Book Title: Panch Sutram
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
EXXXXXXXXXXXXXXXXXXXXXX
वीइवयइ । इक्कारसमासपरियाए समणे गेविज्जाणं देवाणं तेउलेस्सं वीइवयइ । बारसमासपरियाए अणुत्तरोववाइयाणं तेउलेस्स | वीइवयइ । तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झइ, जाव अंतं करेति " ॥ अत्र तेजोलेश्या चित्तसुखलाभलक्षणा । अत एवाह-ततः शुक्लशुक्लाभिजात्यो भवति । तत्र शुक्लो नाम भिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लाभिजात्यचैतत्प्रधानः प्रायश्छिन्नकर्मानुबन्धः । न तदयंस्तथाविधमन्यद्वध्नाति । प्रायोग्रहणमचिन्त्यत्वात्कर्मशक्तेः कदाचिनात्यपि । स एवंभृतः क्षपयति लोकसंज्ञां भगवद्वचनप्रतिकूला,प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपामिति । अत एवाह-प्रतिस्रोतोगामी लोकाचारप्रवाहनदीं प्रति । अनुस्रोतो निर्वृत्तः । एनामेवाधिकृत्यैतदभ्यासत एवं न्याय्यं चैतत् । यथोक्तम्-" अणुसोयपट्टिए बहुजणंमि पडिसोओ लद्धलक्खेण पडिसोयमेव अप्पा दायव्वो होउकामेणं । अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं अणुसोओ संसारो पडिसोओ तस्स णिप्फेण गा एवं सदा शुभयोगः श्रामण्यव्यापारसङ्गतः, एष 'योगी' व्याख्यातः । एवंभूतो भगवद्भियोगी| प्रतिपादितः। यथोक्तम्-" सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते, एतद्योगाद्धि योगी स्यात, परमब्रह्मसाधकः॥१॥ एष एवंभूत आराधकः श्रामण्यस्य, निष्पादकः श्रमणभावस्य । यथा गृहीतप्रतिज्ञः, आदित आरम्य सम्यक्प्रवृत्तेः । एवं सर्वोपधाशुद्धो, निरतिचारत्वेन । किम् ? इत्याह-संधत्ते घटयति, शुद्धं भवं जन्मविशेषलक्षणं भवैरेव । अयमेव विशेष्यते-सम्यगभवसाधकं, सत्क्रियाकरणेन, मोक्षसाधकमित्यर्थः । निदर्शनमाह-भोगक्रियाः सुरूपादिकल्प, न रूपादिविकलस्यैताः सम्यय भवन्ति । यथोक्तम्-रूपवयोवैचक्षण्यसौभाग्यमाधुर्यैश्वर्याणि भोगसाधनमिति । ततस्ताः संपूर्णाः प्रामोति सुरूपादिकल्पाद्भवादोगक्रिया इत्यर्थः । कुतः ?

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64