Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
भीपंचसूत्रस्य ॥२७॥
पञ्चमचे अकर्मणः सिद्धस्य
गतिज्ञातम् ॥
न तदुच्छेदेणुप्पाओ । न एवं समंजसत्तं । नाऽणाइमंत भवो । न हेउफलभावो । तस्स तहा सहावकप्पणमजुत्तं निराहारन्नयकओ निओगेणं । तस्सेव तहाभावे जुत्तमेअं सुहममठ्ठपयमेअं। विचिन्तिअव्वं महापण्णाएत्ति ॥
न तदुच्छेदेऽनुत्पादः, न सन्तानोच्छेदेऽनुत्पादस्तस्यैव । किं तद्युत्पाद एव यथाऽसौ सन्नुच्छिद्यते, एवमसनप्युत्पद्यतामिति को विरोधः । यद्येवं ततः किम् ? इत्याह-नैवं समञ्जसत्वं न्यायोपपन्नत्वम् । कथम् ? इत्याह-एवं हि नानादिमान भवः संसारः कदाचिदेव सन्तानोत्पत्तेः। तथा न हेतुफलभावः । चरमाद्यक्षणयोरकारणकार्यत्वात् । पक्षान्तरनिरासायाह-तस्य तथास्वभावकल्पनमयुक्तम् । कुतः ? इत्याह-निराधारोऽन्वयः कृतो नियोगेन, अयमत्र भावार्थः । स्वो भाव इत्यात्मीया सत्ता स्वभावः । एवं च स निवृत्तिस्वभाव इति स्वभाविकी आत्मीया सत्तेति निराधारत्वम् । यद्वाऽन्वयाभावस्तभिवृत्तस्तत्त्वादिति नियोगग्रहणमवश्यमिदमित्थमन्यथा शब्दार्थायोगादिति ख्यापनार्थ, एवमाद्यक्षणेऽपि भावनीयम् । अत एवाह-तस्यैव तथाभावे युक्तमेतत्तथास्वभावकल्पनमिति सूक्ष्ममर्थपदमेतद्भावगम्यत्वात्, विचिन्तितव्यं महाप्रज्ञया, अन्यथा ज्ञातुमशक्यत्वादिति । आनुषनिकमभिधाय प्रकृतमाह____ अपज्जवसिअमेव सिद्धसुक्खं । इत्तो चेवुत्तमं इमं । सव्वहा अणुस्सुगत्तेणंतभावाओ। लोगंतसिद्धिवासिणो एए । 'जत्थ य एगो तत्य निअमा अणंता' । अकम्मुणो गई पुवपओगेण अलाउप्पभिइ
॥२७॥

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64