Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंच
सूत्रस्य 4॥२८॥
पञ्चमस्त्रे भव्याभव्यत्वसिद्धिः॥
संभवतीति भावनीयम् । सिद्धस्यापुनरागमनात्कालस्य चानादित्वात्, षण्मासान्तः प्रायोऽनेकसिद्धेभव्योच्छेदप्रसङ्ग इति विभ्रमनिरासार्थमाह-अव्यवच्छेदो भव्यानामनन्तभावेन, तथा सिद्धिगमनादावपि वनस्पत्यादिषु कायस्थितिक्षयदर्शनादनन्तस्याऽपि राशेः क्षयोपपत्तेः पुनः संशय इति तद्व्यवच्छित्यर्थमाह-एतदनन्तानन्तकं एतद्भव्यानन्तकमनन्तानन्तकं न युक्तानन्तकादिसमयाः अत्र ज्ञातं, तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदोऽनन्तत्वात् । कथं तबैतत् ? उच्यते-"ऋतुर्व्यतीतः परिवर्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्तते, जलं नदीनां च नृणां च जीवितम्" ॥१॥ इति । उच्यत एतद्वयवहारतस्तूच्यते, अन्यथा तस्यैव परावृत्ती बाल्यानिवृत्तिः । तस्य तद्वाल्याधापादनस्वभावत्वादिति परिभावनीयम् । अतो न क्षयो भव्यानामिति स्थितम् । एवं च सति, भव्यत्वं योग्यतामात्रमेव सिद्धि प्रति, केषाश्चित्प्राणिनां येन कदाचिदपि सेत्स्यन्ति । तथा चागमः-'भवावि न सिझिसंति केइ' इत्यादि । भव्यत्वं सिद्धिगमनयोग्यत्वम् । फलगम्या च योग्यता । को वा एवमभव्येभ्यो विशेषो भव्यानाम् ? इत्याशङ्काव्यपोहायाह-प्रतिमायोग्यदारुनिदर्शनेन । तथा हि-तुल्यायां प्रतिनिष्पत्तौ तथाप्येकं दारु प्रतिमायोग्यं ग्रन्थ्यादिशून्यतया न तदन्यदयुक्ततयेत्यादिविद्वदङ्गनादिसिद्धमेतत् । न चात्रापि तत्र स्वभावत्वादिविकल्पचिन्ता कार्या । कुतः ? इत्याह-व्यवहारमतमेतत्, अयं चैवं व्यवस्थितः, इति भावितमेव । न चायं संवृत्तिरूप इत्याह-एषोऽपि तच्चाङ्गमेपोऽपि व्यवहारनयः परमार्थाङ्ग इह प्रक्रमे, तथा योग्यता बुद्धरपि सन्निबन्धनत्वात् । तत्स्वभावाविशेषे तु दार्वन्तरवदयोग्यदारुण्यपि, तथा बुद्ध्यसिद्धरित्यादिनिलोंठितमन्यत्र । इत्यनुष्ठानमेवाधिकृत्याह-एषोऽपि
॥२८॥

Page Navigation
1 ... 58 59 60 61 62 63 64