SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रव्रज्याफलसूत्रम् ॥ इदानीं पश्मसूत्रव्याख्या प्रक्रम्यते - अस्य चायमभिसम्बन्धः । इहानन्तरसूत्रे प्रव्रजितस्य चर्योक्ता । इह तु परं तत्फलमभिधातुमाह स एवमभिसि परमचंभे मंगलालए जंम्मजरामरणरहिए पहणाऽसुहे अणुबंधसत्तिवज्जिए संपत्तनिअसरूवे अकिरिए सहावसंठिए अनंतनाणे अनंतदंसणे ॥ स प्रक्रान्तः प्रव्रज्याकारी, एवमुक्तेन सुखपरम्पराप्रकारेणाभिषिद्धः सन् । किंभूत इत्याह - परमब्रह्म, सदाशिवत्वेन । मङ्गलालयः, गुणोत्कर्षयोगेन । जन्मजरामरणरहितो निमित्ताभावेन । यथोक्तम्- “ दग्धे बीजे मथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः " ॥१॥ इति । प्रक्षीणाशुभः एकान्तेन, अनुबन्धशक्तिवर्जितः अशुभमङ्गीकृत्यान्त एव संप्राप्तनिजस्वरूपः केवलो जीवः अक्रियो गमनादिशून्यः, स्वभावसंस्थितः सांसिद्धिकधर्मवान् । अत एवाह- अनन्तज्ञानोऽनन्तदर्शनः ज्ञेयानन्तत्वात् । स्वभावश्चास्यायमेव । यथोक्तम्- “ स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकायचं विज्ञानं, तदावरणमभवत् ॥१॥ अथ की शोsit वर्णरूपाभ्याम् ? इत्याशङ्कापोहायाह - से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता अणित्यंत्यसंठाणा, अनंतविरिआ,
SR No.600315
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages64
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy