Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 50
________________ श्रीपंचसूत्रस्य ॥ २३ ॥ तिमिर दीपस्तदपनयन स्वभावतया । रागामयवैद्यस्तच्चिकित्सासमर्थयोगेन । द्वेषानलजलनिधिस्तद्विध्यापनशक्तिभावात् । संवेगसिद्धिकरो भवति, तद्धेतुयोगेन । अचिन्त्यचिन्तामणिकल्पः, सत्त्वसुखहेतुतया । सोऽधिकृतः प्रव्रजितः । एवमुक्तनीत्या परपरार्थसाधकः, धर्मदानेन । कुतो हेतोः १ इत्याह- तथा करुणादिभावतः, प्रधानभव्यतया । किम् ? इत्याह- अनेकैर्मवैर्जन्मभिर्विमुच्यमानः पापकर्मणा, ज्ञानावरणीयादिलक्षणेन । प्रवर्द्धमानश्च शुभभावैः संवेगादिभिः अनेकभविकयाऽऽराघनया पारमार्थिकया प्राप्नोति सर्वोत्तमं भवं तीर्थकरादिजन्म । किविशिष्टम् १ इत्याह-चरमं पश्चिममचरमभवहेतुं, मोक्षहेतुमित्यर्थः । अविकलपरपरार्थनिमित्तं, अनुत्तरपुण्यसम्भारभावेन, तत्र कृत्वा निरवशेषं कृत्यं, यदुचित्तं महासत्त्वानां विधूतरजोमलः बध्यमानप्राग्बद्धकर्मरहितो व्यवहारतः सिद्ध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोतीति । अत्र सिध्यति सामान्येनाणिमाद्यैश्वर्य प्राप्नोति । बुध्यते केवली भवति । मुच्यते भवोपग्राहिकर्मणा । परिनिर्वाति सर्वतः कर्मविगमेन । किमुक्तं भवति ? सर्वदुःखानामन्तं करोति, सदा पुनर्भवाभावात् । यद्वा सिध्यति सर्वकार्यपरिसमाप्त्या । बुध्यते तत्रापि केवलाप्रतिघातेन । मुच्यते निरवशेषकर्मणा । परिनिर्वाति समग्र - खाप्त्या । एवं सर्वदुःखानामन्तं करोतीति निगमनम् । नयान्तरमतव्यवच्छेदार्थमेतदेवम् । इति प्रव्रज्यापरिपालनासूत्रं समाप्तम् । तस्वतः प्रव्रज्यापरिपालनासूत्रं समाप्तम् ।। इति पञ्चसूत्रक व्याख्यायां चतुर्थसूत्रव्याख्या समाप्ता । चतुर्थ सूत्रे प्रव्रज्या प्तितो तीर्थकरत्वाप्तिः ।। ॥ २३ ॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64