________________
निवेदनम् ।
AL
अथ प्रकाश्यतेऽनया संस्थया श्रीपञ्चसूत्राभिधो ग्रन्थः । अस्य ग्रन्थस्य प्रणेतारः सकलागमाचारकलापनिपुणा सर्वतन्त्रस्वतन्त्रप्रतिभा अविच्छिन्नशासन गगनभानवः सुगृहीतनामधेया भव्यजीवोपकृतिकारणतया समस्तं सारं पञ्चभिः सूत्रैविशदीकुर्व्वन्ति स्म । प्रत्येकञ्च सूत्रं ' अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखं, अस्तोभमनवद्यञ्च -सूत्र-सूत्रविदो विदुरिति सूत्र - लक्षणेन परिपूर्णमस्ति । एभिश्च पञ्चभिः सूत्रैरागमानुगतं स्वानुभूतं वस्तु भव्यजनतासमक्षं, लोकोपकारायैव प्रकटीकृतम् । अस्य ग्रन्थस्य प्रणेतृर्णा श्रीमतां चिरन्तनाचार्याणां समयनिर्णये संशयो वर्तते । यतस्तेषामभिधानं ' चिरन्तनाचार्य ' इति मूलतो वा टोकया वा नागस्यते । केवलं ग्रन्थाद्वहिरस्मिन्प्रन्थे, तथा श्रीकर्मप्रकृतिवृष्णिका ग्रन्ये च चिरन्तनाचार्यकृतमिति दृश्यते । तस्माश्चिरन्तनाचार्येति ग्रन्थकर्तुर्नाम वा प्राचीनाचार्यपर्यायो वेति न निर्णेतुं शक्यते । समयनिर्णयस्तु तदा दूरापास्त एव । परमेतत्प्रन्थदीका कर्तृश्रीहरिभद्रसूरिवरेभ्य एते श्रीचिरन्तनाचार्यपादाः प्राचीना इत्यत्र न विवादः ।
सोऽयं
सूरिशिरोमणिभिर्भवविरहाङ्कितश्रीमदाचार्यवरेण्यहरिभद्रसूरिभिः सरलटोकथा विस्तारितः । ग्रन्थायमपूर्वगुणरत्नावलिगुंफितः प्रणिधान प्रेमिजन वर्गाणामध्ये तृणामुपकारायान्यत्र प्रकाशितोऽपि ज्ञानसेवा प्रचाराद्यर्थं श्रीलब्धिसूरीश्वर जैन ग्रन्थमालायाः पञ्चममणितया प्रकटीक्रियते । पतस्माच्च यथायथं मार्गावतारप्रभविष्णवो भवन्तु भव्या इत्याशास्ते प्रत्यूषप्रार्थ्यकरुणाकरनिकरशेखराणां श्रीमल्लब्धिसूरीश्वराणां शिष्यप्रशिष्यःईडर तीर्थे - सं. १९९५ फाल्गुन शुक्ला पञ्चमी ।
पूज्यपादानामनुचरः - मुनिजितेन्द्रविजयः ॥