SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ ह्रीं श्री सिद्धचक्राय नमः ॥ श्री आत्म-कमल- लब्धिसूरीश्वरेभ्यो नमः ॥ श्रीचिरन्तनाचार्यविरचितं, सूरिपुरंदर श्रीहरिभद्रसूरीश्वरकृत व्याख्या समलङ्कृतम् ॥ श्रीपञ्चसूत्रम् ॥ प्रणम्य परमात्मानं, महावीरं जिनेश्वरम् । सत्पञ्चसूत्र कव्याख्या समासेन विधीयते ॥ १ ॥ आह किमिदं पञ्चसूत्रकं नाम ? उच्यते - पापप्रतिघातगुणचीजाधानसूत्रादीनि पञ्चमूत्राण्येव तद्यथा- पापप्रतिघातगुणत्रीजाधानसूत्रम् १, साधुधर्मपरिभावनासूत्रम् २, प्रव्रज्याग्रहणविधिसूत्रम् ३, प्रव्रज्या परिपालनासूत्रम् ४, प्रव्रज्याफलसूत्रम् ५ इति । आह किमर्थमेवमेतेषामुपन्यासः ? इत्यत्रोच्यते - एतदर्थस्यैवमेव तत्त्वतो भात्रः इति ख्यापनार्थ नहि प्रायः पापप्रतिघातेन गुणवीजाधानं विना ततस्तच्छ्रद्धाभावप्ररोहः, न चासत्यस्मिन् साधुधर्मपरिभावना, न चापरिभावितसाधुधर्मस्य प्रव्रज्याग्रहणविधावधिकारः, न चाप्रतिपन्नस्तां तत्पालनाय यतते, न चापालने एतत्फलमाप्नोतीति प्रवचनसार एष सज्ज्ञानक्रियायोगात् । अन्यथा अनादिमति संसारे यथाकथञ्चिदनेकशः एतत्प्रात्यादेः स्यादेतत् सर्वसत्वानामेव न चैतदेव, सर्वसत्त्वानां सिद्ध्यभावात् । सिद्धिश्व प्रधानं फर्क : १
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy