Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 49
________________ LSESS3333552 तत्तत्त्वखण्डनेन संक्लेशादिभ्यः उभयलोकापेक्षया, भोगक्रियास्वरूपखण्डनेनेति भावः । एतद् ज्ञानमित्युच्यते । यदेवमिष्टवस्तुतत्त्वनिरूपकम् । एतस्मिन् शुभयोगसिद्धिः। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः, लोकद्वये पीष्टप्रवृत्तौ। किविशिष्टा ? इत्याहउचितप्रतिपत्तिप्रधाना संज्ञानालोचनेन, तत्तदनुबन्धेक्षणात् । न ज्ञस्तदारभते यद्विनाशयति । अत एवाह-अत्र भावः प्रवर्तकः प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणो न मोह इति । अत एवाह-पायो विनो न विद्यते । अत्राधिकृतप्रवृत्ती, सदुपाययोगादित्यर्थः। एतद्वीजमेवाह-निरनुबन्धाशुभकर्मभावेन नानीदृश इत्थं प्रवर्त्तते, इति हृदयम् । सानुबन्धाशुभकर्मणः सम्यक् प्रवज्यायोगात् । आक्षिप्ताः स्वीकृता एवैते योगाः सुप्रव्रज्याव्यापाराः । कुतः ? इत्याह-भावाराधनातः। तथा जन्मान्तरे तद्बहुमानादिप्रकारेण । ततः किम् ? | इत्याह-आक्षेपात्सम्यक् प्रवर्तते, नियमनिष्पादकत्वेन । ततः किम् ? इत्याह-निष्पादयत्यनाकुलः सन् इष्टम् । एवमुक्तेन प्रकारेण क्रिया सुक्रिया भवति । सम्यगज्ञानादौचित्यारब्धेत्यर्थः । इयमेव विशेष्यते-एकान्तनिष्कलङ्का, निरतिचारतया । निष्कलङ्कार्थसाधिका, मोक्षसाधिकेत्यर्थः । यतस्तथा शुभानुबन्धा, अव्यवच्छेदेनोत्तरोत्तरयोगसिद्ध्या, ततः शुभानुबन्धायाः सुक्रियायाः सकाशात स प्रस्तुतः प्रबजितः साधयति निष्पादयति, परं प्रधान, परार्थ सत्यार्थ, सम्यगविपरीतम् । तत्कुशलः परार्थसाधनकुशलः, सदा सर्वकालम् । कथम् ? इत्याह-तैस्तैः प्रकारैबीजबीजन्यासादिभिः सानुबन्धं परार्थ, महोदयोऽसौ परपरार्थसाधनात् । एतदेवाह-बीजबीजादिस्थापनेन, बीजं सम्यक्त्वं, बीजबीजं तदाक्षेपकशासनप्रशंसादि, एतन्न्यासेन । किंविशिष्टोऽयम् ? इत्याह-कर्तृवीर्यादियुक्तः परं परार्थ प्रति । अवन्ध्यशुभचेष्टः, एतमेव प्रति । समन्तभद्रः, सर्वाकारसंपन्नतया । सुप्रणिधानादिहेतुः, क्वचिदप्यन्यूनतया । मोह

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64