________________
' तहा सुरासुरमनुअपइओ केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं ' इति योगः । तथा न केवलं साधवः शरणं, किंतु केवलिप्रज्ञप्तो धर्म इति संबन्धः । किंविशिष्टः १ इत्याह- सुरासुरमनुजैः पूजितः ' सुरासुरमनुजपूजितः ' । सुरा ज्योतिष्करैमा - निकाः । असुरा व्यन्तरभवनपतयः । मनुजाः पुरुषविद्याधराः । अयमेव विशेष्यते - मोहस्तिमिरमित्र मोहतिमिरं सद्दर्शनावारकत्वेन । तस्यांशुमालीवांशुमाली, तदपनयनादादित्यकल्पः । अयमेत्र विशेष्यते - रागद्वेषौ विपमित्र रागद्वेषविषं, तस्य परममन्त्रः तद्वातित्वेनेति भावः । अयमेव विशिष्यते-‘हेतुः' कारणं, प्रवर्त्तकत्वादिना, 'सकलकल्याणानां ' सुदेवत्वादीनाम् । अयमेव विशिष्यते - कर्मवनस्य ज्ञानावरणीयादिसमुदयरूपस्य विभावसुरिवाग्निरिव तद्दाहकत्वेन । अयमेव विशिष्यते—' साधकः ' निर्वर्त्तकः, ' सिद्धभावस्य सिद्धत्वस्य तथा, तत्संपादकत्वेन । कोऽयमेवं १ किं वा ? इत्याह-' केवलिप्रज्ञप्तः ' केवलिप्ररूपितः, ' धर्मः ' श्रुतादिरूपः । 'याब - ज्जीवं' इति पूर्ववत् 'मे' मम 'भगवान्' समग्रैश्वर्यादिगुणयुक्तः 'शरणं' आश्रयः । एतच्चतुःशरणगमनं, एकार्थसाधकत्वेन प्रभूतानामप्यविरुद्धमेव । अत एव परमार्थम् - " चत्तारिसरणं पवज्जामि, अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्मं सरणं पवज्जामि" इति । चतुःशरणगमनानन्तरं दुष्कृतगहोंक्ता । तामाह – शरणमुपगतश्च समेतेषा - मदादीन, दुष्कृतम् । किं विशिष्टं ? इत्याह
जणं अरहंतेसुवा, सिडेसु वा, आयरिएसुवा, उवज्झाएसुवा, साहस वा, साहुणीसु वा, अन्नेसु बा धम्मट्ठाणे माणणिजे पूअणिजेसु, तहा माईसु वा, पिईसुवा, बंधूसु वा, मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवे मग्गट्ठिएस अमग्गट्ठिएस, मग्गसाहणेसु अमग्गसाहणेसु, जंकिंचि वितहमा -