________________
श्रीपंचपत्रस्य ॥२॥
BARBALASAHEBBOXBXXXXXXXX.
आद्यसूत्रे त्रैलोक्यवासिसत्त्वेभ्यो गृणन्ति शास्त्रार्थमिति त्रैलोक्यगुरवः, तद्गुणाधिकत्वात्तन्माननीयत्वाद्वा, तेभ्यो नमः । एतेनैव संनिवन्धनेना- जीयभवकर्मन्वर्थनाम्नाह-'अरुहेभ्यो भगवद्भयः' इति न रोहन्ति न भवाङ्कुरोदयमासादयन्ति, कर्मवीजाभावादिति अरुहाः तेभ्यः । किं
संयोगादीविशिष्टेभ्यः १ । भगः समग्रैश्वर्यादिलक्षणः, स विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भयो नम इति । एवंभूताश्च ते समधिकृतातिशय
नां अनादिभाजश्वरमदेहस्था अपि, ततो मुक्तिभावे जन्माङ्करोदयाभावात् । अत एवाह-एतदुक्तार्थमूत्रानुवादकृत्
त्ववर्णनम् ॥ जे एवमाइक्खंति-इह खलु १ अणाइजोवे, २ अणाइजीवस्स भवे, ३ अणा
इकम्मसंजोगनिव्वत्तिए, ४ दुक्खरूवे, ५ दुक्खफले, ६ दुक्खाणुबंधे । ___ एवं चानन्तरेण ग्रन्थेनेष्टदेवतानमस्कारः । अनुवादकरणस्यापि श्रेयोभूतत्वेन तदारम्भे विघ्नविनायकोपशान्तये मङ्गलार्थ उक्तो* वेदितव्यः । ये वीतरागादिविशेषणविशिष्टा भगवन्त ' एवं ' इति वक्ष्यमाणं ' आचक्षते । अत्यर्थव्यक्तमभिदधति, कथम् ? इत्याह-' इह खल्वनादिजीवः । इह लोके खलुशब्दोऽवधारणार्थः । लोके एवं नालो के, अनादिः सततं समवस्थितो जीव आत्मा सर्वथाऽ'सतः सत्तायोगात्' । अतिप्रसङ्गात् । विशिष्टशक्यसिद्धेः । तथा 'अनादिजीवस्य भवः' भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, संसारः । किंभूतोऽयम् ? इत्याह- अनादि कर्मसंयोगनिवर्तितः अनादिश्चासौ कर्मसंयोगश्च, तत्कृत इत्यर्थः । नान्यथा, कमसयोगमुक्तस्येव केवलस्य तदयोगात् । अहेतुकत्वापत्तेः कृतकत्वेऽपि प्रवाहतस्तथाविधकालात्, अनादित्वाविरोधात् । अयमेव विशिष्यते-'दुःखरूपो दुःखफलो दुःखानुबन्धः । तत्र दुःखरूपः, जन्मजरामरणरोगशोकरूपत्वात् एतेषां च दुःखत्वात् । तथा दुःखफलः, गत्यन्तरेऽपि जन्मादिभावात् । तथा दुःखानुबन्धः, अनेकभववेदनीयकर्मावहत्वात् । कस्तास्य प्रतीकारः ? इत्याह