Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
XXXXXXXXXXXXXXXX
तत्वाङ्गम् । यथोक्तम्-"जइ जिणमयं पवजह ता मा ववहारनिच्छये मुयह । ववहारणयउच्छेए तित्थुच्छेओ जतोवस्सं ॥१॥ अत एषोऽपि व्यवहारनयस्तचाङ्गं प्रवृतौ मोक्षाङ्गमित्यर्थः । कुतः ? इत्याह-प्रवृत्तिविशोधनेन तन्मतेन प्रवज्यादिप्रदानात्परलोकप्रवृत्तिविशोधनेन, इत्थमनेकान्तसिद्धितः सन्नीत्या, तथा निश्चयाङ्गभावेन । एवं प्रवृत्याऽपूर्वकरणादिप्राप्तः। परिशुद्धस्तु केवलमाज्ञापेक्षी पुष्टालम्बनः । एषाऽज्ञेह भगवत उभयनयगर्भा । अथवा सवै पञ्चसूत्रोक्ता । किंविशिष्टा ? इत्याह-समन्तभद्रा, सर्वतो निर्दोषा । कथम् ? इत्याह-त्रिकोटिपरिशुद्धया कपच्छेदतापपरिशुद्धया । इयं च भागवती सदाज्ञा सर्वैव अपुनर्बन्धकादिगम्या । अपुनर्बन्धकादयो के सत्त्वाः ? उत्कृष्टां कर्मस्थिति तथा अपुनर्बन्धकत्वेन ये क्षपयन्ति ते खल्वपुनर्बन्धकाः । आदिशब्दान्मार्गाभिमुखमार्गपतितादयः परिगृह्यन्ते । दृढप्रतिज्ञालोचकादिलिङ्गाः, एतद्गम्येयं न संसाराभिनन्दिगम्या, तेषां ह्यतो विषयप्रतिभासमात्रं ज्ञानमुदेति । न तद्द्वेषत्वादिवेदकमिति । उक्तश्च-" न यथास्थितं शास्त्र, खत्वन्धो वेत्ति जातुचित् । ध्यामलादपि बिम्बात्तु, निर्मलः स्यात्स्वहेतुतः"॥१॥ अपुनर्बन्धकत्वादिलिङ्गमाह
एअप्पिअत्तं खलु इत्य लिङ्ग, ओचित्तपवित्तिविनेअं संवेगसाहगं निअमा । न एसा अन्नेसिं देआ। लिंगविवजयाओ तप्पारण्णा । तयणुग्गयाए आमकुंभोदगनासनाएणं एसा करुणत्ति वुच्चइ, एगंतपरिसुद्धा, अविराहणाफला, तिलोगनाहबहुमाणेणं निस्सेअससाहिग त्ति पव्वजाफलसुत्तं सम्मत्तं ॥
॥समाप्तं पञ्चसूत्रक, कृतं चिरन्तनाचार्यैः ॥
SEXXXXXXXXXXXXXXXXXXXXXXX

Page Navigation
1 ... 59 60 61 62 63 64