Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीपंच
TAM
॥२९॥
पञ्चमस्त्रे
अविराधनाफलप्रदर्शनम्॥
एतत्प्रियत्वं खल्वत्र लिङ्गम् । आज्ञाप्रियत्वमपुनर्बन्धकादिलिङ्गम् । प्रियत्वमुपलक्षणं, श्रवणाभ्यासादेः। एतदप्यौचित्यप्रवृत्तिविज्ञेयं, तदाराधनेन तद्बहुमानात् । औचित्यबाधया तु प्रवृत्तौ न तत्प्रियत्वं, मोह एवासाविति । एतत्प्रियत्वमेव विशेष्यते-संवेगसाधकं नियमात् । यस्य भागवती सदाज्ञा प्रिया, तस्य नियमतः संवेग इति । यत एमवतो नैषा अन्येभ्यो देया। नैषा भागवती सदाज्ञा अन्येभ्योऽपुनर्बन्धकादिव्यतिरिक्तेभ्यः संसाराभिनन्दिम्यो देया । कथं ते ज्ञायन्ते ? इत्याह-लिङ्गविपर्ययात्तत्परिज्ञा। प्रक्रामादपुनर्बन्धकादिलिङ्गविपर्ययात् संज्ञा, न द्वेषादिलक्षणात्तत्परिज्ञा संसाराभिनन्दिपरिज्ञा । उक्तश्च-" क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः ॥१॥किमिति न तेभ्यो देया ? इत्याह-तदनुग्रहार्थ संसाराभिनन्दिसत्चानुग्रहार्थम् । उक्तश्च-"अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे, ॥१॥ इहैव निदर्शनमाह-आमकुम्भोदकन्यासज्ञातेन । उक्तश्च-" आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धतरहस्सं, अप्पाहारं विणासेइ" ॥१॥ एषा करुणोच्यते, अयोग्येभ्यः सदाज्ञाप्रदानरूपा। किं विशिष्टा । ? इत्याह-एकान्तपरिशुद्धा, तदपायपरिहारेण । अत एवेयमविराधनाफला, सम्यगालोचनेन । न पुनर्लानापथ्यप्रदानेन निबन्धनकरुणावत्तदाभासेति । इयं चैवभूता
त्रिलोकनाथबहुमानेन हेतुना निःश्रेयससाधिकेति । किमुक्तं भवति ? नानागमिकस्येयं भवति, किं तु परिणतागमिकस्य । अस्य KAIच भगवत्येवं बहुमानः । एवं चेयं मोक्षसाधिकैव सानुबन्धसुप्रवृत्तिभावेन । इति प्रव्रज्याफलसूत्रं समाप्तम् । एवं पञ्चमसूत्र
व्याख्या समाप्ता ॥
XXXXXXXXXXXBETEREKXXXXXX
358883&&&&XXXX
॥२९
॥

Page Navigation
1 ... 60 61 62 63 64