________________
सव्वमालमालति । ता अलमित्य पडिबंधेणं । करेह मे अणुग्गह " । उज्जमह एअं वुच्छिदित्तए । अहंपि तुम्हा सामि । निव्विण्णो जम्ममरणेहिं । समिज्झइ अ मे समीहिअं गुरुप्पभावेणं । एवं सेसेवि बोहिज्जा । तओ सममेएहिं सेविज्ज धम्मं । करिज्जोचिअकरणिज्जं, निरासंसो उ सव्वदा एअं परममुणिसासणं ॥
विपरीतश्च संसारोऽस्याः सिद्धेर्जन्मादिरूपत्वात् सर्वोपद्रवालयो । यथाह - " जरामरणदौर्गत्यव्याधयस्तावदासताम्, मन्ये जन्मापि वीरस्य, भूयो भूयस्त्रपाकरम् " ॥१॥ अत एवाह - अनवस्थितस्वभावः संसारः । “अत्र खलु सुख्यप्य सुखी पर्यायतः, सदस्यसत्पर्यायत एव । स्वम इव, सर्वमालमालमास्थाऽभावेनेति । यत एवं तदलमत्र प्रतिबंधेन संसारे, कुरुत ममानुग्रहम्" । कथं ? इत्याह-उद्यच्छतैनं व्यवच्छेत्तुं | संसारं यूयम् । अहमपि युष्माकमनुमत्या साधयाम्येतद्वयवच्छेदनम् । किमिति ? अत आह— निर्विण्णो जन्ममरणाभ्यां संसारागामिभ्याम् । समृद्ध्यति च मम समीहितं संसारव्यवच्छेदनं, गुरुप्रभावेन । एवं शेषाण्यपि भार्यादीनि बोधयेदौचित्योपन्यासेन । ततः सममेभिर्मातापित्रादिभिः सेवेत धर्म चारित्रलक्षणम् । कथं १ इत्याह- निराशंस एव सर्वदा, इहलोकपरलोकाभ्याम् । एतत्परममुनिशासनं वीतरागवचनमित्यर्थः ॥
अबुझमाणे अ, कम्मपरिणईए विहिज्जा, जहासतिं तदुवकरणं आओवायसुद्धं समईए । कण्णुआ खु एसा । करुणा य, धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जिज्ज धम्मं ।