page #18
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य
आधसत्रे शुभकर्मानुबन्धफलनिदर्शनम् ॥
38888888888888888888*
सिआ,सुहावाणिज्जे सिआ, अपुणभावे सिआ॥
एवमेतत्सूत्रं सम्यक्पठतः संवेगसारं, तथा 'शृण्वतः ' आकर्णयतः अन्यसमीपात्, तथाऽनुप्रेक्षमाणस्य अर्थानुस्मरणद्वारेण । किं ? इत्याह-श्लथीभवन्ति, मन्दविपाकतया । तथा परिहीयन्ते, पुद्गलापसरणेन । तथा क्षीयन्ते निर्मूलत एवाशयविशेषाभ्यासद्वारेण । के ? इत्याह-अशुभकर्मानुबन्धा भावरूपाः, कर्मविशेषरूपा वा । ततः किं ? इत्याह-निरनुबन्ध वाऽशुभकर्म यच्छेषमास्ते । भग्नसामर्थ्य विपाकप्रवाहमङ्गीकृत्य शुभपरिणामेनानन्तरोदितसूत्रप्रभवेन । किमिव ? इत्याह-कटकबद्धमिव विष मन्त्रसामर्थ्यनाल्पफलं स्यात्, अल्पविपाकमित्यर्थः । तथा सुखापनेयं स्यात, संपूर्णस्वरूपेणैव । तथा अपुनर्भावं स्यात्कर्म, पुनस्तथाऽबन्धकत्वेन। एवमपायपरिहारः फलत्वेनोक्तः । इदानीं सदुपायसिद्धिलक्षणमेतदभिधातुमाह
तहा आसगलिजंति परिपोसिजंति निम्मविजंति सुहकम्माणुबंधा । साणुबंधं च सुहकम्मं पगिढ़ पगिठ्ठभावजिअं नियमफलयं । सुप्पउत्ते विअ महागए सुहफले सिआ, सुहपवत्तगे सिआ, परमसुहसाहगे सिआ। अपडिबंधमअं असुहभावनिराहणं सुहभावबीअंति, सुप्पणिहाणं सम्मं पढिअव्वं, सम्म सोअव्वं अणुप्पेहिअव्वंति ॥
तथा आसकलीक्रियन्ते, आक्षिप्यन्त इत्यर्थः । तथा परिपोष्यन्ते, भावोपचयेन । तथा निर्माप्यन्ते परिसमाप्ति नीयन्ते । के ? इत्याह--कुशलकर्मानुबन्धा इति भावः । ततः किम् ? इत्याह--सानुबन्धं च शुभकर्म, आत्यन्तिकानुबन्धापेक्षम् । किविशिष्टं ?
38888888888888888KSXE.*
॥
७॥
Page #19
--------------------------------------------------------------------------
________________
किम् ? इत्याह--'प्रकृष्टं' प्रधान, 'प्रकृष्टभावार्जितं' शुभभावार्जितमित्यर्थः । नियमफलदं, प्रकृष्टस्वेनैव । तदेवंभूतं किम् ? इत्याहसुप्रयुक्त इव महागदः एकान्तकल्याणः शुभफलं स्यादनन्तरोदितं कर्म । तथा शुभप्रवर्तकं स्यादनुबन्धेन । एवं परमसुखसाधकं स्यात् पारम्पर्येण, निर्वाणावहमित्यर्थः । यत एवं, अतोऽस्मात्कारणात् ' अप्रतिबन्धमेतत् । प्रतिबन्धरहितं, अनिदानमित्यर्थः । 'अशुभभावनिरोधेन । अशुभानुबन्धनिरोधेनेत्यर्थः । शुभभावनाबीजमितिकृत्वैतत्सूत्रं 'सुप्रणिधानं शोभनेन प्रणिधानेन सम्यक् प्रशान्तात्मना पठितव्यं ' अध्येतव्यम् । श्रोतव्यमन्वाख्यानविधिना । ' अनुप्रेक्षितव्यं परिभावनीयमिति । न च, "होउ मे एसा अणुमोअणा सम्म विहिपुब्विआ" इत्यादिना निदानपदमेतदिति मन्तव्यम्। क्लिष्टकर्मबन्धहेतोर्भवानुबन्धिनः संवेगशून्यस्य महर्द्धिभोगगृद्धावस्यवसानस्य निदानत्वात् । अस्य च तल्लक्षणायोगात् । अनीदृशस्य चानिदानत्वात् । आरोग्यप्रार्थनादेरपि निदानत्वप्रसङ्गात् । तथा चागमविरोधः- " आरोग्गबोहिलाभं समाहिवरमुत्तमं देंतु " इत्यादिवचनश्रवणादित्यलं प्रसङ्गेन । सूत्रपरिसमाप्ताववसानमङ्गलमाह
नमो नमिअनमिआणं परमगुरुवीअरागाणं । नमो सेसनमुक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा ॥
इति पावपडिग्याय-गुणबीजाहाणसुत्तं सम्मत्तं ॥१॥ नमो नतनतेभ्यः, देवर्षिवन्दितेभ्य इत्यर्थः । केभ्यः ? इत्याह-परमगुरुवीतरागेभ्य इति यावत् । नमः शेषनमस्काराहेभ्य
Page #20
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य ॥८॥
आचार्यादिभ्यो गुणाधिकेभ्य इति भावः । जयतु सर्वज्ञशासनं, कुतीर्थापोहेन । परमसंबोधिना वरबोधिलाभरूपेण सुखिनो भवन्तु, मिथ्यात्वदोपनिवृत्त्या 'जीवाः प्राणिन इति । अस्य वारत्रय पाठः, पापप्रतिघातेन अकुशलानुबन्धाश्रवव्यवच्छेदेन गुणबीजाधान, भावतः प्राणातिपातविरमणमिति तन्यासः। तथाऽनुवन्धतो विचित्रविपाकाकर्माधानमित्यर्थः । एतत्सूचकं सूत्रं पापप्रतिघात-धर्मगुणबीजाधानसूत्रं समाप्तम् । इति पञ्चसूत्रकव्याख्यायां प्रथमसूत्रव्याख्या समाप्ता ॥१॥
द्वितीयसूत्रे धर्मश्रद्धानन्तरमणुव्रतप्रतिपत्त्युपदेशः॥
द्वितीयं साधुधर्मपरिभावनासूत्रम् ॥ अधुना द्वितीयसूत्रव्याख्या प्रस्तूयते-अस्य चायमभिसंबन्धः-इह धर्मगुणबीजमाहितं सत्तत्तद्वैचित्र्यात्तत्तत्कालादिनिमित्तभेदेन विपच्यते, एतदाभिमुख्येन । तत एव धर्मगुणप्रतिपत्तिश्रद्धोपजायते, तस्यां समुपजातायां यत्कर्त्तव्यं तदभिधातुमाह
जायाए धम्मगुणपडिवत्तिसद्धाए, भाविज्जा एएसिं सरूवं पयइसुंदरत्तं अणुगामित्तं परोवयारित्तं परमत्यहेउत्तं । तहा दुरणुचरत्तं, भंगे दारुणतं, महामोहजणगत्तं, भूओ दुल्लहत्तंति । एवं जहासत्तए उचिअविहाणेणं अच्चंतभावसारं पडिवजिजा। तंजहा-थूलग-पाणाइवायविरमणं १, थूलग-मुसावायविरमणं २. थूलग-अदत्तादाणविरमणं ३, थलग-मेहुणविरमणं ४, थूलग-परिग्गहविरमण ५ मिच्चाइ॥
जातायां धर्मगुणप्रतिपत्तिश्रद्धायां भावतस्तथाविधकर्मक्षयोपशमेन भावयेत्, एतेषां स्वरूपं धर्मगुणानाम् । प्रकृतिसुन्दरत्वं
॥८॥
Page #21
--------------------------------------------------------------------------
________________
जीवसंश्लेशविशुद्धया । आनुगामुकत्वं भवान्तरवासनानुगमेन । परोपकारित्व तथापीडादिनिवृत्या । परमार्थहेतुत्वं परम्परया मोक्षसाधनत्वेन । तथा दुरनुचरत्वं सदैवानभ्यासात् । भङ्गे दारुणत्वं भगवदाज्ञाखण्डनतः । महामोहजनकत्वं धर्मदूषकत्वेन । भूयो दुर्लभत्वं विपक्षानुबन्धपुष्टयेति भावः, इति । एवमुक्तेन प्रकारेण यथाशक्ति शक्त्यनुरूपं, न तद्धान्याधिक्याभ्याम् । उचितविधानमेव शास्त्रोक्तेन विधिना । अत्यन्तभावसारं महता प्रणिधानबलेन । प्रतिपद्यत धर्मगुणान्न रामसिकया प्रवृत्या, अस्या विषाकदारुणत्वात् । किंभूतास्तान ? इत्याह-तद्यथा-स्थूलप्राणातिपातविरमण, स्थूलमृपावादविरमण, स्थूलादत्तादानविरमणं, स्थूलमैथुनविरमणं, स्थूलपरिग्रहविरमणमित्यादि । 'आदि' शब्दादिवताद्युत्तरगुणपरिग्रहः । आदावुपन्यासश्चैषाम् 'भावत इत्थमेव प्राप्तेरिति ।' उक्तञ्च-" सम्मत्तमि उ लद्धे पलियपुहत्तेण सावओ होजा। चरणोवसमखयाण सागरसंखं होत्ति ॥ एवं अप्परिवडिए, सम्मत्ते देवमणुयजम्मेसु । अण्णयरसेढिवजं, एगभवेणं च सव्वाई" इत्यादि । __पडिवजिऊण पालणे जइज्जा, सयाणागाहगे सिआ, सयाणाभावगे सिआ, सयाणापरतते सिआ, "आणा" हि मोहविसपरममंतो, जलं रोसाइजलणस्स, कम्मवाहितिगिच्छासत्यं, कप्पपायवो सिवफलस्स॥
प्रतिपद्य पालने यतेत, अधिकृतगुणानाम् । कथम् ? इत्याह-सदाज्ञाग्राहकः स्थात, अध्ययनश्रवणाभ्याम् । 'आज्ञा' आगम उच्यते । सदाज्ञाभावकः स्यात्, अनुप्रेक्षाद्वारेण । सदाज्ञापरतन्त्रः स्यादनुष्ठानं प्रति । किमेवं ? इत्याह-आज्ञा हि. मोहविषपरममन्त्रः, तदपनयनेन । जलं द्वेषादिज्वलनस्य, तद्विध्यापनेन । कर्मव्याधिचिकित्साशास्त्रं, तत्क्षयकारणत्वेन । कल्पपादपः शिवफलस्य, तदवन्ध्यसाधकत्वेन ॥
Page #22
--------------------------------------------------------------------------
________________
X
श्रीपंच
द्वितीयस्त्रे
-पत्रस्य
धर्मविरुद्ध
त्यागोपदेशः॥
XXBABEO:
वजिजा अधम्ममित्तजोगं, चिंतिजाभिणवपाविए गुणे, अणाइभवसंगए अ अगुणे, उदग्गसहकारितं अधम्ममित्ताणं, उभयलोगगरहिअत्तं असुहजोगपरंपरं च ॥ ___तथा वर्जयेत् ' अधर्ममित्रयोग' अकल्याणमित्रसम्बन्धम् । चिन्तयेत् अभिनवप्राप्तान 'गुणान् स्थूलप्राणातिपातविरमणादीन । अनादिभवसङ्गतांश्वाऽगुणान्, सदैवाविरतत्वेन । उदग्रसहकारित्वं, तत्पापानुमत्यादिना । अशुभयोगपरंपरं च, अकुशलानुबन्धतः।।
परिहरिजा सम्मं लोगविरुद्धे, करुणापरे जणाणं, न खिसाविज धम्म, संकिलेसो खुएसा, परमबोहिबीअमबोहिफलमप्पणोत्ति । एवमालोएजा-न खलु इत्तो परो अणत्थो, अंधत्तम संसाराडवीए, जणगमणिहावायाणं, अइदारुणं सरूवेणं, असुहाणुबंधमच्चत्थं ॥
तथा परिहरेतु सम्यग् लोकविरुद्धानि तदशुभाध्यवसायादिनिबन्धनानि । अनुकम्पापरो जनानां, माभूत्तेषामधर्मः । न खिसयेद्धर्म, न गर्हयेज्जनैरित्यर्थः। संक्लेश एवैषा खिसाऽशुभभावत्वेन । परं अबोधिबीजं, तत्प्रद्वेषेण | अबोधिफलमात्मन इति । जनानां तन्निमित्तभावेन । तथा एवमालोचयेत्सूत्रानुसारेण । न खल्वतः परोऽनर्थोऽबोधिफलात् । तत्कारणभावाद्वा लोकविरुद्धत्वादिति । अन्धत्वमेतत्संसाराटव्यां हितदर्शनाभावेन । जनकमनिष्ट (एटा)पातानां, नरकाद्युपपातकारणतया । अतिदारुणं स्वरूपेण, संक्लेशप्रधानत्वात् । अशुभानुबन्धमत्यर्थ परम्परोपघातभावेनेति । अत एवोक्तम्-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्ध धर्मविरूद्धं च संत्याज्यम् ॥ " इत्यादि ।
॥९
॥
Page #23
--------------------------------------------------------------------------
________________
SEXECOORS
सेविज धम्ममित्ते विहाणेणं, अंधो विवाणूकट्ठए, वाहिए विव विजे, दरिदो विव ईसरे, भीओ विव महानायगे, न इओ सुंदरतरमन्नांत, बहुमाणजुत्ते सिआ, आणाकंखी, आणापडिच्छगे, आणा अविराहगे, आणानिप्फायगोत्त॥
तथा सेवेत धर्ममित्राणि ' विधानेन । सत्प्रतिपत्त्यादिना । अन्ध इवानुकर्षकान, पातादिभयेन । व्याधिवान् इव वैद्यान, दुःखभयेन । दरिद्र इवेश्वरान, स्थितिहेतुत्वेन । भीत इव महानायकान, आश्रयणीयत्वेन । तथा न इतो-धर्ममित्रसेवनात् । सुन्दरतरमन्यदितिकृत्वा बहुमानयुक्तः स्यात् धर्ममित्रेषु । आज्ञाकाङ्क्षी अदत्तायामस्यां तेषाम् । आज्ञाप्रतीच्छकः प्रदानकाले तेषामेव । आज्ञाऽविराधकः प्रस्तुतायां तेषामेव । आज्ञानिष्पादक इत्यौचित्येन तेषामेव ।
पडिवन्नधम्मगुणारिहं च वाहिजा, गिहिसमुचिएसु गिहिसमायारेसु, परिसुद्धाणुट्टाणे, परिसुद्धमणकिरिए, परिसुद्धवइकिरिए, परिसुद्धकायकिरिए ॥
प्रतिपन्नधर्मगुणाहं च वर्तेत, सामान्येनैव । ' गृहिसमुचितेषु गृहिसमाचारेषु' नानाप्रकारेषु, परिशुद्धानुष्ठानः सामान्येनैव । परिशुद्धमनःक्रियः शास्त्रानुसारेण । परिशुद्धवाकक्रियोऽनेनैव । परिशुद्धकायक्रियोऽनेनैव । एतद्विशेषेणाभिधातुमाह
वजिजाउणेगोवघायकारगं,गरहणिज्ज, बहुकिलेसं, आयइविराहगं, समारंभं। न चिंतिजा परपीडं । न भाविजा दीणयं । न गच्छिअजा हरिसं । न सेविजा वितहाभिनिवेसं । उचिअमणपवत्तगे सिआ। न
Page #24
--------------------------------------------------------------------------
________________
श्रीपंच
सत्रस्य वा१०॥
द्वितीयसूत्रे लाभोचितदानभोगादिकरणविचारः॥
भासिज्जा अलिअं, न फरुसं, न पेसुन्नं, नाणिबडं । हिअमिअभासगे सिआ । एवं न हिंसिजाभूआणि । न | गिण्हिज अदत्तं । न निरिक्खिज परदारं । न कुजा अणत्यदंडं । सुहकायजोगे सिआ।
वर्जयेदनेकोपघातकारक सामान्येन, गर्हणीयं प्रकृत्या, बहुक्लेशं प्रवृत्ती, 'आयतिविराधकं । परलोकपीडाकर, 'समारम्भ' अङ्गारकर्मादिरूपम् । तथा न चिन्तयेत्परपीडां (पीडनार्थ) सामान्येन । न भावयेद्दीनतां कस्यचिदसंप्रयोगे। न गच्छे द्वर्ष कस्यचित्संप्रयोगे। न सेवेत 'वितथाभिनिवेशं । अतत्वाध्यवसायं, कि तु उचितमनःप्रवर्तकः स्याद् वचनानुसारेण । एवं न भाषेतानृतमभ्याख्यानादि न 'परुषं निष्ठुरं, न पैशून्यं । परप्रीतिहारि, 'नाऽनिबद्धं विकयादि, किं तु हितमितभाषकः स्यात्सूत्रनीत्या। एवं न हिंस्याद् भूतानि ' पृथिव्यादीनि ।' न गृह्णीयाददत्तं स्तोकमपि । न निरीक्षेत परदारं रागतः । न कुर्यादनर्थदण्डं अपध्यानाचरितादि, किं तु शुभकाययोगः स्वात, आगमनीत्या ॥
तदा लाहोचिअदाणे, लाहोचिअभोगे, लाहोचिअपरिवारे, लाहोचिअनिहिकरे सिआ। असंतावगे परिवारस्स, गुणकरे जहासत्तिं, अणुकंपापरे निम्ममे भावेणं । एवं खु तपालणेचि धम्मो, जह अन्नपालणत्ति । सव्वे जीवा पुढो पुढो, ममत्तं बंधकारणं ॥ __ तथा लामोचितदानः अष्टभागाद्यपेक्षया । तथा लामोचितभोगः अष्टभागाद्यपेक्षया । लाभोचितपरिवारः चतुर्भागादिभर्त्तव्यपरिमाणेण । लाभोचितनिधिकारः स्यात, चतुर्भागाद्यपेक्षयैव । उक्तश्चात्र लौकिकैः-"पादमायानिधि कुर्यात्पादं वित्ताय बर्द्धयेत् ।
Page #25
--------------------------------------------------------------------------
________________
धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे " ॥ तथाऽन्यैरप्युक्तम्-- “ आयादर्द्ध नियुञ्जीत, धर्मे यद्वाऽधिकं सतः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् " || इत्यादि । तथा असन्तापकः परिजनस्य स्यादिति वर्त्तते शुभप्रणिधानेन । गुणकरो यथाशक्ति भवस्थितिकथनशीलत्वेन । अनुकम्पापरः प्रतिफलनिरपेक्षतया । निर्ममो भावेन भवस्थित्यालोचनात् । क एवं गुणः स्यात् ? इत्याह-एवं यस्मात्तत्पालनेऽपि धर्मः, जीवोपकारभावात् । यथाऽन्यपालन इति जीवविशेषेण । किमित्येतदेव ? न, इत्याह- सर्वे जीवाः पृथक पृथ वर्त्तन्ते, स्वलक्षणभेदेन किं तु ममत्वं बन्धकारणं, लोभरूपत्वात् । उक्तञ्च - संसाराम्बुनिधौ सच्चाः कर्मोर्मिपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः " ।। तथा - " अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि । सत्त्वो नैवात्यसौ कश्विद्यो न बन्धुरनेकधा " ।। इत्यादि, सर्वथा ? परिभावना मात्रमेतत्स्वजनो न स्वजन इति ॥
तहा तेसु तेसु समायारेसु सइ समण्णागए सिआ, अमुगेहं अमुगकुले अमुगसिस्से अमुगधम्मट्ठाणट्ठिए । न मे विराणा, न मे तदारंभी, बुड्ढी ममेअस्स, एअमित्य सारं, एअमायभूअं, एअं हिअं, असारमण्णं सव्वं, विसेसओ अविहिगहणेणं । एवमाह तिलोगबंधू परमकारुणिगे सम्मं संबुडे भगवं अरहंतेति । एवं समालोचिअ तदविरुद्धेसु समायारेसु सम्मं वहिजा, भावमंगलमेअं तन्निष्पत्तीए ||
तथा तेषु तेषु समाचारेषु गृहिसमुचितेष्विति वर्तते, स्मृतिसमत्वागतः स्यात् आभोगयुक्तः । कथं ? इत्याह-अमुकोऽहं देवदत्तादिनामा | अमुक इक्ष्वाक्काद्यपेक्षया । अमुकशिष्यो धर्मतः, तत्तदाचार्यापेक्षया । अमुकधर्मस्थानस्थितः अणुव्रताद्यपेक्षया ।
Page #26
--------------------------------------------------------------------------
________________
श्रीपंच
| द्वितीयसूत्रे
सूत्रस्य
धर्म एव
मरणोष
धम् ॥
न मम तद्विराधना सांप्रतम् । न मम तदारम्भः, विराधनारम्भः । तथा वृद्धिर्ममैतस्य धर्मस्थानस्य । एतदत्र सारं धर्मस्थानम् । एतदात्मभूतमानुगामुकत्वेन । एतद्धितं सुन्दरपरिणामत्वेन । असारमन्यत्सर्वमर्थजातादीति । विशेषतोऽविधिग्रहणेन विपाकदारुणत्वात् । यथोक्तम्-" पापेनैवार्थरागान्धः, फलमानोति यक्वचित् । बडिशामिपयत्तत्तु, विना नाशं न जीर्यति " इति । एतदेवमेवेत्याह-एवमाह त्रिलोकबन्धुः, समुपचितपुण्यसंभारः परमकारुणिकः तथाभव्यत्वनियोगात् । सम्यक संबुद्धोऽनुत्तरबोधिबीजतः । भगवानहन सच्चविशेष इति । एवं समालोच्य ' तदविरुद्धेषु ' अधिकृतधर्मस्थानाविरुद्धेषु समाचारेषु विचित्रेषु सम्यग् वर्तेत। सूत्रनीत्या भावमङ्गलमेतद्विधिना वर्त्तनं, तनिष्पत्तेरधिकृतसमाचारनिष्पत्तेरिति ॥
तहा जागरिज धम्मजागरिआए, को मम कालो? किमअस्स उचिअं?असारा विसया, निअमगामिणो, विरसावसाणा । भीसणो मच्चू, सव्वाभावकारी, अविनायागमणो, अणिवाराणिज्जो पुणो पुणोऽणुबंधी । धम्मो एअस्स ओसह, एगंतविसुद्धो, महापुरिससेविओ, सव्वहिअकारी निरइआरो परमाणंदहेऊ ॥
तथा जागृयात् भावनिद्राविरहेण । धर्मजागरया तत्वालोचनरूपया । को मम कालः ? वयोऽवस्थारूपः । किमतस्योचितं ? धर्माद्यनुष्ठानम् । ' असारा विषयाः । तुच्छाः शब्दादयो, 'नियमगामिनो वियोगान्ताः, 'विरसावसानाः परिणामदारुणाः । तथा भयानको मृत्युः, महाभयजननः । सर्वाभावकारी तत्साध्यार्थक्रियाऽभावात् । अविज्ञातागमनः, अदृश्यस्वभावत्वान्मृत्योः । अनिवारणीयः, स्वजनादिबलेन । पुनः पुनरनुबन्धी, अनेकयोनिभावेन । धर्म एतस्यौषधं, मृत्योाधिकल्पस्य । किविशिष्टः ?
Page #27
--------------------------------------------------------------------------
________________
SXEKX***888888888888888833
इत्याह-' एकान्तविशुद्धः । निवृत्तिरूपः, 'महापुरुषसेवितः । तीर्थकरादिसेवितः, सर्वहितकारी मैत्र्यादिरूपतया । निरतिचारो यथागृहीतपरिपालनेन । परमान्दहेतुः, निर्वाणकारणमित्यर्थः ॥
नमो इमस्स धम्मस्स । नमो एअधम्मपगासगाणं । नमो एअधम्मपालगाणं । नमो एअधम्मपरूवगाणं । नमो एअधम्मपवनगाणं । इच्छामि अहमिणं धम्म पडिवजित्तएं, सम्म मणवयणकायजोगेहिं । होउ ममेअं कल्लाणं, परमकल्लाणाणं जिणाणमणुभावओ। सुप्पणिहाणमेवं चिंतिजा पुणो पुणो, एअधम्मजुत्ताणमववायकारी सिआ। पहाणं मोहच्छेअणमेअं । एवं विसुज्झमाणे भावणाए,कम्मापगमेणं उवेइ एअस्स जुग्गयं । तहा संसारविरत्ते संविग्गो भवइ, अममे अपरोवतावी, विसुद्धे विसुद्धमाणभावे ॥
॥ इति साहुधम्मपरिभावणासुत्तं सम्मत्तं ॥२॥ नम एतस्मै धर्माय, अनन्तरोदितरूपाय । नम एतद्धर्मप्रकाशकेभ्योऽहङ्ग्यः । नम एतद्धर्मपालकेभ्यो यतिभ्यः। नम एतद्धर्मप्रतिपत्तृभ्यः श्रावकादिभ्यः । इच्छाम्यहमेनं धर्म प्रतिपत्तुम् । अनेनैतत्पक्षपातमाह-सम्यग्मनोवाक्काययोगैः। अनेन तु संपूर्णप्रतिपत्तिरूपं प्रणिधिविशेषमाह-भवतु ममैतत्कल्याणं; अधिकृतधर्मप्रतिपत्तिरूपं, परमकल्याणानां जिनानामनुभावतः, तदनुग्रहेणेत्यर्थः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः । एवं हि स्वाशयादेव तन्निमित्तोऽनुग्रह इति । तथा एतद्धर्मयुक्तानां यतीनामवपातकारी स्याम् आज्ञाकारीति भावः । प्रधान मोदच्छेदनमेतत् । तदाज्ञाकारित्वं तन्मोहच्छेदनयोगनिष्पत्यङ्गतयेति हृदयम् । एवं कुशलाभ्यासे
Page #28
--------------------------------------------------------------------------
________________
तृतीवस्त्रे
श्रीपंच
सूत्रस्य ।१२॥
साधुधर्म
विशुद्ध्यमानो विशुद्धयमान एतत्सेवक इति प्रक्रमः | भावनयोक्तरूपया कर्मापगमेन हेतुना, उपैति एतस्य धर्मस्य योग्यताम्, एतदेवाह-तथा संसारविरक्तस्तद्दोषभावनया, संविग्नो भवति मोक्षार्थी, ' अममः' ममत्वरहितः, 'अपरोपतापी' परपीडापरिहारी,
विशुद्धः ' ग्रन्थ्यादिभेदेन, विशुद्धथमानभावः: शुभकण्डकवृद्धथा । इति साधुधर्मपरिभावनासूत्रं समाप्तम् । भावतः साधुधर्मप्राप्त्युपायमृतार्थसूचक सूत्रं समाप्तम् ॥ इति पञ्चसूत्रकव्याख्यायां द्वितीयसूत्रव्याख्या समाप्ता ।।
परिभावितकर्तव्योपदेशः॥
तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् ॥ अधुना तृतीयसूत्रव्याख्या प्रक्रम्यते-अस्य चायमभिसंबन्धः । अनन्तरसूत्रे जातायां धर्मगुणप्रतिपत्तिश्रद्धायां यत्कर्त्तव्यं तदु क्तम्, तच्च कुर्वता साधुधर्मः परिभावितो भवति, तस्मिन् परिभाविते यत्कर्त्तव्यं तदभिधातुमाह
परिभाविए साहुधम्मे जहादिअगुणे, जइज्जा सम्ममेअं पडिवज्जित्तए । अपरोवतावं, परोवतावो हि तप्पडिवत्तिविग्ध, अणुपाओ खु एसो, न खलु अकुसलारंभओ हि । अप्पडिबुद्ध कहिंचि पडिबाहिज्जा अम्मापिअरे । उभयलोगसफलं जीविअं, समुदायकडा कम्मा समुदायफलत्ति । एवं सुदीहो अ विओगो। अण्णहा एगरुक्खनिवासिसउणतुल्लमेअं । उद्दामो मच्च पञ्चासण्णो अ। दुल्लहं मणुअत्तं समुद्दपडिअरयणलाभतुल्लं । अइप्पभूआ अण्णे भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजुग्गा सुद्धधम्मस्स ।
PAT॥१२॥
Page #29
--------------------------------------------------------------------------
________________
जुग्गं च एअं पोअभूअं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं, संवरठ्ठह्अछि, नाणकण्णधारं तवपवणजवणं । 'खणे दुल्लहे' सव्वकज्जोवमाईए सिद्धिसाहगधम्मसाहगत्तेण । उवादेआ य एसा जीवाणं; जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिट्ठसंपओगो, न खुडा, न पिवासा, न अण्णो कोइ दोसो, सव्वा अपरतंतं जीवावत्थाणं असुभरागाइरहिअं संतं ' सिवं ' अव्वाबाहंति ॥
परिभाविते साधुधर्मे अनन्तरसूत्रोदितेन विधिना, यथोदितगुणः संसारविरक्तः संविप्रः अममः अपरोपतापी विशुद्धः विशुद्धयमानभावः सन्, यतेत सम्यग्विधिनाऽमुं धर्म प्रतिपत्तुम् । कथं ? इत्याह- अपरोपतापमिति क्रियाविशेषणम् । किमेतदाश्रीयते ! इत्याह-- परोपतापो हि तत्प्रतिपत्तिविघ्नः परोपतापो यस्माद्धर्मप्रतिपत्त्यन्तरायः । एतदेवाह — अनुपाय एवैष धर्मप्रतिपत्तौ परोपत्तापः । कथं १ इत्याह-न खल्वकुशलारम्भतो हितम् । अकुशलारम्भश्च धर्मप्रतिपत्तावपि परोपतापः । न चान्यस्तत्र, प्रायोऽयं संभवतीति । संभविपरिहारार्थमाह- अप्रतिबुद्धौ कथञ्चित्कर्मवैचित्र्यतः, प्रतिबोधयेन्मातापितरौ । न तु प्रायो महासवस्यैतावप्रतिबुद्धौ भवत इति । कथञ्चित् १ इत्याह-उभयलोकसफलं जीवितं प्रशस्यत इति शेषः । तथा समुदायकृतानि कर्माणि, प्रक्रमाच्छुभानि समुदायफलानीति । अनेन भूयोऽपि योगाक्षेपः । तथा चाह एवं सुदीर्घो वियोगः भवपरम्परया सर्वेषामस्माकमिति प्रक्रमः । अन्यथैवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः । यथोक्तम् - " वासवृक्षं समागम्य, विगच्छन्ति यथाऽण्डजाः नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ " इत्यादि । एतदेव स्पष्टयन्नाह - उद्दामो मृत्युः अनिवारितप्रसरः प्रत्यासन्नश्चाल्पायुष्वेन । तथा
3
Page #30
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य
तृतीयस्चे संसारनिदनिम् ॥
दुर्लभं मनुजत्वं, भवाब्धाविति शेषः । अत एवाह-समुद्रपतितरत्नलाभतुल्यं, अतिदुरापमित्यर्थः । कुतः १ इत्याह-अतिप्रभूता अन्ये भवाः पृथिवीकायादिसंबन्धिनः कायस्थित्या । यथोक्तम्-" अस्संखोसप्पिणि-सप्पिणीओ एगिन्दियाण उ चउण्हं । ता चेव उ अणता, वणस्सतीए उ बोधब्बा "॥१॥ एते च दुःखबहुला उत्कटासातवेदनीया मोहान्धकारास्तदुदयतीव्रतया, अकुशलानुबन्धिनः प्रकृत्याऽसच्चेष्टाहेतुत्वेन॥ यत एवमतः-अयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य, योग्यं चैतन्मनुजत्वम् । किविशिटम् ? इत्याह-पोतभूतं भवसमुद्रे, तदुत्तारकत्वेन । यत एवमतो युक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे । कथं ? इत्याह-संवरस्थगितच्छिद्रं, छिद्राणि प्राणातिपाताऽविरमणादीनि । तथा ज्ञानकर्णधारमभीक्ष्णं तदुपयोगतः । तपःपवनजवनं, अनशनाद्यासेवनतया । एवं युक्तं स्वकार्ये नियोक्तुम् । कि? इत्यत आह-क्षण एष दुर्लभः । क्षणः प्रस्तावः सर्वकार्योपमातीत एषः । कथं ? इत्याह-सिद्धिसाधकधर्मसाधकत्वेन हेतुना, उपादेया चैषा जीवानां सिद्धिरेव । यन्नास्यां सिद्धौ जन्म प्रादुर्भावलक्षणम् । न जरा, वयोहानिलक्षणा । न मरणं, प्राणत्यागलक्षणम् । नेष्टवियोगः, तदभावात् । नानिष्टसंप्रयोगोऽत एव हेतोः। न क्षुद्, बुभुक्षारूपा। न पिपासा, उदकेच्छारूपा। न चान्यः कश्चिद्दोषः, शीतोष्णादिः । सर्वथाऽपरतन्त्रं जीवावस्थानं, अस्यां सिद्धाविति प्रक्रमः । अशुभरागादिरहितमेतदवस्थानम् । एतदेव विशेष्यते-शान्तं शिवमव्याबाधमिति । शान्तं शक्तितोऽपि क्रोधाद्यमावेन । शिवं सकलाशिवाऽभावतः । अव्यावाघ, निष्क्रियत्वेनेति ॥
विवरीओ अ संसारो इमीए अणवा असहावो । “इत्थ खलु सुहाीव असुही, संतमसंतं, सुविणुव्व
Page #31
--------------------------------------------------------------------------
________________
सव्वमालमालति । ता अलमित्य पडिबंधेणं । करेह मे अणुग्गह " । उज्जमह एअं वुच्छिदित्तए । अहंपि तुम्हा सामि । निव्विण्णो जम्ममरणेहिं । समिज्झइ अ मे समीहिअं गुरुप्पभावेणं । एवं सेसेवि बोहिज्जा । तओ सममेएहिं सेविज्ज धम्मं । करिज्जोचिअकरणिज्जं, निरासंसो उ सव्वदा एअं परममुणिसासणं ॥
विपरीतश्च संसारोऽस्याः सिद्धेर्जन्मादिरूपत्वात् सर्वोपद्रवालयो । यथाह - " जरामरणदौर्गत्यव्याधयस्तावदासताम्, मन्ये जन्मापि वीरस्य, भूयो भूयस्त्रपाकरम् " ॥१॥ अत एवाह - अनवस्थितस्वभावः संसारः । “अत्र खलु सुख्यप्य सुखी पर्यायतः, सदस्यसत्पर्यायत एव । स्वम इव, सर्वमालमालमास्थाऽभावेनेति । यत एवं तदलमत्र प्रतिबंधेन संसारे, कुरुत ममानुग्रहम्" । कथं ? इत्याह-उद्यच्छतैनं व्यवच्छेत्तुं | संसारं यूयम् । अहमपि युष्माकमनुमत्या साधयाम्येतद्वयवच्छेदनम् । किमिति ? अत आह— निर्विण्णो जन्ममरणाभ्यां संसारागामिभ्याम् । समृद्ध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावेन । एवं शेषाण्यपि भार्यादीनि बोधयेदौचित्योपन्यासेन । ततः सममेभिर्मातापित्रादिभिः सेवेत धर्म चारित्रलक्षणम् । कथं १ इत्याह- निराशंस एव सर्वदा, इहलोकपरलोकाभ्याम् । एतत्परममुनिशासनं वीतरागवचनमित्यर्थः ॥
अबुझमाणे अ, कम्मपरिणईए विहिज्जा, जहासतिं तदुवकरणं आओवायसुद्धं समईए । कण्णुआ खु एसा । करुणा य, धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जिज्ज धम्मं ।
Page #32
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य ॥१४॥
मातापित्रादित, अहाणामम्माराहणं ख
तृतीयस्त्रे दीक्षार्थ मातापितपरित्यागज्ञातम् ॥
अण्णहा, अणुवहे चेव उवहिजुत्ते सिआ। 'धम्माराहणं खु हिअंसव्वसत्ताणं। तहा तहेअंसंपाडिज्जा । सव्वहा अपडिवजमाणे चइज्जा ते, अट्ठाणगिलाणोसहत्थचागनाएणं ॥ ___ अबुध्यमानेषु च मातापित्रादिषु कर्मपरिणत्या हेतुभूतया, विदध्यात् । यथाशक्ति, शक्त्यनुसारेण तदुपकरणमर्थजातादीत्यर्थः। कि ? कारणे कार्योपचारात् । किंभूतं ? इत्याह-आयोपायशुद्धं स्वमत्या । ततोऽन्यसंभूतिरायः, कलान्तरादिरुपायः । किमेतदेवं कुर्यात् ? इत्याह-कृतज्ञतैवैषा वर्तते । करुणा च किविशिष्टेयं ? इत्याह-धर्मप्रधानजननी जने शासनोन्नतिनिमित्तमित्यर्थः। ततोऽनुज्ञातः सन् मातापित्रादिमिरिति प्रक्रमः । प्रतिपद्येत धर्म चारित्रलक्षणम् । अन्यथैवमपि तदनुज्ञाऽभावे । अनुपध एव, भावतः । उपधियुक्तः स्याद्, व्याजवान स्यादित्यर्थः । उक्तञ्च-निर्माय एव भावेन, मायावांस्तु भवेत्वचित् । पश्येत्स्वपरयोर्यत्र सानुबन्धहितोदयम् ॥ ॥ एवं च धर्माराधनमेव हितं सर्वसत्त्वानामिति । तथा तथैव दुःस्वप्नादिकथनेन संपादयेद्धर्माराधनं, सर्वथाप्रतिपद्यमानान् । अमुनाऽपि प्रकारेण त्यजेत्तान् मातापित्रादीन् । अस्थानग्लानौषधार्थत्यागज्ञातेन, ज्ञातमुदाहरणम् । एतदेवाह
से जहा-नामए केइ पुरिसे, कहंचि कंतारगए अम्मापिइसमेए, तप्पडिबढे वच्चिजा । तेसिं तत्थ निअमघाई पुरिसमित्तासज्झे संभवओसहे महायंके सिआ । तत्य से पुरिसे, तप्पडिबंधाओ एवमालोचिअ 'न भवंति एए निअमओ ओसहमंतरेण, ओसहभावे अ संसओ, कालसहाणि अ एआणि' । तहा संठविअ संठविअ तदोसहनिमित्तं सवित्तिनिमित्तं च, चयमाणे साहू । एस चाए अचाए । अचाए चेव चाए। फलमित्य पहाणं बुहाणं, धीरा एअदंसिणो॥
॥१४॥
Page #33
--------------------------------------------------------------------------
________________
तद्यथा-नाम कश्चित्पुरुषो विवक्षितः कथञ्चित्कान्तारगतः सन् मातापितृसमेतः, भार्यापुपलक्षणमेतत्, तत्प्रतिबद्धो व्रजेत् । तयोर्मातापित्रोस्तत्र कान्तारे, नियमघाती पुरुषमात्रासाध्यः संभवदौषधः महातङ्कः स्यात् । आतङ्क सद्योघाती रोगः । तत्रासौ पुरुषः, तत्प्रतिबन्धान्मातापितृप्रतिबन्धेन, एवमालोच्य - न भवत एतौ मातापितरौ नियमत, औषधमन्तरेणौषधं विना । औषधभावे च संशयः, कदाचिद्भवतोऽपि कालसह चैतौ मातापितरौ । तथा तेन वृत्याच्छादनादिना प्रकारेण संस्थाप्य संस्थाप्य तदौषधनिमित्तं, तयोर्मातापि - त्रोरौषधार्थ, स्ववृत्तिनिमितं च आत्मवृत्त्यर्थ च त्यजन् साधुः शोभनः । कथं १ इत्याह- 'एष त्यागो ऽत्यागः, संयोगफलत्वात् । अत्याग एव त्यागो, वियोगफलत्वात् । यदि नामैत्रं, ततः किम् ? इत्याह- 'फलमत्र प्रधानं' बुधानां पण्डितानाम् । धीरा एतद्दर्शिनः, निपुणबुद्ध्या फलदर्शिनः ॥
स ते ओसहसंपायणेण जीवाविना । संभवाओ पुरिसोचिअमेअं । एवं, सुक्कपक्खिए महापुरिसे संसारकंतार पडिए अम्मापिइसंगए धम्मपडिबडे विहरिज्जा । तेसिं तत्थ निअमविणासगे, अपत्तबीजाइपुरिसमित्तासज्झे, संभवंतसम्मत्ताइओसहे, मरणाइविवागे, कम्मायंके सिआ । तत्थ से सुक्कपक्लिए पुरिसे धम्मपबंधाओ, एवं समालोचिअ - विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण । तस्स संपाडणे विभासा | कालसहाणि अ एआणि ववहारओ । तहा संठविअ संठविअ, इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्तं, विसिट्ठगुरुमाइ भावेण सवित्तिनिमित्तं च, किञ्चकरणेण चयमाणे, संजमपडिवत्तीए, साहु
Page #34
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य ॥१५॥
SXXXXXXX**
सिद्धीए, 'एस चाए अचाए' तत्तभावणाओ । 'अचाए चेव चाए' मिच्छाभावणाओ। तत्तफलमित्थ पहाणं | तृतीयसूत्रे परमत्थओ । धीरा एअदंसिणो आसन्नभव्वा ।।
दीक्षार्थ. सः पुरुषः तौ मातापितरौ औषधसंपादनेन जीवयेत् । संभवत्येतदत एवाह-संभवात्पुरुषोचितमेतद्यदुतेत्थं त्याग इति ।
मातापितएष दृष्टान्तोऽयमर्थोपनय इत्याह-एवं शुक्लपाक्षिको महापुरुषः परीत्तसंसार इत्यर्थः । यथोक्तम्-" जस्स अवड्डो पोग्गलपरियट्टो
त्यागोऽसेसओअसंसारो । सो सुक्कपक्खिओ खलु, अहिगे पुण कण्हपख्खीओ"॥१॥ किमयं ? इत्याह-संसारकान्तारपतितः सन् मातापितृसङ्गत उपलक्षणमेतत्, भार्यादीनां धर्मप्रतिबद्धो विहरेत् । तयोर्मातापित्रोस्तत्र संसारकान्तारे नियमविनाशकः, अप्राप्तबीजादि- त्याग एव । पुरुषमात्रासाध्यः, संभवत्सम्यक्त्वाद्यौषधः, मरणादिविपाकः, कर्मातङ्कः स्यात् । क्लिष्टं कर्मेत्यर्थः । तत्रासौ शुक्लपाक्षिकः पुरुषः, धर्मप्रतिबन्धाद्धेतोः, एवं समालोच्य-विनश्यत एतौ मातापितरौ, अवश्यं-सम्यक्त्वाद्यौषधविरहेण सम्यक्त्वाद्यौपधाभावेन । तत्संपादने सम्यक्त्वाद्यौषधसंपादने विभाषा, कदाचिदेतत्संपादयितुं शक्यते, कदाचिन्न, इत्येवंरूपा । कालसहौ चैतौ व्यवहारतः । तथा जीवनसंभवान्निश्चयतस्तु न । यथोक्तम्-आयुषि बहूपसर्गे, वाताहतसलिलबुद्बुदानित्यतरे । उच्छ्वस्य निश्वसिति यः, सुप्तो वा यद्विबुध्यते तच्चित्रम् " ॥१॥ तथा तेन सौहित्यापादनप्रकारेण संस्थाप्य संस्थाप्य, इहलोकचिन्तया तयोर्मातापित्रोः सम्यक्त्वाद्यौषधनिमित्तं, विशिष्टगुर्वादिभावेन धर्मकथादिभावात् । स्ववृत्तिनिमित्तं च, कृत्यकरणेन हेतुना त्यजन्संयमप्रतिपत्त्या, तौ मातापितरौ, साधुधर्मशीलः सिद्धौ सिद्धिविषये। किमित्येतदेवं ? इत्याह-'एष त्यागोऽत्याग'स्तत्त्वभावनातस्तद्धितप्रवृत्तेः । 'अत्याग एव त्यागो' 14 मिथ्याभावनातस्तदहितप्रवृत्तेः। तस्वफलं सानुबन्धमत्र प्रधानं बुधानां परमार्थतः, परमार्थेन । धीरा एतद्दर्शिन आसन्नभव्या, नान्ये ॥
॥१५॥
X*38*83*
Page #35
--------------------------------------------------------------------------
________________
BEBEEXXXBEEEXXXXXXXXXXXX
स ते सम्मत्ताइओसहसंपाडणेण जीवाविजा अचंतिअं, अमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचिअमेअं, दुप्पडिआराणि अ अम्मापिईणि । एस धम्मो सयाणं। भगवं इत्थ नायं, परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगंति । एवमपरोवतावं सव्वहा, सुगुरुसावे पूहत्ता भगवते वअिरागे साह अ, तोसिंऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए, सुविसुद्धनिर्मित्ते, समहिवासिए, विसुज्झमाणो महया पमोएणं, सम्म पव्वइज्जा, लोअधम्महिंतो लोगुत्तरधम्मगमणेण । एसा जिणाणमाणा 'महाकल्लाणत्ति', न विराहिअव्वा बुहेणं, महाणत्यभयाओ सिद्धिकंखिणा ॥
॥ इति पव्वज्जागहणविहिसुत्तं सम्मत्तं ॥ स शुक्लपाक्षिकः पुरुषः तौ मातापितरौ सम्यक्त्वाद्यौषधसंपादनेन जीवयेदात्यन्तिकम् । कथं ? इत्याह-अमरणावन्ध्यबीजयोगेन, चरममरणावन्ध्यकारणसम्यक्त्वादियोगेनेत्यर्थः । संभवत्येतदत एवाह-संभवात्सुपुरुषोचितमेतद् , यदुतैवं तत्त्याग इति । किमिति ? अत आह–दुष्प्रतिकारी, मातापितरौ इति कृत्वा एष धर्मः सतां सत्पुरुषाणां । भगवानत्र ज्ञातं, महावीर एव परिहरन् गर्भाभिग्रहप्रतिपत्त्याऽकुशलानुबन्धिनम् । तथा कर्मपरिणत्या मातापितृशोकं प्रव्रज्याग्रहणोद्भवमिति। उक्तञ्च-"अह सत्तमम्मि मासे, गम्भत्थो चेवभिग्गहं गेण्हे । णाहं समणो होह, अम्मापियरे जियंतम्मि" ॥१॥ प्रस्तुतनिगमनायाह-एवमपरोपतापं सर्वथा सम्यक् प्रव्रजेदिति योगः । विधिशेषमाह-सुगुरुसमीपे, नान्यत्र, पूजयित्वा भगवतो वीतरागान जिनान्, तथा साधून यतीन तोषयित्वा,
Page #36
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्थ
चतुर्थस्त्रे
विमवोचितं कृपणादीन, दुःखितसत्त्वानित्यर्थः । सुप्रयुक्तावश्यकः, समुचितेन नेपथ्यादिना सुविशुद्धनिमित्तः, प्रतियोग सममिवासिता गुरुणा गुरुमन्त्रेण, विशुद्धयमानो महता प्रमोदेन लोकोत्तरेण सम्यग्भाववन्दनादिशुद्धथा प्रव्रजेत् । किमुक्तं भवति ? लोकधर्मेभ्यः सबलेभ्यः लोकोत्तरधर्मगमनेन, प्रकर्षेण व्रजेदित्यर्थः । एषा जिनानामाज्ञा, यदुवं प्रबजितव्यम् । इयं च महाकल्याणेति कृत्वा, न विराधितव्या बुधेन, नान्यथा कर्तव्येत्यर्थः । कस्माद् ! इत्याह-महानर्थभयात् । नाज्ञाविराधनतोऽन्योऽनर्थः । अर्थवत्तदाराधनेति । अत एवाह-सिद्धिकाङ्क्षिणा मुक्त्यर्थिनेति । न खल्वाज्ञाराधनातोऽन्यः सिद्धिपथ इति भावनीयम् । प्रव्रज्याग्रहणविधिसूत्र समाप्तम् । तत्त्वतः प्रव्रज्याग्रहणविध्यर्थसूचकं सूत्रं समाप्तम् ॥
॥ पश्चसूत्रकव्याख्यायां तृतीयसूत्रव्याख्या समाप्ता ॥
प्रव्रज्यापरिपालनविधिः॥
तुर्य प्रव्रज्यापरिपालनासूत्रम् ॥ साम्मतं चतुर्थसूत्रव्याख्याऽऽरभ्यते । अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे साधुधर्मे परिभाविते यत्कर्त्तव्यं तदुक्तम्, तच्च विधिना प्रव्रज्या ग्राह्येत्येतत् । अस्य चर्यामभिधातुमाह
स एवमभिपव्वइए समाणे, सुविहिभावओ किरिआफलेण जुजइ । विसुद्धचरणे महासत्ते न
॥१६॥
Page #37
--------------------------------------------------------------------------
________________
विवनयमेइ। एअअभावेऽभिप्पेअसिडी वायपवित्तीओ । नाविवजत्थोणुवाए पयछ । उवाओ
अ साहगो निअमेण । तस्स तत्तचाओ; अण्णहा अइप्पसंगाओ निच्छयमयमेअं॥ ___ . स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिनाऽभिप्रवजितः सन्, सुविधिभावतः कारणात् क्रियाफलेन युज्यते, सम्यक्रियात्वादधिकृतक्रियायाः । स एव विशेष्यते-विशुद्धचरणो महासत्त्वः, यत एवंभूतः, अतो न विपर्ययमेति मिथ्याज्ञानरूपम् । एतदभावे विपर्ययाभावेऽभिप्रेतसिद्धिः सामान्येनैव । कृतः १ इत्याह-उपायप्रवृत्तेः । इयमेव कुतः ? इत्याह-नाविपर्यस्तोऽनुपाये प्रवर्तते । एवमेवाविपर्यस्तस्याविपर्यस्तता। यदुतोपाये प्रवृत्तिरन्यथा तस्मिन्नेव विपर्ययः । एवमपि किम् ? इत्याह-उपायचोपेयसाधको नियमेन कारण कार्याव्यभिचारीत्यर्थः । अतजननस्वभावस्य तत्कारणत्वायोगादतिप्रसङ्गात् । एतदेवाह-तत्स्वतत्वत्याग एवोपायस्वतत्त्वत्याग एवान्यथा स्वमुपेयमसाधयतः । कुतः ? इत्याह-अतिप्रसङ्गात् । तदसाधकत्वाविशेषेणानुपायस्याप्युपायत्वप्रसङ्गात् । न चैवं व्यवहारोच्छेद आशङ्कनीय इत्याह-निश्चयमतमेतदिति सूक्ष्मबुद्धिगम्यम् ॥
से समलिट्ठकंचणे, समसत्तुमित्ते, निअत्तग्गहदुक्खे, पसमसुहसमेए, सम्मं सिक्खमाइअइ । गुरुकुलवासी, गुरुपडिबडे, विणाए, भूअत्थदरिसी, “न इओ हिअं तत्तंति" मनइ, सुस्सूसाइगुणजुत्ते, 'तत्ताभिनिवेसाविहिपरे। परममंतोत्ति अहिजइ सुतं, बद्धलक्खेः आसंसाविप्पमुक्के, आययट्ठी । स तमवेइ सव्वहा । तओ सम्मं निउजइ । एअं धीराण सासणं । अण्णहा अणिओगो । अविहिगहिअमंत
कारण कार्याव्यभिचार यस्तता। यदुतोपाये प्रवृत्तिरन्यथा तस्मित: । इयमेव कृतः ? इत्याह-नाpिal
Page #38
--------------------------------------------------------------------------
________________
श्रीपंच
चतुर्थरने
सूत्रस्य
गुरुकुल वास
नाएण, अणाराहणाए न किंचि, तदणारंभाओ धुवं । इत्थ० मग्गदेसणाए दुक्खं अवधारणा अप्पडिवत्ती। नेवमहीअमहीअं अवगमविरहेण, न एसा मग्गगामिणो, विराहणा अणत्थमुहा । अस्थहेऊ तस्सारंभाओ धुवं । इत्थ मग्गदेसणाए अणभिनिवेसो । पडिवत्तिमित्तं किरिआरंभो । एवंपि अहीअं 'अहीअं अवगमलेसजोगओ । अयं सबीओ निश्रमेण | मग्गगामिणो खु एसा । अवायबहुलस्स निरवाए जहोदिए सुत्तुत्तकारी हवइ, पवयणमाइसंगए पंचसमिए तिगुत्ते, अणत्यपरे । एअञ्चाए अविअत्तस्स सिसुजणणीचायनाएण | विअत्ते इत्थ केवली, एअफलभूए, सम्ममेअं विआणइ, दुविहाए परिणाए॥
स एव समभिप्रव्रजितः समलोष्टकाञ्चनः सन् सर्वथा समशत्रुमित्रः । एवं निवृत्ताग्रहदुःखः, अतः स प्रशमसुखसमेतः । अधिकारितया सम्यक् शिक्षामादत्ते, ग्रहणासेवनारूपाम् । कथं ? इत्याह-गुरुकुलवासी, तदनिर्गमनेन । गुरुप्रतिबद्धः, तद्बहुमानात् । | विनीतो बाह्यविनयेन । भूतार्थदर्शी तत्त्वार्थदर्शी, न इतो गुरुकुलवासात् हितं, तत्त्वमिति मन्यते वचनानुसारित्वात् । वचनं च–णाणस्स होइ भागी, थिरयरओ ईसणे चरित्ते य । धण्णा आवकहाए, गुरुकुलवासं ण मुंञ्चति " ॥१॥ स खल्वत्र शुश्रूषादिगुणयुक्तः, शुश्रूषा १ श्रवण २ ग्रहण ३ धारणा ४ विज्ञाने ५ हाऽ ६ पोह ७ तत्वाभिनिवेशाः ८ प्रज्ञागुणा इत्येतद्युक्तः। तत्त्वामिनिवेशाद्विधिपरः सन्, कि ? इत्याह-परममन्त्रो रागादिविषघ्नतयेति कृत्वाऽधीते सूत्रं पाठश्रवणाभ्याम् । किविशिष्टः सन् ? इत्याहबद्धलक्षोऽनुष्ठेयं प्रति । आशंसाविप्रमुक्तः इहलोकाधपेक्षया आयतार्थी मोक्षार्थी, अत एव स एवंभूतः तत्सूत्रमवैति । सर्वथा याथा
XXXXXXX
Page #39
--------------------------------------------------------------------------
________________
तथ्येन । ततः किं ? इत्याह-ततोऽवगमात्सम्यग्नियुङक्ते तत्सूत्र; एतद्धीराणां शासन; यदुतैवमधीतं सम्यग्नियुक्तमिति । अन्यथाऽ विध्यध्ययनेनियोगः,नियोगादन्योऽनियोगः, विपर्ययादनियोग इत्यर्थः । अत एवाह–अविधिगृहीतमन्त्रज्ञातेन तत्रापि ग्रहादिभावाद्विपर्ययादयोग एव । अनाराधनायामेकान्तेन प्रवृत्तस्य, न किञ्चिदिष्टमनिष्ट वा फलम् । मोक्षोन्मादादि, सदनुष्ठान हि मोक्षफलमेव । यथोक्तम्-“श्रामण्यस्य फलं मोक्षः, प्रधानमितरत् पुनः । तत्वतोऽफलमेवेह, ज्ञेयं कृषिपलालवत् "॥१॥ भङ्गस्याप्युन्मादायेव । यथोक्तम्-" उम्मादं च लमेजा, रोगातई व पाउणो दीहं । केवलिपण्णताओ धम्माओवावि भंसेज्जा"॥१॥न पुनरसम्यक्त्वमेव, कथमत्रानाराधनायां न किञ्चित् ? इत्याह तदनारम्भतो ध्रुवं, तत्त्वतस्तस्यानारम्भात् । न चान्यस्मिन्नेवोद्भवत्यतिप्रसङ्गात् । इहैव लिङ्गमाह-अत्रानाराधनायां मार्गदेशनायां ताचिकायां दुःखं श्रृण्वतो भवति । उक्तश्च शुद्धदेशना हि 'क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः । तथा अवधीरणा मनाग्लघुतरकर्मणो न दुःखम् । तथा अप्रतिपत्तिस्ततोऽपि लघुतरकर्मणो नावधीरणा । ततः किम् ! इत्याह नैवमनाराधनयाऽधीतम् अधीतं सूत्र' तत्त्वतः । कुतः ? इत्याह-अवगमविरहेण सम्यगवबोधाभावेन । नैषा मार्गगामिन एकान्तमनाराधना भवति । सम्यक्त्वादिभावे सर्वथा सत्क्रियायोगात् । अत एवाह-विराधना प्रक्रमादध्ययनस्य अनर्थमुखा उन्मादादिभावेन । अयं च गुरुतरदोषापेक्षयायहेतुः। पारम्पर्येण मोक्षाङ्गमेवेत्यर्थः । कुत? इत्याह- तस्यारम्भाद् ध्रुवं, मोक्षगमनस्यैवारम्भाव । कण्टकज्वरमोहोपेतमार्गगन्तृवत् । उक्त-"मुनेर्मार्गप्रवृत्तिर्या, सा सदोषाऽपि सैव हि । कण्टकज्वरसमोहयुक्तस्येव सदध्वनि "॥१॥ एतद्भावे लिङ्गमाह-अत्र विराधनायां सत्यां मार्गदेशनायां पारमार्थिकायामनभिनिवेशः श्रृण्वतो
पर
Page #40
--------------------------------------------------------------------------
________________
चतुर्थरचे
श्रीपंचसत्रस्य ॥१८॥
भवति । हेयोपादेयतामधिकृत्य, यथाह–समेषु स्खलनन्धबधिरवन्मुकवच्च रूपादिषु, तथा संमोहादिति । तथा प्रतिपत्तिमात्रं मना
प्रवचनामाविराधकस्य नानभिनिवेशः । तथा क्रियारम्भोऽल्पतरविराधकस्य न प्रतिपत्तिमात्रम् । एवं किम् ? इत्याह-एवमपि विराधनयाs धीतम् अधीतं सूत्रं भावतः । कुतः १ इत्याह-अवगमलेशयोगतः सम्यगवबोधलेशयोगेन । अयं सबीजो नियमेन । विराधका
तत्यागादनसम्यग्दर्शनादियुक्त इत्यर्थः । कुतः ? इत्याह-मार्गगामिन एवैषा विराधना, प्राप्तबीजस्येति भावः। न सामान्येनैव । कि ती
शानिर्देशः॥ पायबहुलस्यानिरुपक्रमक्लिष्टकर्मवतः, निरपायो यथोदितः मार्गगामीति प्रक्रमः । एतदेवाह—सूत्रोक्तकारी भवति, सबीजो मिरपायः प्रवचनमातृसङ्गतः सामान्येन तद्युक्तः । विशेषेणैतदेवाह-पञ्चसमितः, त्रिगुप्तः । ईर्यासमित्याद्याः समितयः पञ्च । मनोगुप्त्याद्याश्च तिस्रो गुप्तय इति । सम्यग्ज्ञानपूर्वकमेवमित्याह-अनर्थपरश्चारित्रप्राणक्षरणेन एतत्यागः प्रवचनमातृस्यागः । सम्यगेतद्विजानातीति योगः । कस्यानर्थपर एतत्यागः १ इत्याह-अव्यक्तस्य भावबालस्य । केनोदाहरणेन ? इत्याह- शिशुजननीत्यागज्ञातेन, शिशो- 1 बालस्य जननीत्यागोदाहरणेन, स हि तत्त्यागाद्विनश्यति । व्यक्तोत्र कः ? इत्याह-व्यक्तोत्र भावचिन्तायां केवली सर्वज्ञः, एतत्फलभूतः प्रवचनमातृफलभूतः, सम्यग्भावपरिणत्या । एतद्विजानात्यनन्तरोदितम् । एतदेवाह-द्विविधया परिक्षया, अपरिक्षया १ प्रत्याख्यानपरिज्ञया २ च । ज्ञपरिज्ञावबोधमात्ररूपा, प्रत्याख्यानपरिज्ञा तद्गर्भक्रियारूपा ॥
तहा आसासपयासदीवं, संदीणाथिराइभेअं, असंदीणथिरत्यमुज्जमइ । जहासत्तिमसंभंते अणूसगे असंसत्तजोगाराहए भवह, उत्तउत्तरजोगसिद्धीए मुखइ पावकम्मुणत्ति । विसुज्झमाणे, आभवं भाव
॥१८॥
Page #41
--------------------------------------------------------------------------
________________
किरिअमाराहेइ । पसमसुहमणुहवइ, अडिए संजमतवकिरिआए, अव्वहिए परीसहोवसग्गेहि, वाहिअसुकिरिआ नाएणं॥
तथा आश्वासप्रकाशद्वीपं दीपं वा सम्यग्विजानातीति वर्त्तते। किविशिष्टम् ? इत्याह-स्पन्दनस्थिरादिभेदम् । इह भवाब्धावाश्वासद्वीपो, मोहान्धकारे दुःखगहने प्रकाशदीपश्च। तत्राद्यः स्पन्दनवानस्पन्दनवांश्च, प्लावनवानप्लावनवांश्चेत्यर्थः । इतरोऽपि स्थिरोऽ स्थिरश्च । अप्रतिपाती, प्रतिपाती चेत्यर्थः । अयं च यथासंख्यं मानुष्ये क्षायोपशमिकक्षायिकचारित्ररूपः, क्षायोपशमिकक्षायिकज्ञानरूपश्च । उभयत्रायोऽनाक्षेपेणेष्टसिद्धये, सप्रत्यपायत्वात् । चरमस्तु सिद्धये, निष्प्रत्यपायत्वात् । सम्यगेतद्विजानाति, न केवलं विजानाति । अस्पन्दनवत् स्थिरार्थमुद्यमं करोति सूत्रनीत्या । कथम् ? इत्याह-यथाशक्ति शक्त्यनुरूपं, असम्भ्रान्तो भ्रान्ति- | रहितः, अनुत्सुक औत्सुक्यरहितः, फलं प्रति । असंसक्तयोगाराधको भवति । निःसपत्नश्रामण्यव्यापारकर्ता, सूत्रानुसारित्वात् । सूत्रश्च-"जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजंतो । अण्णोण्णमवाहतो असवत्तो होइ कायव्वो" ॥१॥ एक्मुत्तरोत्तर- | योगसिद्ध्या, धर्मव्यापारसिद्धयेत्यर्थः । किम् ? इत्याह-मुच्यते पापकर्मणा तत्तद्गणप्रतिबन्धकेनेति । एवं विशुद्ध्यमानः सन्, आभवं आजन्मासंसारं वा, भावक्रियां निर्वाणसाधिकामाराधयति निष्पादयत्यौचित्यारम्भनिर्वहणरूपाम् । तथा प्रशमसुखमनुभवति । ताचिकं कथम् ? इत्याह अपीडितः संयमतपःक्रियया आश्रवनिरोधानशनादिरूपया । तथा अव्यथितः सन्, परीषहोपसगैः क्षुदिव्यादिभिः । कथमेतदेवं ? इति निदर्शनमाह-व्याधितस्य सुक्रियाज्ञातेन, रोगितस्य शोभनक्रियोदाहरणेन । एतदेवाह
Page #42
--------------------------------------------------------------------------
________________
श्रीपंच
सूत्रस्य ॥ १९ ॥
से जहा - नामए केइ महावाहिगहिए अणुअंतव्वेअणे, विण्णाया सरुवेण, निविण्णे तप्त । सुविज्जवयणेण सम्मं तमवगच्छअ, जहाविहाणओ पर्वण्णे सुकिरिअं । निरुद्धजीहज्छाचारे, तुच्छपत्थभाई, मुचमाणे वाहिणा, निअत्तमाणवेअणे, समुवलन्भारोग्गं पवद्रुमाणत भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोवि वाहिंसमारुग्गविष्णाणेण इट्ठनिष्पत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अव्वहिए सुहलेस्साए वढ्ह । विज्जं च बहु मण्णइ ॥
तद्यथा- कश्चित्सभ्वो महाव्याधिगृहीतः कुष्टादिग्रस्त इत्यर्थः । अनुभूततद्वेदनः अनुभृतव्याधिवेदनः । विज्ञाता स्वरूपेण वेदनायाः, न कण्डूगृहीतकण्डूयनका रिवद्विपर्यस्तः । निर्विण्णस्तत्त्वतः, तद्वेदनयेति प्रक्रमः । ततः किम् १ इत्याह- सुवैद्यवचनेन हेतुभूतेन सम्यग - वैपरीत्येन तं व्याधिमवगम्य यथाविधानतो यथाविधानेन देवतापूजादिलक्षणेन, प्रपन्नः सुक्रियां परिपाचनादिरूपां निरुद्धयदृच्छाचारः सन् प्रत्यपायभयात्तथा तुच्छपथ्यभोजी व्याध्यानुगुण्यतः । अनेन प्रकारेण मुच्यमानो व्याधिना खसराद्यपगमेन, निवर्क्समानवेदनः कंडाद्यभावात्, समुपलभ्यारोग्यं सदुपलम्भेन । प्रवर्द्धमानतद्भावः प्रवर्द्धमानारोग्यभावः, तल्लाभनिर्वृत्या आरोग्यलाभ - निर्वृच्या, तत्प्रतिबन्धात् आरोग्यप्रतिबन्धाद्धेतोः, शिराक्षारादियोगेऽपि शिरावेधक्षारपातभावेऽपीत्यर्थः । व्याधिशमारोग्यविज्ञानेन व्याधिशमाद्यदारोग्यं तदवबोधेनेत्यर्थः । किम् इत्याह- इष्टनिष्पत्तेरारोग्यनिष्पत्तेर्हेतेारना कुलभावतया निबन्धनाभावात् । तथा क्रियोपयोगेन इतिकर्तव्यतायां बोधेन हेतुना अपीडितः अव्यथितो निवातस्थानासनोषधपानादिना । किम् ? इत्याह- शुभले
चतुर्थ
गुरुमा निदृष्टांत
दर्शनम् ।
॥ १९ ॥
Page #43
--------------------------------------------------------------------------
________________
श्यया प्रशस्तभावरूपया वर्द्धते वृद्धिमाप्नोति । तथा वैद्यं च बहु मन्यते, 'महाऽपाय निवृत्तिहेतुरयं ममेति सम्यग् ज्ञानात् । एष तोऽयमर्थोपनयः ||
एवं कम्मवाद्दिगहिए, अणुभूअजम्माइवेअणे, विष्णाया दुक्खरुवेणं, निव्विण्णे तत्तओ । तओ गुरुवयणेण अणुट्ठाणाइणा तमवगच्छिंअ, पुव्वत्तविहाणओ पवन्ने सुकिरिअं पव्वज्जं निरुद्धपमायाधारे, असारसुद्धभोई, मुचमाणे कम्मवाहिणा, निअन्तमाणिबिओगाइवेअणे, समुवलभ चरणारुग्गं, पवढमाणसुभावे, तल्लाभनिव्वुईए तप्पडिबंधविसेसओ, परीसहोवसग्गभावेवि तत्तसंवेअणाओ, कुसलासवुट्टी थिरासयन्तेण, धम्मोवओगाओ सया थिमिए, तेल्लेसाए पचगृह । गुरुं च बहु मन्नह । जहोचिअं असंगपडिवती निसगपवित्तिभावेण । एसा गुरुई विआहिओ भावसारा, विसेसओ भगवंतबहुमणणं । 'जो मैं पडिमन्नह से गुरुंन्ति ' तदाणा । अन्नहा, किरिआ अकिरिओ, कुलडानारीकिरिआसमा । गरहिआ तत्तवेईणं, अफलजोमओ, विसण्णतत्ती फलमित्य नायं, आवहे खु तप्फलं, असुहाणुबंधे ॥
एवं कर्मव्याधिगृहीतः प्राणी । किंविशिष्टः १ इत्याह- अनुभूतजन्मादिवेदनः । आदिशब्दाज्जरामरणादिग्रहः । विज्ञाता दुःखरूपेण जन्मादिवेदनायाः, न तु तत्रैवाऽऽसक्त्याविपर्यस्त इति । ततः किम् १ इत्याह- निर्विण्णस्तत्त्वतः । ततो जन्मादिवेदनायाः । किम् ? इत्याह – सुगुरुवचनेन हेतुनाऽनुष्ठानादिना तमवगम्य सुगुरुं कर्मव्याधि च पूर्वोक्तविधानतस्तृतीयसूत्रोक्तेन विधाने
Page #44
--------------------------------------------------------------------------
________________
चतुर्थसत्रे
श्रीपंचसूत्रस्य ॥२०॥
गुरुबहुमानादेव क्रियाफलम् ॥
प्रपन्नः सन्, सुक्रियां प्रव्रज्यां, निरुद्धप्रमादाचारो यदृच्छया, असारशुद्धभोजी संयमानुगुण्येन, अनेन विधिना मुच्यमानः कर्मव्याधिना, निवर्तमानेष्टवियोगादिवेदनस्तथा मोहनिवृत्या । किम् ? इत्याह-समुपलभ्य चरणारोग्यं सदुपलम्भेन, प्रवर्द्धमानशुभभावः प्रवर्द्धमानचरणारोग्यभावः । बहुतरकर्मव्याधिविकारनिवृत्त्या तल्लाभनिवृत्या, तत्प्रतिवन्धविशेषात् चरणारोग्यप्रतिबन्धविशेषात्, स्वाभाषिकात कारणात् परीषहोपसर्गभावेऽपि क्षुद्दिव्यादिव्यसनभावेऽपि तत्वसंवेदनात्सम्यग्ज्ञानाद्धेतोः। तथा कुशलाशयवृद्धया क्षायोपशमिकभाववृद्ध्या, स्थिराशयत्वेन चित्तस्थैर्येण हेतुना । तथा धर्मोपयोगादिति कर्तव्यताबोधात कारणात्, सदा स्तिमितः भावद्वन्द्वविरहात प्रशान्तः । किम् ? इत्याह-तेजोलेश्यया शुभप्रभावरूपया वर्द्धते वृद्धिमनुभवति, गुरुं च बहु मन्यते भाववैद्यकल्पम् । कथं ? इत्याह-यथोचितमौचित्येन, असङ्गप्रतिपच्या स्नेहरहिततद्भावप्रतिपत्त्या । किमस्या उपन्यासः ? इत्याह-निसर्गप्रवृत्तिभावेन सांसिद्विकप्रवृत्तित्वेन हेतुना, एषाऽसङ्गप्रतिपत्ति वर्वी व्याख्याता भगवद्भिः । किमिति ? अन आह-भावसारा तथौदयिकभावविरहेण विशेषतः असङ्गप्रतिपत्तेः । इहैव युक्त्यन्तरमाह-भगवद्बहुमानेन अचिन्त्यचिन्तामणिकल्पतीर्थकरप्रतिबन्धेन । कथमयं ? इत्याह'यो मां प्रतिमन्यते भावतःस गुरु' मित्येवं तदात्रा भगवदाजा, इत्यं तचं व्यवस्थितम् । अन्यथा गुरुबहुमानव्यतिरेकेग क्रियाऽप्यक्रिया प्रत्युपेक्षगादिरूपा, अक्रिया सक्रियातोऽन्या । किविशिष्टा? इत्याह-कुलटानारीक्रियासमा दुःशीलवनितोपवासक्रियातुल्या । ततः किम् ? इत्याह-गर्हिता तत्ववेदिनां विदुषाम् । कस्मात् ? इत्याह-अफलयोगतः । इष्टफलादन्यदफलं, मोक्षात्सांसारिकमित्यर्थः । तद्योगात् ए तदेव स्पष्टयन्नाह-विषानतृप्तिफलमत्र ज्ञातमल्पं विपाकदारुणं, विराधनासेवनात् । एतदेवाह-आवर्त एव
॥२०॥
Page #45
--------------------------------------------------------------------------
________________
तत्फलम्, आवर्त्तन्ते प्राणिनोऽस्मिन्नित्यावर्त्तः संसारः, स एव तत्त्वतः तत्फलं विराधनाविषजन्यम् । किंविशिष्ट आवर्त्तः १ इत्याहअशुभानुबन्धः, तथा तथा विराधनोत्कर्षेण । एवं सफलं गुर्वबहुमानमभिधाय तद्बहुमानमाह -
आयओ गुरुवहुमाणो अवझकारणत्तेण । अओ परमगुरुसंजोगो । तओ सिडी असंसयं । एसेह सुहोदर, पट्टितयणुबंधे भववाहितेगिच्छी । न इओ सुंदरं परं । उवमा इत्थ न विज्जई । स एवं पण्णे, एवं भावे, एवं परिणामे, अप्पडिवाडए, वद्रुमाणे तेउल्लेसाए, 'दुवालसमासिएणं परिआएणं अहकमह सव्वदेवतेल्लेसं,' एवमाह महामुनी । तओ सुक्के सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे, स्ववइ लोगसण्णं । पडिसोअगामी, अणुसोअनिवित्ते, सया सुहजोगे, एस 'जोगी' विभाहिए। एस आराहगे सामण्णस्स, जहा गहिअपहण्णे, सव्वोवहासुडे, संघइ सुडगं भवं, सम्मं अभवसाहगं, भोगकिरिआ सुरूवाइकष्पं । तओ ता संपुण्णा पाउणह अविगलहेउभावओ, असंकिलिट्ठसु हरूवाओ, अपरोवताविणो, सुंदरा अणुबंधेणं, न य अण्णा संपुण्णा ॥
आयतो गुरुबहुमानः साद्यपर्यवसितत्वेन, दीर्घत्वादायतो मोक्षः स गुरुबहुमानः, गुरुभावप्रतिबन्ध एव मोक्ष इत्यर्थः । कथम् ? इत्याह-अवन्ध्यकारणत्वेन मोक्षं प्रत्यप्रतिबद्धसामर्थ्यहेतुत्वेन । एतदेवाह - अतः परमगुरुसंयोगः, अतो गुरुबहुमानात्तीर्थकरसंयोगः । ततः संयोगादुचिततत्सम्बन्धत्वात् सिद्धिरसंशयं मुक्तिरेकान्तेन । यतश्चैवमतः एषोऽत्र शुभोदयो गुरुबहुमानः कारणे कार्योपचारात्
Page #46
--------------------------------------------------------------------------
________________
श्रीपंचसत्रस्य ॥२१॥
चतुर्थसूत्रे श्रामण्यपर्यायतश्चिचसुखलाभोपमा ।
यथाऽऽयुघृतमिति । अयमेव विशेष्यते-प्रकृष्टतदनुबन्धः प्रधानशुभोदयानुबन्धः, तथातथाराधनोत्कर्षेण । तथा भवव्याधिचिकित्सकः गुरुबहुमान एव हेतुफलभावात् । न इतः सुन्दरं परं, गुरुबहुमानात् । उपमात्र न विद्यते; गुरुबहुमाने सुन्दरत्वेन भगवद्वहुमानादित्यभिप्रायः । स एवं प्रज्ञः स तावदधिकृतप्रवजितः, एवं प्रज्ञो विमलविवेकात, एवं भावः विवेकाभावेऽपि प्रकृत्या । एवं परिणामः सामान्येन गुर्वभावेऽपि क्षयोपशमान्माषतुषवत् । यथोक्तम्-विवेकशुभभावपरिणामा वचनगुरुतदभावेषु यमिनामिति । एवमप्रतिपतितः सन् वर्द्धमानस्तेजोलेश्यया नियोगतः, शुभप्रभावरूपया । किम् ? इत्याह-द्वादशमासिकेन पर्यायेण एतावत्कालमानया प्रव्रज्ययेत्यर्थः । अतिक्रामति सर्वदेवतेजोलेश्यां सामान्येन शुभप्रभावरूपाम् । क एवमाह ? महामुनिर्भगवान महावीरः । तथा चागमः"जे इमे अज्जताए समणा णिग्गंथाएते ण कस्स तेउलेसं वीइवयइ ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेस वीइवयइ । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीइवयइ । चउमासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूवाणं जोइसियाण तेउलेस वीइवयइ । पंचमासपरियाए समणे णिग्गंथे चैदिमसूरियाणं जोतिसिंदाणं तेउलेर्स वीइवयइ । छम्मासपरियाए | समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेस वीइवयइ । सत्तमासपरियाए समणे णिग्गंथे सणकुमारमाहिंदाणं देवाणं तेउलेसं वीहवयइ । अहमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेसं वीइवयइ । णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणे तेउलेस वीइक्यइ । दसमासपरियाए समणे णिग्गंथे आणय-पाणय-आरणा-च्चुयाणं देवाणं तेउलेस्सं
॥२१॥
Page #47
--------------------------------------------------------------------------
________________
EXXXXXXXXXXXXXXXXXXXXXX
वीइवयइ । इक्कारसमासपरियाए समणे गेविज्जाणं देवाणं तेउलेस्सं वीइवयइ । बारसमासपरियाए अणुत्तरोववाइयाणं तेउलेस्स | वीइवयइ । तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झइ, जाव अंतं करेति " ॥ अत्र तेजोलेश्या चित्तसुखलाभलक्षणा । अत एवाह-ततः शुक्लशुक्लाभिजात्यो भवति । तत्र शुक्लो नाम भिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लाभिजात्यचैतत्प्रधानः प्रायश्छिन्नकर्मानुबन्धः । न तदयंस्तथाविधमन्यद्वध्नाति । प्रायोग्रहणमचिन्त्यत्वात्कर्मशक्तेः कदाचिनात्यपि । स एवंभृतः क्षपयति लोकसंज्ञां भगवद्वचनप्रतिकूला,प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपामिति । अत एवाह-प्रतिस्रोतोगामी लोकाचारप्रवाहनदीं प्रति । अनुस्रोतो निर्वृत्तः । एनामेवाधिकृत्यैतदभ्यासत एवं न्याय्यं चैतत् । यथोक्तम्-" अणुसोयपट्टिए बहुजणंमि पडिसोओ लद्धलक्खेण पडिसोयमेव अप्पा दायव्वो होउकामेणं । अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं अणुसोओ संसारो पडिसोओ तस्स णिप्फेण गा एवं सदा शुभयोगः श्रामण्यव्यापारसङ्गतः, एष 'योगी' व्याख्यातः । एवंभूतो भगवद्भियोगी| प्रतिपादितः। यथोक्तम्-" सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते, एतद्योगाद्धि योगी स्यात, परमब्रह्मसाधकः॥१॥ एष एवंभूत आराधकः श्रामण्यस्य, निष्पादकः श्रमणभावस्य । यथा गृहीतप्रतिज्ञः, आदित आरम्य सम्यक्प्रवृत्तेः । एवं सर्वोपधाशुद्धो, निरतिचारत्वेन । किम् ? इत्याह-संधत्ते घटयति, शुद्धं भवं जन्मविशेषलक्षणं भवैरेव । अयमेव विशेष्यते-सम्यगभवसाधकं, सत्क्रियाकरणेन, मोक्षसाधकमित्यर्थः । निदर्शनमाह-भोगक्रियाः सुरूपादिकल्प, न रूपादिविकलस्यैताः सम्यय भवन्ति । यथोक्तम्-रूपवयोवैचक्षण्यसौभाग्यमाधुर्यैश्वर्याणि भोगसाधनमिति । ततस्ताः संपूर्णाः प्रामोति सुरूपादिकल्पाद्भवादोगक्रिया इत्यर्थः । कुतः ?
Page #48
--------------------------------------------------------------------------
________________
श्रीपंच
चतुर्थस्त्रे
सूत्रस्य ॥ २२॥
प्रव्रज्यापालनात फलम् ॥
आ। तहा सुहाणुबंधा, उत्तरास्ट्रिावण । कत्तिविरिआइजमखिकरे हवा
इत्याह-अविकलहेतुभावतः कारणादिति । किविशिष्टाः ? इत्याह-असंक्लिष्टसुखरूपाः, शून्यताऽभावेन संक्लेशाभावात् । तथा अपरोपतापिन्यो वैचक्षण्यादिभावेन तथा सुन्दरा अनुबन्धेनाऽत एव हेतोः । न चान्याः संपूर्णाः, उक्तलक्षणाभ्यो भोगक्रियाभ्यः । कुतः ? इत्याह
तत्तत्तखंडणेणं एअं'नाणंति' वुच्चइ । एअंमि सुहजोगसिद्धी, उचिअपडिवत्तिपहाणा । इत्थ भावो पवत्तगो। पायं विग्यो न विजइ, निरणुबंधासुहकम्मभावेण । अक्खित्ताओ इमे जोगा भावाराहणाओ। तहा तओ सम्मं पवत्तह, निकायह अणाउले । एवं किरिआ 'सुकिरिआ,' एगंतनिक्कलंका निकलकत्थसाहिआ। तहा सुहाणुबंधा, उत्तरुत्तरजोगसिद्धीए । तओ से साहइ परं परत्यं सम्म । तकुसले सया तेहिं तेहिं पगारेहिं, साणुबंधं महोदए बीजबीजादिट्ठावणेणं । कत्तिविरिआइजुत्ते, अवंझसुहचिठे, समंतभद्दे, सुप्पणिहाणाइहेउ, मोहतिमिरदीवे, रागामयविजे, दोसानल-जलनिही, संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे । स एवं परंपरत्थसाहए, तहा करुणाइभावओ, अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा; पवढमाणे अ सुहभावेहिं, अणेगभविआए आराहणाए पाऊणइ सव्वुत्तमं भवं, चरमं अचरमभवहेलं, अविगलपरंपरत्यानिमित्तं । तत्य काऊण निरवसेसं किच्चं, विहूअरयमले सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ॥
॥ इति पव्वजापरिपालणासुत्तं सम्मत्तं ॥
॥२२॥
Page #49
--------------------------------------------------------------------------
________________
LSESS3333552
तत्तत्त्वखण्डनेन संक्लेशादिभ्यः उभयलोकापेक्षया, भोगक्रियास्वरूपखण्डनेनेति भावः । एतद् ज्ञानमित्युच्यते । यदेवमिष्टवस्तुतत्त्वनिरूपकम् । एतस्मिन् शुभयोगसिद्धिः। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः, लोकद्वये पीष्टप्रवृत्तौ। किविशिष्टा ? इत्याहउचितप्रतिपत्तिप्रधाना संज्ञानालोचनेन, तत्तदनुबन्धेक्षणात् । न ज्ञस्तदारभते यद्विनाशयति । अत एवाह-अत्र भावः प्रवर्तकः प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणो न मोह इति । अत एवाह-पायो विनो न विद्यते । अत्राधिकृतप्रवृत्ती, सदुपाययोगादित्यर्थः। एतद्वीजमेवाह-निरनुबन्धाशुभकर्मभावेन नानीदृश इत्थं प्रवर्त्तते, इति हृदयम् । सानुबन्धाशुभकर्मणः सम्यक् प्रवज्यायोगात् । आक्षिप्ताः स्वीकृता एवैते योगाः सुप्रव्रज्याव्यापाराः । कुतः ? इत्याह-भावाराधनातः। तथा जन्मान्तरे तद्बहुमानादिप्रकारेण । ततः किम् ? | इत्याह-आक्षेपात्सम्यक् प्रवर्तते, नियमनिष्पादकत्वेन । ततः किम् ? इत्याह-निष्पादयत्यनाकुलः सन् इष्टम् । एवमुक्तेन प्रकारेण क्रिया सुक्रिया भवति । सम्यगज्ञानादौचित्यारब्धेत्यर्थः । इयमेव विशेष्यते-एकान्तनिष्कलङ्का, निरतिचारतया । निष्कलङ्कार्थसाधिका, मोक्षसाधिकेत्यर्थः । यतस्तथा शुभानुबन्धा, अव्यवच्छेदेनोत्तरोत्तरयोगसिद्ध्या, ततः शुभानुबन्धायाः सुक्रियायाः सकाशात स प्रस्तुतः प्रबजितः साधयति निष्पादयति, परं प्रधान, परार्थ सत्यार्थ, सम्यगविपरीतम् । तत्कुशलः परार्थसाधनकुशलः, सदा सर्वकालम् । कथम् ? इत्याह-तैस्तैः प्रकारैबीजबीजन्यासादिभिः सानुबन्धं परार्थ, महोदयोऽसौ परपरार्थसाधनात् । एतदेवाह-बीजबीजादिस्थापनेन, बीजं सम्यक्त्वं, बीजबीजं तदाक्षेपकशासनप्रशंसादि, एतन्न्यासेन । किंविशिष्टोऽयम् ? इत्याह-कर्तृवीर्यादियुक्तः परं परार्थ प्रति । अवन्ध्यशुभचेष्टः, एतमेव प्रति । समन्तभद्रः, सर्वाकारसंपन्नतया । सुप्रणिधानादिहेतुः, क्वचिदप्यन्यूनतया । मोह
Page #50
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य ॥ २३ ॥
तिमिर दीपस्तदपनयन स्वभावतया । रागामयवैद्यस्तच्चिकित्सासमर्थयोगेन । द्वेषानलजलनिधिस्तद्विध्यापनशक्तिभावात् । संवेगसिद्धिकरो भवति, तद्धेतुयोगेन । अचिन्त्यचिन्तामणिकल्पः, सत्त्वसुखहेतुतया । सोऽधिकृतः प्रव्रजितः । एवमुक्तनीत्या परपरार्थसाधकः, धर्मदानेन । कुतो हेतोः १ इत्याह- तथा करुणादिभावतः, प्रधानभव्यतया । किम् ? इत्याह- अनेकैर्मवैर्जन्मभिर्विमुच्यमानः पापकर्मणा, ज्ञानावरणीयादिलक्षणेन । प्रवर्द्धमानश्च शुभभावैः संवेगादिभिः अनेकभविकयाऽऽराघनया पारमार्थिकया प्राप्नोति सर्वोत्तमं भवं तीर्थकरादिजन्म । किविशिष्टम् १ इत्याह-चरमं पश्चिममचरमभवहेतुं, मोक्षहेतुमित्यर्थः । अविकलपरपरार्थनिमित्तं, अनुत्तरपुण्यसम्भारभावेन, तत्र कृत्वा निरवशेषं कृत्यं, यदुचित्तं महासत्त्वानां विधूतरजोमलः बध्यमानप्राग्बद्धकर्मरहितो व्यवहारतः सिद्ध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोतीति । अत्र सिध्यति सामान्येनाणिमाद्यैश्वर्य प्राप्नोति । बुध्यते केवली भवति । मुच्यते भवोपग्राहिकर्मणा । परिनिर्वाति सर्वतः कर्मविगमेन । किमुक्तं भवति ? सर्वदुःखानामन्तं करोति, सदा पुनर्भवाभावात् । यद्वा सिध्यति सर्वकार्यपरिसमाप्त्या । बुध्यते तत्रापि केवलाप्रतिघातेन । मुच्यते निरवशेषकर्मणा । परिनिर्वाति समग्र - खाप्त्या । एवं सर्वदुःखानामन्तं करोतीति निगमनम् । नयान्तरमतव्यवच्छेदार्थमेतदेवम् । इति प्रव्रज्यापरिपालनासूत्रं समाप्तम् । तस्वतः प्रव्रज्यापरिपालनासूत्रं समाप्तम् ।। इति पञ्चसूत्रक व्याख्यायां चतुर्थसूत्रव्याख्या समाप्ता ।
चतुर्थ सूत्रे
प्रव्रज्या
प्तितो तीर्थकरत्वाप्तिः ।।
॥ २३ ॥
Page #51
--------------------------------------------------------------------------
________________
पञ्चमं प्रव्रज्याफलसूत्रम् ॥
इदानीं पश्मसूत्रव्याख्या प्रक्रम्यते - अस्य चायमभिसम्बन्धः । इहानन्तरसूत्रे प्रव्रजितस्य चर्योक्ता । इह तु परं तत्फलमभिधातुमाह
स एवमभिसि परमचंभे मंगलालए जंम्मजरामरणरहिए पहणाऽसुहे अणुबंधसत्तिवज्जिए संपत्तनिअसरूवे अकिरिए सहावसंठिए अनंतनाणे अनंतदंसणे ॥
स प्रक्रान्तः प्रव्रज्याकारी, एवमुक्तेन सुखपरम्पराप्रकारेणाभिषिद्धः सन् । किंभूत इत्याह - परमब्रह्म, सदाशिवत्वेन । मङ्गलालयः, गुणोत्कर्षयोगेन । जन्मजरामरणरहितो निमित्ताभावेन । यथोक्तम्- “ दग्धे बीजे मथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः " ॥१॥ इति । प्रक्षीणाशुभः एकान्तेन, अनुबन्धशक्तिवर्जितः अशुभमङ्गीकृत्यान्त एव संप्राप्तनिजस्वरूपः केवलो जीवः अक्रियो गमनादिशून्यः, स्वभावसंस्थितः सांसिद्धिकधर्मवान् । अत एवाह- अनन्तज्ञानोऽनन्तदर्शनः ज्ञेयानन्तत्वात् । स्वभावश्चास्यायमेव । यथोक्तम्- “ स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकायचं विज्ञानं, तदावरणमभवत् ॥१॥ अथ की शोsit वर्णरूपाभ्याम् ? इत्याशङ्कापोहायाह -
से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता अणित्यंत्यसंठाणा, अनंतविरिआ,
Page #52
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्य ॥२४॥
पञ्चमः प्रव्रज्याफलम् ।
कयकिचा, सव्ववाहाविवजिआ, सव्वहा निरविक्खा, थिमिआ, पसंता। असंजोगिए एसाणंदे, अओ चेव परे मए । अविक्खा अणाणंदे, 'संजोगो विओगकारणं,' अफलं फलमेआओ, विणिवायपरं खु तं, बहुमय मोहाओ अबुहाणं, जमित्तो विवजओ, तओ अणत्या अपज्जवसिआ, एस भावरिऊ परे । अओ वुत्ते उ भगवया । नागासेण जोगो एअस्स । से सख्वसंठिए । नागासमण्णत्थ । न सत्ता सदंतरमुवेइ । अचिंतमंअं केवलिगम्मं तत्तं, निच्छयमय। 'विजोगवं च जोगोत्ति, 'न एस जोगो, भिण्णं लक्खणमेअस्स । न इत्याविक्खा, सहावो खु एसो, अणंतसुहसहावकप्पो । उवमा इत्थ न विजइ । तब्भावेऽणुभावो, परं तस्सेव । 'आणा एसा' जिणाणं सव्वण्णूणं, अवितहा एगंतओ । न वितहत्ते निमित्तं । न चानिमितं कजंति । निदंसणमित्तं तु नवरं । ___स सिद्धः न शब्दो, न रूपं, न गंधो, न रसो, न स्पर्शः, पुद्गलधर्मत्वादमीषाम् । अभावस्तहीत्येतदपि नेत्याह-अरूपिणी सत्ता ज्ञानवत् । अनित्यंस्थसंस्थाना, इदंप्रकारमापन्नमित्थं, इत्थंस्थितमित्थंस्थं, न इत्थस्थं अनित्थंस्थम्, संस्थानं यस्य । अरूपिण्याः सत्तायाः सा यथोक्ता । अनन्तवीर्या इयं सत्ता प्रकृत्यैव । तथा कृतकृत्या तनिष्पादनेन निवृत्ततच्छक्तिः, सर्वबाधावि- । वर्जिता द्रव्यतो भावतश्च । सर्वथा निरपेक्षा, तच्छक्त्यपगमेन । अत एव स्तिमिता प्रशान्ता सुखप्रकर्षादनुकूला निस्तरङ्गमहोदधिकल्पा । एतस्या एव परमसुखत्वमभिधातुमाह-असांयोगिक एष आनन्दः, सुखविशेषः । अत एव निरपेक्षत्वात् परो मतः प्रधानः,
॥२४॥
Page #53
--------------------------------------------------------------------------
________________
इष्टः । इहैव व्यतिरेकमाह — अपेक्षा नानन्दः, औत्सुक्यदुःखत्वात् । अपेक्ष्यमाणाया तनिवृत्तौ दोषमाह - 'संयोगो वियोगकारणं,' तदवसानतया स्वभावात् । एतस्मात् संयोगात् फलमफलम् । किमिति ? अत आह— विनिपातपरमेव तत्सांयोगिकफलम् । कथमिदं बहुमतम् ? इत्याह — बहुमतं मोहादबुधानां पृथग्जनानाम् । तत्रापि निबन्धनमाह - यदतो विपर्ययः, मोहादत एवाफले फलबुद्धिः । ततो विपर्ययादनर्था असत्प्रवृत्या पर्यवसिताः सानुबन्धतया । एवमेष भावरिपुः परो मोहः, अत एवोक्तो भगवता तीर्थकरेण । यथोक्तम् — “अण्णाणतो रिपू अण्णो, पाणिणं णेत्र विज्जइ । एत्तोऽसक्किरिया तीए, अणत्था विस्सतो सुहा " ॥१॥ यदि संयोगो दुष्टः कथं सिद्धस्याकाशेन न स दुष्टः १ इत्याशङ्कयाह - नाकाशेन सह योग एतस्य सिद्धस्य । किमिति १ अत आह—त स्वरूपसंस्थितः सिद्धः । कथमाधारमन्तरेण स्थितिः १ इत्याशङ्कयाह – नाकाशमन्यत्राधारे । अत्रैव युक्तिः, 'न सत्ता सदन्तरमुपैति न वाऽन्यथाऽन्यदन्यत्र ' । अचिन्त्यमेतत्प्रस्तुतं केवलिंगम्यं तच्चम् । तथा निश्चयमतमेतद्व्यवहारमतं त्वन्यथा सत्यपि तस्मिन्निदं तत्संयोगशक्तिक्षयात्सूपपन्नमेव ' | अभ्युच्चयमाह – 'वियोगवांश्च योग' इति कृत्वा, नैष योगः सिद्धाकाशयोरिति भिन्न लक्षणमेतस्याधिकृतयोगस्य, न चात्रापेक्षा सिद्धस्य । कथं लोकान्ताकाशगमनम् १ इत्याह — स्वभाव एवैष तस्य । अनन्तसुखस्वभावकल्पः कर्मक्षयव्यङ्ग्यः । कीदृशमस्यानन्तं सुखम् १ इत्याह-उपमात्र न विद्यते, सिद्धसुखे । यथोक्तम् — “ स्वयं वेद्यं हि तद्ब्रम, कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यक् जात्यन्धवद्धटम् " || १॥ अत एवाह —तद्भावे सिद्धसुखभावे अनुभवः परं तस्यैव । एतदपि कथं ज्ञायते १ इत्याह- आज्ञा एषा जिनानां वचनमित्यर्थः । किंविशिष्टानाम् १ इत्याह — सर्वज्ञानाम् ।
+
Page #54
--------------------------------------------------------------------------
________________
श्रीपंचसूत्रस्थ
॥ २५ ॥
अत एव अवितथा, एकान्ततः सत्येत्यर्थः । कुतः १ इत्याह--न वितथत्वे निमित्तं रागाद्यभावात् । उक्तञ्च - " रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते नृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं नास्ति ॥ १॥ " न चानिमित्तं कार्यमित्यपि । तथा जिनाज्ञा । एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः । निदर्शनमात्रं तु नवरं सिद्धसुखस्येदं वक्ष्यमाणलक्षणम् ॥
सव्वसत्तुक्खए, सव्ववैाहिविगमे, सव्वथ्यसंजोगेणं, सव्विच्छासंपत्तीए, जारिसमेअं । इत्तोणंतगुणं, तं तु भावसत्सुक्खयादितो । रागादओ भावसत्तू, कम्मोदया वहिणो, परमलडीओ उ अठ्ठा, अणिच्छेच्छा इच्छा । एवं सुहुममेअं, न तत्तओ इयरेण गम्मइ । ' जइसुहं व अजइणा' । ' आरुग्गसोहं व रोगिणन्ति ' विभासा । अचितमेअं सरूवेणं । साइ- अपज्जवसिअं, एगसिद्धाविक्खाए । पवाइओ अणाई । तेवि भगवंतो एवं । तहाभव्वन्ताइभावओ । विचित्तमेअं तहाफलभेएण । नाविचित्ते, सहकारिभेओ तदविक्खो तओत्ति, अणेगंतवाओ तत्तवाओ। स खलु एवं इहरहेगंतो मिच्छत्तमेसो, न इत्तो ववत्था । अणारिहमेअं । संसारिणो उ सिद्धत्तं । नाबद्धस्स मुत्ती सद्दत्थरहिआ । अणाइमं बंधी पवाहेणं, कालो । अबध्धबंधणे वा मुक्ती पुणोबंधपसंगओ, अविसेसो अबध्धमुक्काणं । 1 अणाइ जोगेवि विओगो' कंचणोवलनाएणं न दिदिक्खां अकरणस्स । न यादिठ्ठमि एसा । न सहजाए निवित्ती । न निवित्तीय आयठ्ठाणं ॥
पञ्चमसूत्रे
अनादि
योगेऽपि
वियोग
सिद्धि: ।
।। २५ ।।
Page #55
--------------------------------------------------------------------------
________________
सर्वशत्रुक्षये सति तथा सर्वव्याधिविगमे, एवं सर्वार्थसंयोगेन सता तथा सर्वेच्छासंप्राप्त्या यादृशमेतत्सुखं भवति, अतोऽनन्तगुणमेव सिद्धसुखम् । कुतः इत्याह- भावशत्रुक्षयादितः । आदिशब्दाद्भावव्याधिविगमादयो गृह्यन्ते । तथा चाह - रागादयो भावशत्रवः, रागद्वेषमोहाः, जीवापकारित्वात् । कर्मोदया व्याधयः, तथाजीवपीडनात् । परमलब्धयस्त्वर्थाः परार्थहेतुत्वेन । अनिच्छेच्छा इच्छा सर्वथा तनिवृत्त्या । एवं सूक्ष्ममेतत्सुखं न तत्त्वतः परमार्थेन इतरेण गम्यते । असिद्धेन निदर्शनमाह-यतिसुखमिवायतिना विशिष्टक्षायोपशमिकभाववेद्यत्वादस्य, एवमारोग्यसुखमिव रोगिणेति । उक्तञ्च - " रागाईणमभावे, जं होइ सुहं तयं जिणो मुणइ | ण हि सष्णिवायमहिओ, जाणइ तदभावजं सोक्खं ॥१॥ इति विभाषा कर्त्तव्या । सर्वथाऽचिन्त्यमेतत्स्वरूपेण सिद्धसुखं तत्त्वतो मतेरविषयत्वात् । साद्यपर्यवसितं प्रमाणतः एकसिध्धापेक्षया न तु तत्प्रवाहमधिकृत्य, प्रवाहतस्त्वनादि तदोघमाश्रित्य । तथा चाह - तेऽपि भगवन्तः सिद्धा एव एक सिद्धापेक्षया साद्यपर्यवसिताः, प्रवाहापेक्षया अनाद्यपर्यवसिता इति । समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह- तथाभव्यत्वादिभावात् तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रमेतत्तथाभव्यत्वादि । कुतः १ इत्याह- तथाफलभेदेन कालादिभेदभाविफलभेदेनेत्यर्थः । समाने भव्यत्वे सहकारिभेदात्फलभेद इत्याशङ्काऽपोहायाह —–नाविचित्रे तथाभव्यत्वादौ सहकारिमेदः । किमिति १ इत्याह- तदपेक्षस्तक इति तदतत्स्वभावत्वे तदुपनिपाताभावादिति । अनेकान्तवादस्तववादः सर्वकारणसामर्थ्यापादनात् स खल्वनेकान्तवाद एवं । तथाभव्यत्वादिभावे इतरथैकान्तः सर्वथा भव्यत्वादेस्तुल्यताम् । ततः किम् ? इत्याह-- मिथ्यात्वमेष एकान्तः । कुतः १ इत्याह- नातो व्यवस्था एकान्तात् भव्यत्वाऽभेदे सहकारिभेदस्यायोगात् ।
Page #56
--------------------------------------------------------------------------
________________
श्रीपंच
सूत्रस्य ॥ २६ ॥
तत्कर्माभावात् कर्मणोऽपि कारकत्वात् । अवत्स्वभावस्य च कारकत्वासंभवादिति भावनीयम् । अत एवाह - अनार्हतमेतदेकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेत्र न्यायान्तरमाह - संसारिण एव सिद्धत्वं नान्यस्य । कोऽयं नियमः १ इत्याह- नावद्धस्य मुक्तिः तात्रिकी, इत्याह-शब्दार्थरहिता बन्धाभावेन । अयं चानादिमान् बन्धः, प्रवाहेण संतत्या । कथं युक्तिसङ्गतोऽभूतिभावेन इत्याह- अतीतकाल - तुल्यः स हि प्रत्राहेणानादिमाननुभूत वर्तमानमात्रश्च । यथोक्तम् - " भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति, यः प्राप्स्यति वर्त्तमानत्वम् " ॥ किं वावन्धने प्रथमं अमुक्तिमुक्क्यभावः । कुतः १ इत्याह- पुनर्बन्धप्रसङ्गात् अवद्वत्वेन हेतुना । तथा चाह-अविशेषो बद्धमुक्तोरिति । अनादिमति बन्धे मोक्षाभावः । तत्स्वाभाविकत्वेनेत्याशङ्कानिराशायाहअनादियोगेऽपि सति वियोगोऽविरुद्व एव, काञ्चनोपलज्ञातेन लोके तथादर्शनात्, योगो बन्ध इत्यनर्थान्तरम् । आदावबद्धस्य दिदृक्षा, बद्वमुक्तस्य तु न सेति । दोषाभावादादिमाने बन्धोऽस्त्वित्याशङ्काव्यपोहायाह--न दिक्षाकरणस्येन्द्रियरहितस्याऽबद्धस्य चैतानि । तथा न चादृष्टे एषा दिशा, द्रष्टुमिच्छा दिदृक्षेति कृत्वा सहजैवैषेत्यारेकानिराकरणायाह-न सहजाया निवृत्तिर्दिदृक्षायाश्चैतन्यत्रत् । अस्तु वेयमित्यभ्युपेत्य दोषमाह--न निवृत्तौ दिदृक्षाया आत्मनः स्थानं, तदव्यतिरेकात् । तथा चाह—
नयण्णा तस्सा, न भव्वत्ततुल्ला, नाएणं, न केवलजीवरूवमेअं, न भाविजोगाविक्खाए तुल्लतं, तथा केवल तेण समाविसेसओ, तहा सहायकप्पणमप्पमाणमेव । एसेव दोसो परिकल्पि आए, 'परिणामभेआ बधाइ भेउत्ति' साहू । सव्वनयविसुडिए निरुवचरिओभयभावेणं । न अप्यभूअं कम्मं । न परिकप्पिअमेअ । न एवं भवादिभेओ । न भवाभावो उ सिद्धी ॥
पश्चमसू सिद्धिः भवो भवाभावो
वा १
॥ २६ ॥
Page #57
--------------------------------------------------------------------------
________________
नान्यथा तस्यैषा आत्मनो दिक्षायोगात् । तदव्यतिरेकेऽपि भव्यत्वस्यैव तन्निवृत्तौ दोषाभाव इत्याशङ्काऽपोहायाह-न भव्यत्वतुल्या न्यायेन दिक्षा | कुतः १ इत्याह-न केवलजीवरूपमेतद्भव्यत्वम् । दिक्षा तु केवलजीवरूपेत्यर्थः । न भावि - योगापेक्षा महदादिना तदा केवलत्वेन तुल्यलं दिदृक्षायाः भव्यत्वेन । अत्र युक्तिमाह-उदा केवलत्वेन भावियोगाभावे सदा अविशेषात्तथा सांसिद्धिकत्वेन तदूर्धमपि दिवापत्तिरिति हृदयम् । एवं स्वमाचैवेयं दिदृक्षा या महदादिभावाद्विकारदर्शने केवलावस्थायां निवर्त्तते इत्येतदाशङ्कयाह तथा स्वभावकल्पनं कैाल्याविशेषे प्रक्रमादिदृक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव । आत्मनस्तद्भेदापत्तेः प्रकृतेः पुरुषाधिकत्वेन तद्भावापच्येति गर्भः । अत एवाह - एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिक्षायां अभ्युपगम्यमानायां तथा हि परिकल्पिता न किञ्चित् कथं तत्र प्रमाणवृत्तिरिति । तदेवं व्यवस्थिते सति परिणामभेदादात्मन इति प्रक्रमः । बन्धादिभेदो बन्धमोक्षमेद इत्येतत्साधु प्रमाणोपपन्नम् । न खल्वन्ययोगवियोगौ विहाय मुख्यः परिणामभेदः, भवाच मुक्तिरनादिमांश्च भव इति नीत्या । अत एवाह - सर्वनयविशुद्धया । अनन्तरोदितसाधुफलोपदर्शनायाहनिरुपचरितोभयभावेन प्रक्रमात मुख्यवन्वमोक्षभावेन, एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा । पर्यायास्तिकमतमधिकृत्याह - नात्मभूतं कर्म, न बोधस्वलक्षणमेवेत्यर्थः । तथा न परिकल्पितमसदेवैत्कर्मवासनादिरूपम् । कुतः १ इत्याह- नैवं भवादिभेदः । आत्मभृते परिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणमेदवन भवापवर्गविशेषः । तथा न भवाभाव एव सिद्धिः, सन्तानोच्छेदरूपा प्रध्यानप्रदीपोपमा । अत्र युक्तिमाह
Page #58
--------------------------------------------------------------------------
________________
भीपंचसूत्रस्य ॥२७॥
पञ्चमचे अकर्मणः सिद्धस्य
गतिज्ञातम् ॥
न तदुच्छेदेणुप्पाओ । न एवं समंजसत्तं । नाऽणाइमंत भवो । न हेउफलभावो । तस्स तहा सहावकप्पणमजुत्तं निराहारन्नयकओ निओगेणं । तस्सेव तहाभावे जुत्तमेअं सुहममठ्ठपयमेअं। विचिन्तिअव्वं महापण्णाएत्ति ॥
न तदुच्छेदेऽनुत्पादः, न सन्तानोच्छेदेऽनुत्पादस्तस्यैव । किं तद्युत्पाद एव यथाऽसौ सन्नुच्छिद्यते, एवमसनप्युत्पद्यतामिति को विरोधः । यद्येवं ततः किम् ? इत्याह-नैवं समञ्जसत्वं न्यायोपपन्नत्वम् । कथम् ? इत्याह-एवं हि नानादिमान भवः संसारः कदाचिदेव सन्तानोत्पत्तेः। तथा न हेतुफलभावः । चरमाद्यक्षणयोरकारणकार्यत्वात् । पक्षान्तरनिरासायाह-तस्य तथास्वभावकल्पनमयुक्तम् । कुतः ? इत्याह-निराधारोऽन्वयः कृतो नियोगेन, अयमत्र भावार्थः । स्वो भाव इत्यात्मीया सत्ता स्वभावः । एवं च स निवृत्तिस्वभाव इति स्वभाविकी आत्मीया सत्तेति निराधारत्वम् । यद्वाऽन्वयाभावस्तभिवृत्तस्तत्त्वादिति नियोगग्रहणमवश्यमिदमित्थमन्यथा शब्दार्थायोगादिति ख्यापनार्थ, एवमाद्यक्षणेऽपि भावनीयम् । अत एवाह-तस्यैव तथाभावे युक्तमेतत्तथास्वभावकल्पनमिति सूक्ष्ममर्थपदमेतद्भावगम्यत्वात्, विचिन्तितव्यं महाप्रज्ञया, अन्यथा ज्ञातुमशक्यत्वादिति । आनुषनिकमभिधाय प्रकृतमाह____ अपज्जवसिअमेव सिद्धसुक्खं । इत्तो चेवुत्तमं इमं । सव्वहा अणुस्सुगत्तेणंतभावाओ। लोगंतसिद्धिवासिणो एए । 'जत्थ य एगो तत्य निअमा अणंता' । अकम्मुणो गई पुवपओगेण अलाउप्पभिइ
॥२७॥
Page #59
--------------------------------------------------------------------------
________________
नायओ। निअमो अओ चेव 'अफुसमाणगईए गमण। उक्करिसविसेसओ इअं। अव्वुच्छेओ भव्वाण अणंतभावेण । एअमणंताणतयं, न समया इत्य नायं । भव्वत्सं जोगयामित्तमेव, केसिंचि पडिमाजुग्गदारुनिर्दसणेणं । ववहारमयमेअं। एसोऽवि तत्तंगं पवित्तिविसोहणेण । अणेगंतसिद्धीओ निच्छयंगभावेण । परिसुद्धो उ केवलं, एसा आणा, इह भगवओ समंतभद्दा, तिकोडिपरिसुडीए अपुणवंधगाइगम्मा । ___अपर्यवसितमेवमुक्तेन विधिना सिद्धसौख्यम् । अत एव कारणादुत्तममिदम् । एतदेव स्पष्टमभिधातुमाह-सर्वथाऽनुत्सुकत्वे सति अनन्तभावात्कारणात् । क निवास एषाम् ? इत्याह-लोकान्तसिद्धिवासिन एते । चतुर्दशरज्ज्वात्मकलोकान्ते या सिद्धिः प्रशस्तक्षेत्ररूपा तद्वासिन एते सिद्धाः । कथं व्यवस्थिताः ? इत्याह-यत्रैकः सिद्धस्तत्र क्षेत्रे नियमानियोगेनानन्ताः सिद्धाः । उक्तञ्च-"जत्थ य एगो सिद्धो, तत्थ अणता भवक्खयविमुक्का । अण्णोण्णमणाबाहं चिट्ठति सुही सुहं पत्ता" ॥१॥ कथमिह कर्मक्षये लोकान्तगमनम् ? । इत्याह-अकर्मणः सिद्धस्य गतिरितो लोकान्तं पूर्वप्रयोगेण हेतुना तत्स्वाभाव्यात् । कथमेतदेवं प्रतिपत्तव्यम् ? इत्याह-अलाबुप्रभृतिज्ञाततः, अष्टमृल्लेपलिप्तजलक्षिप्ताधोनिमग्नतदपगमोर्ध्वगमनस्वभावालाबुवत् । प्रभृतिग्रहणादेरण्डफला| दिग्रहः । ऊर्ध्वगमनं तत्रैव चासकृद्गमनागमनं किं न १ । इत्येतदाशङ्कयाह-नियमोऽत एषालाबुभृतिज्ञाततः एकसमयादिः,
उत्पलपत्रशतव्यतिमेददृष्टान्तेन एकसमयेन तद्गतिर्युक्तेत्याशङ्काऽपोहायाह-अस्पृशद्गत्या गमनं सिद्धस्य सिद्धिक्षेत्र प्रति । स्पृशद्गतिमदपेक्षया चोत्पलपत्रशतव्यतिमेददृष्टान्तः। कथमिय संभवति ? इत्याह-उत्कर्षविशेषत इयं गत्युत्कर्षविशेषदर्शनादेवमस्पृशद्गतिः
Page #60
--------------------------------------------------------------------------
________________
श्रीपंच
सूत्रस्य 4॥२८॥
पञ्चमस्त्रे भव्याभव्यत्वसिद्धिः॥
संभवतीति भावनीयम् । सिद्धस्यापुनरागमनात्कालस्य चानादित्वात्, षण्मासान्तः प्रायोऽनेकसिद्धेभव्योच्छेदप्रसङ्ग इति विभ्रमनिरासार्थमाह-अव्यवच्छेदो भव्यानामनन्तभावेन, तथा सिद्धिगमनादावपि वनस्पत्यादिषु कायस्थितिक्षयदर्शनादनन्तस्याऽपि राशेः क्षयोपपत्तेः पुनः संशय इति तद्व्यवच्छित्यर्थमाह-एतदनन्तानन्तकं एतद्भव्यानन्तकमनन्तानन्तकं न युक्तानन्तकादिसमयाः अत्र ज्ञातं, तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदोऽनन्तत्वात् । कथं तबैतत् ? उच्यते-"ऋतुर्व्यतीतः परिवर्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्तते, जलं नदीनां च नृणां च जीवितम्" ॥१॥ इति । उच्यत एतद्वयवहारतस्तूच्यते, अन्यथा तस्यैव परावृत्ती बाल्यानिवृत्तिः । तस्य तद्वाल्याधापादनस्वभावत्वादिति परिभावनीयम् । अतो न क्षयो भव्यानामिति स्थितम् । एवं च सति, भव्यत्वं योग्यतामात्रमेव सिद्धि प्रति, केषाश्चित्प्राणिनां येन कदाचिदपि सेत्स्यन्ति । तथा चागमः-'भवावि न सिझिसंति केइ' इत्यादि । भव्यत्वं सिद्धिगमनयोग्यत्वम् । फलगम्या च योग्यता । को वा एवमभव्येभ्यो विशेषो भव्यानाम् ? इत्याशङ्काव्यपोहायाह-प्रतिमायोग्यदारुनिदर्शनेन । तथा हि-तुल्यायां प्रतिनिष्पत्तौ तथाप्येकं दारु प्रतिमायोग्यं ग्रन्थ्यादिशून्यतया न तदन्यदयुक्ततयेत्यादिविद्वदङ्गनादिसिद्धमेतत् । न चात्रापि तत्र स्वभावत्वादिविकल्पचिन्ता कार्या । कुतः ? इत्याह-व्यवहारमतमेतत्, अयं चैवं व्यवस्थितः, इति भावितमेव । न चायं संवृत्तिरूप इत्याह-एषोऽपि तच्चाङ्गमेपोऽपि व्यवहारनयः परमार्थाङ्ग इह प्रक्रमे, तथा योग्यता बुद्धरपि सन्निबन्धनत्वात् । तत्स्वभावाविशेषे तु दार्वन्तरवदयोग्यदारुण्यपि, तथा बुद्ध्यसिद्धरित्यादिनिलोंठितमन्यत्र । इत्यनुष्ठानमेवाधिकृत्याह-एषोऽपि
॥२८॥
Page #61
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXXXXX
तत्वाङ्गम् । यथोक्तम्-"जइ जिणमयं पवजह ता मा ववहारनिच्छये मुयह । ववहारणयउच्छेए तित्थुच्छेओ जतोवस्सं ॥१॥ अत एषोऽपि व्यवहारनयस्तचाङ्गं प्रवृतौ मोक्षाङ्गमित्यर्थः । कुतः ? इत्याह-प्रवृत्तिविशोधनेन तन्मतेन प्रवज्यादिप्रदानात्परलोकप्रवृत्तिविशोधनेन, इत्थमनेकान्तसिद्धितः सन्नीत्या, तथा निश्चयाङ्गभावेन । एवं प्रवृत्याऽपूर्वकरणादिप्राप्तः। परिशुद्धस्तु केवलमाज्ञापेक्षी पुष्टालम्बनः । एषाऽज्ञेह भगवत उभयनयगर्भा । अथवा सवै पञ्चसूत्रोक्ता । किंविशिष्टा ? इत्याह-समन्तभद्रा, सर्वतो निर्दोषा । कथम् ? इत्याह-त्रिकोटिपरिशुद्धया कपच्छेदतापपरिशुद्धया । इयं च भागवती सदाज्ञा सर्वैव अपुनर्बन्धकादिगम्या । अपुनर्बन्धकादयो के सत्त्वाः ? उत्कृष्टां कर्मस्थिति तथा अपुनर्बन्धकत्वेन ये क्षपयन्ति ते खल्वपुनर्बन्धकाः । आदिशब्दान्मार्गाभिमुखमार्गपतितादयः परिगृह्यन्ते । दृढप्रतिज्ञालोचकादिलिङ्गाः, एतद्गम्येयं न संसाराभिनन्दिगम्या, तेषां ह्यतो विषयप्रतिभासमात्रं ज्ञानमुदेति । न तद्द्वेषत्वादिवेदकमिति । उक्तश्च-" न यथास्थितं शास्त्र, खत्वन्धो वेत्ति जातुचित् । ध्यामलादपि बिम्बात्तु, निर्मलः स्यात्स्वहेतुतः"॥१॥ अपुनर्बन्धकत्वादिलिङ्गमाह
एअप्पिअत्तं खलु इत्य लिङ्ग, ओचित्तपवित्तिविनेअं संवेगसाहगं निअमा । न एसा अन्नेसिं देआ। लिंगविवजयाओ तप्पारण्णा । तयणुग्गयाए आमकुंभोदगनासनाएणं एसा करुणत्ति वुच्चइ, एगंतपरिसुद्धा, अविराहणाफला, तिलोगनाहबहुमाणेणं निस्सेअससाहिग त्ति पव्वजाफलसुत्तं सम्मत्तं ॥
॥समाप्तं पञ्चसूत्रक, कृतं चिरन्तनाचार्यैः ॥
SEXXXXXXXXXXXXXXXXXXXXXXX
Page #62
--------------------------------------------------------------------------
________________
श्रीपंच
TAM
॥२९॥
पञ्चमस्त्रे
अविराधनाफलप्रदर्शनम्॥
एतत्प्रियत्वं खल्वत्र लिङ्गम् । आज्ञाप्रियत्वमपुनर्बन्धकादिलिङ्गम् । प्रियत्वमुपलक्षणं, श्रवणाभ्यासादेः। एतदप्यौचित्यप्रवृत्तिविज्ञेयं, तदाराधनेन तद्बहुमानात् । औचित्यबाधया तु प्रवृत्तौ न तत्प्रियत्वं, मोह एवासाविति । एतत्प्रियत्वमेव विशेष्यते-संवेगसाधकं नियमात् । यस्य भागवती सदाज्ञा प्रिया, तस्य नियमतः संवेग इति । यत एमवतो नैषा अन्येभ्यो देया। नैषा भागवती सदाज्ञा अन्येभ्योऽपुनर्बन्धकादिव्यतिरिक्तेभ्यः संसाराभिनन्दिम्यो देया । कथं ते ज्ञायन्ते ? इत्याह-लिङ्गविपर्ययात्तत्परिज्ञा। प्रक्रामादपुनर्बन्धकादिलिङ्गविपर्ययात् संज्ञा, न द्वेषादिलक्षणात्तत्परिज्ञा संसाराभिनन्दिपरिज्ञा । उक्तश्च-" क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः ॥१॥किमिति न तेभ्यो देया ? इत्याह-तदनुग्रहार्थ संसाराभिनन्दिसत्चानुग्रहार्थम् । उक्तश्च-"अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे, ॥१॥ इहैव निदर्शनमाह-आमकुम्भोदकन्यासज्ञातेन । उक्तश्च-" आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धतरहस्सं, अप्पाहारं विणासेइ" ॥१॥ एषा करुणोच्यते, अयोग्येभ्यः सदाज्ञाप्रदानरूपा। किं विशिष्टा । ? इत्याह-एकान्तपरिशुद्धा, तदपायपरिहारेण । अत एवेयमविराधनाफला, सम्यगालोचनेन । न पुनर्लानापथ्यप्रदानेन निबन्धनकरुणावत्तदाभासेति । इयं चैवभूता
त्रिलोकनाथबहुमानेन हेतुना निःश्रेयससाधिकेति । किमुक्तं भवति ? नानागमिकस्येयं भवति, किं तु परिणतागमिकस्य । अस्य KAIच भगवत्येवं बहुमानः । एवं चेयं मोक्षसाधिकैव सानुबन्धसुप्रवृत्तिभावेन । इति प्रव्रज्याफलसूत्रं समाप्तम् । एवं पञ्चमसूत्र
व्याख्या समाप्ता ॥
XXXXXXXXXXXBETEREKXXXXXX
358883&&&&XXXX
॥२९
॥
Page #63
--------------------------------------------------------------------------
________________
॥ समाप्तं पञ्चसूत्रकं व्याख्यानतोऽपि ॥ नमः श्रुतदेवतायै भगवत्यै । सर्वनमस्कारार्हेभ्यो नमः । सर्ववन्दनानि वन्दे । सर्वोपकारिणामिच्छामो वैयावृत्यम् । सर्वानुभावादौचित्येन मे धर्मे प्रवृत्तिर्भवतु । सर्वे सत्त्वाः सुखिनः सन्तु । सर्वे सत्त्वाः सुखिनः सन्तु । सर्वे सत्त्वाः सुखिनः सन्तु ।
पञ्चसूत्रकटीका समाप्ता । कृतिः सिताम्बराचार्यहरिभद्रस्य, धर्मतो याकिनीमहत्तरासूनोः । । ग्रन्थाग्रमनुष्टुप्छन्दउद्देशतः शतान्यष्टावशीत्यधिकानि ।
॥ श्रीरस्तु ॥
XXSEXEEEER3333333BER
Page #64
--------------------------------------------------------------------------
_