SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीपंचसूत्रस्य तृतीयस्चे संसारनिदनिम् ॥ दुर्लभं मनुजत्वं, भवाब्धाविति शेषः । अत एवाह-समुद्रपतितरत्नलाभतुल्यं, अतिदुरापमित्यर्थः । कुतः १ इत्याह-अतिप्रभूता अन्ये भवाः पृथिवीकायादिसंबन्धिनः कायस्थित्या । यथोक्तम्-" अस्संखोसप्पिणि-सप्पिणीओ एगिन्दियाण उ चउण्हं । ता चेव उ अणता, वणस्सतीए उ बोधब्बा "॥१॥ एते च दुःखबहुला उत्कटासातवेदनीया मोहान्धकारास्तदुदयतीव्रतया, अकुशलानुबन्धिनः प्रकृत्याऽसच्चेष्टाहेतुत्वेन॥ यत एवमतः-अयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य, योग्यं चैतन्मनुजत्वम् । किविशिटम् ? इत्याह-पोतभूतं भवसमुद्रे, तदुत्तारकत्वेन । यत एवमतो युक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे । कथं ? इत्याह-संवरस्थगितच्छिद्रं, छिद्राणि प्राणातिपाताऽविरमणादीनि । तथा ज्ञानकर्णधारमभीक्ष्णं तदुपयोगतः । तपःपवनजवनं, अनशनाद्यासेवनतया । एवं युक्तं स्वकार्ये नियोक्तुम् । कि? इत्यत आह-क्षण एष दुर्लभः । क्षणः प्रस्तावः सर्वकार्योपमातीत एषः । कथं ? इत्याह-सिद्धिसाधकधर्मसाधकत्वेन हेतुना, उपादेया चैषा जीवानां सिद्धिरेव । यन्नास्यां सिद्धौ जन्म प्रादुर्भावलक्षणम् । न जरा, वयोहानिलक्षणा । न मरणं, प्राणत्यागलक्षणम् । नेष्टवियोगः, तदभावात् । नानिष्टसंप्रयोगोऽत एव हेतोः। न क्षुद्, बुभुक्षारूपा। न पिपासा, उदकेच्छारूपा। न चान्यः कश्चिद्दोषः, शीतोष्णादिः । सर्वथाऽपरतन्त्रं जीवावस्थानं, अस्यां सिद्धाविति प्रक्रमः । अशुभरागादिरहितमेतदवस्थानम् । एतदेव विशेष्यते-शान्तं शिवमव्याबाधमिति । शान्तं शक्तितोऽपि क्रोधाद्यमावेन । शिवं सकलाशिवाऽभावतः । अव्यावाघ, निष्क्रियत्वेनेति ॥ विवरीओ अ संसारो इमीए अणवा असहावो । “इत्थ खलु सुहाीव असुही, संतमसंतं, सुविणुव्व
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy