Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 57
________________ नान्यथा तस्यैषा आत्मनो दिक्षायोगात् । तदव्यतिरेकेऽपि भव्यत्वस्यैव तन्निवृत्तौ दोषाभाव इत्याशङ्काऽपोहायाह-न भव्यत्वतुल्या न्यायेन दिक्षा | कुतः १ इत्याह-न केवलजीवरूपमेतद्भव्यत्वम् । दिक्षा तु केवलजीवरूपेत्यर्थः । न भावि - योगापेक्षा महदादिना तदा केवलत्वेन तुल्यलं दिदृक्षायाः भव्यत्वेन । अत्र युक्तिमाह-उदा केवलत्वेन भावियोगाभावे सदा अविशेषात्तथा सांसिद्धिकत्वेन तदूर्धमपि दिवापत्तिरिति हृदयम् । एवं स्वमाचैवेयं दिदृक्षा या महदादिभावाद्विकारदर्शने केवलावस्थायां निवर्त्तते इत्येतदाशङ्कयाह तथा स्वभावकल्पनं कैाल्याविशेषे प्रक्रमादिदृक्षाया भावाभावस्वभावकल्पनमप्रमाणमेव । आत्मनस्तद्भेदापत्तेः प्रकृतेः पुरुषाधिकत्वेन तद्भावापच्येति गर्भः । अत एवाह - एष एव दोषः प्रमाणाभावलक्षणः परिकल्पितायां दिक्षायां अभ्युपगम्यमानायां तथा हि परिकल्पिता न किञ्चित् कथं तत्र प्रमाणवृत्तिरिति । तदेवं व्यवस्थिते सति परिणामभेदादात्मन इति प्रक्रमः । बन्धादिभेदो बन्धमोक्षमेद इत्येतत्साधु प्रमाणोपपन्नम् । न खल्वन्ययोगवियोगौ विहाय मुख्यः परिणामभेदः, भवाच मुक्तिरनादिमांश्च भव इति नीत्या । अत एवाह - सर्वनयविशुद्धया । अनन्तरोदितसाधुफलोपदर्शनायाहनिरुपचरितोभयभावेन प्रक्रमात मुख्यवन्वमोक्षभावेन, एवं द्रव्यास्तिकमतमधिकृत्य कृता निरूपणा । पर्यायास्तिकमतमधिकृत्याह - नात्मभूतं कर्म, न बोधस्वलक्षणमेवेत्यर्थः । तथा न परिकल्पितमसदेवैत्कर्मवासनादिरूपम् । कुतः १ इत्याह- नैवं भवादिभेदः । आत्मभृते परिकल्पिते वा कर्मणि बोधमात्राविशेषेण क्षणभेदेऽपि मुक्तक्षणमेदवन भवापवर्गविशेषः । तथा न भवाभाव एव सिद्धिः, सन्तानोच्छेदरूपा प्रध्यानप्रदीपोपमा । अत्र युक्तिमाह

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64