Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
नायओ। निअमो अओ चेव 'अफुसमाणगईए गमण। उक्करिसविसेसओ इअं। अव्वुच्छेओ भव्वाण अणंतभावेण । एअमणंताणतयं, न समया इत्य नायं । भव्वत्सं जोगयामित्तमेव, केसिंचि पडिमाजुग्गदारुनिर्दसणेणं । ववहारमयमेअं। एसोऽवि तत्तंगं पवित्तिविसोहणेण । अणेगंतसिद्धीओ निच्छयंगभावेण । परिसुद्धो उ केवलं, एसा आणा, इह भगवओ समंतभद्दा, तिकोडिपरिसुडीए अपुणवंधगाइगम्मा । ___अपर्यवसितमेवमुक्तेन विधिना सिद्धसौख्यम् । अत एव कारणादुत्तममिदम् । एतदेव स्पष्टमभिधातुमाह-सर्वथाऽनुत्सुकत्वे सति अनन्तभावात्कारणात् । क निवास एषाम् ? इत्याह-लोकान्तसिद्धिवासिन एते । चतुर्दशरज्ज्वात्मकलोकान्ते या सिद्धिः प्रशस्तक्षेत्ररूपा तद्वासिन एते सिद्धाः । कथं व्यवस्थिताः ? इत्याह-यत्रैकः सिद्धस्तत्र क्षेत्रे नियमानियोगेनानन्ताः सिद्धाः । उक्तञ्च-"जत्थ य एगो सिद्धो, तत्थ अणता भवक्खयविमुक्का । अण्णोण्णमणाबाहं चिट्ठति सुही सुहं पत्ता" ॥१॥ कथमिह कर्मक्षये लोकान्तगमनम् ? । इत्याह-अकर्मणः सिद्धस्य गतिरितो लोकान्तं पूर्वप्रयोगेण हेतुना तत्स्वाभाव्यात् । कथमेतदेवं प्रतिपत्तव्यम् ? इत्याह-अलाबुप्रभृतिज्ञाततः, अष्टमृल्लेपलिप्तजलक्षिप्ताधोनिमग्नतदपगमोर्ध्वगमनस्वभावालाबुवत् । प्रभृतिग्रहणादेरण्डफला| दिग्रहः । ऊर्ध्वगमनं तत्रैव चासकृद्गमनागमनं किं न १ । इत्येतदाशङ्कयाह-नियमोऽत एषालाबुभृतिज्ञाततः एकसमयादिः,
उत्पलपत्रशतव्यतिमेददृष्टान्तेन एकसमयेन तद्गतिर्युक्तेत्याशङ्काऽपोहायाह-अस्पृशद्गत्या गमनं सिद्धस्य सिद्धिक्षेत्र प्रति । स्पृशद्गतिमदपेक्षया चोत्पलपत्रशतव्यतिमेददृष्टान्तः। कथमिय संभवति ? इत्याह-उत्कर्षविशेषत इयं गत्युत्कर्षविशेषदर्शनादेवमस्पृशद्गतिः

Page Navigation
1 ... 57 58 59 60 61 62 63 64