Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
इष्टः । इहैव व्यतिरेकमाह — अपेक्षा नानन्दः, औत्सुक्यदुःखत्वात् । अपेक्ष्यमाणाया तनिवृत्तौ दोषमाह - 'संयोगो वियोगकारणं,' तदवसानतया स्वभावात् । एतस्मात् संयोगात् फलमफलम् । किमिति ? अत आह— विनिपातपरमेव तत्सांयोगिकफलम् । कथमिदं बहुमतम् ? इत्याह — बहुमतं मोहादबुधानां पृथग्जनानाम् । तत्रापि निबन्धनमाह - यदतो विपर्ययः, मोहादत एवाफले फलबुद्धिः । ततो विपर्ययादनर्था असत्प्रवृत्या पर्यवसिताः सानुबन्धतया । एवमेष भावरिपुः परो मोहः, अत एवोक्तो भगवता तीर्थकरेण । यथोक्तम् — “अण्णाणतो रिपू अण्णो, पाणिणं णेत्र विज्जइ । एत्तोऽसक्किरिया तीए, अणत्था विस्सतो सुहा " ॥१॥ यदि संयोगो दुष्टः कथं सिद्धस्याकाशेन न स दुष्टः १ इत्याशङ्कयाह - नाकाशेन सह योग एतस्य सिद्धस्य । किमिति १ अत आह—त स्वरूपसंस्थितः सिद्धः । कथमाधारमन्तरेण स्थितिः १ इत्याशङ्कयाह – नाकाशमन्यत्राधारे । अत्रैव युक्तिः, 'न सत्ता सदन्तरमुपैति न वाऽन्यथाऽन्यदन्यत्र ' । अचिन्त्यमेतत्प्रस्तुतं केवलिंगम्यं तच्चम् । तथा निश्चयमतमेतद्व्यवहारमतं त्वन्यथा सत्यपि तस्मिन्निदं तत्संयोगशक्तिक्षयात्सूपपन्नमेव ' | अभ्युच्चयमाह – 'वियोगवांश्च योग' इति कृत्वा, नैष योगः सिद्धाकाशयोरिति भिन्न लक्षणमेतस्याधिकृतयोगस्य, न चात्रापेक्षा सिद्धस्य । कथं लोकान्ताकाशगमनम् १ इत्याह — स्वभाव एवैष तस्य । अनन्तसुखस्वभावकल्पः कर्मक्षयव्यङ्ग्यः । कीदृशमस्यानन्तं सुखम् १ इत्याह-उपमात्र न विद्यते, सिद्धसुखे । यथोक्तम् — “ स्वयं वेद्यं हि तद्ब्रम, कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यक् जात्यन्धवद्धटम् " || १॥ अत एवाह —तद्भावे सिद्धसुखभावे अनुभवः परं तस्यैव । एतदपि कथं ज्ञायते १ इत्याह- आज्ञा एषा जिनानां वचनमित्यर्थः । किंविशिष्टानाम् १ इत्याह — सर्वज्ञानाम् ।
+

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64